Skip to main content
Search
KS
Kumārasambhavam • Chapter 02

Canto 2

द्वितीयः सर्गः

Canto 2 of Kumārasambhavam.

Total: 64 Verses • Citations: KS 2.1–64 • 1 Lexicon Terms • Page 2 of 3 (Verses 30 shown)
KS 2.31 अनुष्टुप्
एवं यदात्थ भगवन्नामृष्टं नः परैः पदम् । प्रत्येकं विनियुक्तात्मा कथं न ज्ञास्यसि प्रभो ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): ऐवमिति ॥ हे भगवन्‌ षड्गुणैश्वर्यसम्पन्न ! यदात्थ `कृतव्यावृत्तयः परैः` (२/२७) इति यद्‌व्रवीषि । `ब्रुवः पञ्चानाम्-` इतयादिनाहादेशः । `वर्तमानसामीप्य वर्तमानवद्वा` इति वर्तमानप्रयोगः । वामनस्तु भ्रान्तोऽयं प्रयोग ईत्याह । आहेति भूते णलन्तभ्रमवदिति । आहेत्युपलक्षणम् । तदेव सत्यम् नोऽस्माकं पदमधिकारः परैः शत्रुभिरामृष्टमाक्षित्पम् । हे प्रभो, प्रत्येकं प्रतिपुरुषं विनियुक्तात्मा प्रवेशितस्वरुपः । सर्वान्तर्यामीत्यर्थः । कथं न ज्ञास्यसि न वेत्सि । वर्तमानेऽपि वचनभङ्ग्या भविष्यन्निर्देशः प्रसिद्धः । `अपह्नवे ज्ञः` (पा.1|3|44) `अकर्मकाच्च` (पा.1|3|26) इत्यात्मनेपदविकल्पः अन्वयः: हे भगवन् ! यत् आत्थ तत् एवम्, नः पदं परैः आमृष्टम् । हे प्रभो ! प्रत्येकं विनियुक्तात्मा कथं न ज्ञास्यसि ?
KS 2.32 अनुष्टुप्
भवल्लब्धवरोदीर्णस्तारकाख्यो महासुरः । उपप्लवाय लोकानां धूमकेतुरिवोत्थितः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): भवदिति ॥ भवतस्त्वत्तो लब्धेन वरेणोदीर्ण उद्धतः तारक इत्याख्या नामधेयं यस्य स तारकाख्यः । महानसुरो महासुरः । `सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः` (पा.2|1|61) इति तत्पुरुषः । धूमकेतुरुत्पातविशेष इव लोकानामुपप्लवायोपद्रवायोत्थित उत्पन्नः अन्वयः: भवल्लब्धवरोदीर्णः तारकाख्यो महासुरः धूमकेतुः इव लोकानाम् उपप्लवाय उत्थितः ।
KS 2.33 अनुष्टुप्
पुरे तावन्तमेवास्य तनोति रविरातपम् । दीर्घिकाकमलोन्मेषो यावन्मात्रेण साध्यते ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): पुर इति ॥ अस्य तारकस्य पुरे रविः सूर्यस्तावन्तं तावन्मात्रमेवातपं तनोति । यावन्मात्रेण यावतैव३। यावती मात्रा मितिर्यस्य यावन्मात्रं तेन वा । अल्पपरिमाणेनेत्यर्थः । मात्रा परिच्छदे । अल्पे च परिमाणे सा मात्रं कार्त्स्न्येऽवधारणे` इत्यमरः । दीर्घिकासु क्रीडावापीषु कमलानामुन्मेषो विकासः साध्यते निष्पाद्यते कठोरकिरणोऽपि मन्दोष्णः सन्नेव तद्भीत्या पुरे प्रकाशत इत्यभिप्रायः अन्वयः: अस्य पुरे रविः तावन्तम् एव आतपं तनोति यावन्मात्रेण दीर्घिकाकमलोन्मेषः साध्यते ।
KS 2.34 अनुष्टुप्
सर्वाभिः सर्वदा चन्द्रस्तं कलाभिर्निषेवते । नादत्ते केवलां लेखां हरचूडामणीकृताम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): सर्वाभिरिति ॥ चन्द्रस्तं तारकं सर्वदा । कृष्णपक्षेऽपीत्यर्थः । सर्वाभिः कलाभिर्निषेवते ।`कला तु षोडशो भागः` इत्यमरः (अ.को.1|3|17) । केवलां हरचूडामणीकृतां शिवशिरोमणीकृतां लेखां नादत्ते न गृह्णाति अन्वयः: चन्द्रः तं सर्वदा सर्वाभिः कलाभिः निषेवते, केवलां हरचूडामणीकृतां लेखां न आदत्ते ।
KS 2.35 अनुष्टुप्
व्यावृत्तगतिरुद्याने कुसुमस्तेयसाध्वसात् । न वाति वायुस्तत्पार्श्वे तालवृन्तानिलाधिकम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): व्यावृत्तेति ॥ वायुः स्तेनस्य भावः कर्म वा स्तेयं चौर्यम् । `स्तेनाद्यन्नलोपश्च` (पा.5|1|125) इति यत्प्रत्ययो नलोपश्च । कुसुमानां स्तेयं तस्मात्स्तेयाभियोगाद्दण्डाद्वा साध्वसं भयं तस्माद्धेतोरुद्याने व्यावृत्तगतिः । निवृत्तोद्यानसंचारः सन्नित्यर्थः । सापेक्षत्वेऽपि गमकत्वात् समासः । तत्पार्श्वे तत्समीपे । तालस्य वृन्तैरुद्ग्रन्थ्यते । तालस्येव वृन्तमस्येति वा तालवृन्तं तस्यानिलाद्व्यजनसंचारपवनादधिकं यथा तथा न वाति । `व्यजनं तालवृन्तकम्` इत्यमरः अन्वयः: वायुः कुसुमस्तेयसाध्वसात् उद्याने व्यावृत्तगतिः (सन्) तत्पार्श्वे तालवृन्ताऽनिलाऽधिकं न वाति ।
KS 2.36 अनुष्टुप्
पर्यायसेवामुत्सृज्य पुष्पसंभारतत्पराः । उद्यानपालसामान्यम् ऋतवस्तमुपासते ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): पर्यायेति ॥ ऋतवः षड् वसन्तादयः पर्यायसेवां क्रमसेवामुत्सृज्य पुष्पाणां संभारे संग्रहे तत्पराः । आसक्ताः सन्त इत्यर्थः । `तत्परे प्रसितासक्तौ` इत्यमरः (अ.को.3|1|9) । उद्यानपालैरुद्यानाधिकृतैः सामान्यं साधारणं यथा भवति तथा तं तारकमुपासते सेवन्ते । शीतोष्णादिदोषप्रकाशनं तु दूरापास्तमित्यर्थः अन्वयः: ऋतवः पर्यायसेवाम् उत्सृज्य पुष्पसंभारतत्पराः (सन्तः) उद्यानपालसामान्यं तम् उपासते ।
KS 2.37 अनुष्टुप्
तस्योपायनयोग्यानि रत्नानि सरितां पतिः । कथमप्यम्भसामन्तरा निष्पत्तेः प्रतीक्षते ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तस्येति ॥ सरितां पतिः समुद्रस्तस्य तारकस्योपायनानां प्राभृतानां योग्यानि । `प्राभृतं तु प्रदेशनम् । उपायनम्` इत्यमरः । रत्नान्यम्भसामन्तरा निष्पत्तेः परिपाकपर्यन्तम् । विकल्पादसमासः । कथमपि महता यत्नेन प्रतीक्षते । कदा वा परिपच्येरन्नित्येकाग्रेण पालयतीत्यर्थः अन्वयः: सरितां पतिः तस्य उपायनयोग्यानि रत्नानि अम्भसाम् अन्तरा निष्पत्तेः कथमपि प्रतीक्षते ।
KS 2.38 अनुष्टुप्
ज्वलन्मणिशिखाश्चैनं वासुकिप्रमुखा निशि । स्थिरप्रदीपतामेत्य भुजंगाः पर्युपासते ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): ज्वलदिति ॥ किंचेति चार्थः । ज्वलन्त्यो मणीनां शिरोरत्नानां शिखा ख्वाला येषां ते वासुकिप्रमुखा भुजङ्गाः सर्पाः । सिद्धाश्च ध्वन्यन्ते । `भुजंगः सिद्धसर्पयोः` इत्यमरः । निशि स्थिरप्रदीपतामनिर्वाणदीपत्वमेत्यैनं तारकं पर्युपासते परिवृत्य सेवन्ते अन्वयः: ज्वलन्मणिशिखा वासुकिप्रमुखाः भुजङ्गाश्च निशि स्थिरप्रदीपताम् एत्य एनं पर्युपासते ।
KS 2.39 अनुष्टुप्
तत्कृतानुग्रहापेक्षी तं मुहुर्दूतहारितैः । अनुकूलयतीन्द्रोऽपि कल्पद्रुमविभूषणैः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): इन्द्रोपि तेन तारकेण कृतं तत्कृतमनुग्रहं प्रसादमपेक्षते इति तथोक्तः सन् । मुहुर्दूतहारितैर्दूतप्रापिनैः कल्पद्रुमाणां विभूषणैः । तत्प्रसूनैरित्यर्थः । तं तारकमनुकूलयत्यनुकूलं करोति अन्वयः: इन्द्रोऽपि तत्कृताऽनुग्रहापेक्षी (सन्) मुहुः दूतहारितैः कल्पद्रुमविभूषणैः तम् अनुकूलयति ।
KS 2.40 अनुष्टुप्
इत्थमाराध्यमानोऽपि क्लिश्नाति भुवनत्रयम् । शाम्येत्प्रत्यपकारेण नोपकारेण दुर्जनः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): इत्थमिति । इत्थमुक्तप्रकारेण रविशशिपवनोदधिभुजंगसुरेन्द्रैराराध्यमानोऽपि भुवनत्रयं क्लिश्नाति पीडयति । तथाहि । दुर्जनः प्रत्यपकारेण प्रतीकारेणैव शाम्येच्छान्तो भवेत् । उपकारेण तु न शाम्येत् । प्रत्युत प्रकुप्यतीति भावः अन्वयः: इत्थम् आराध्यमानोऽपि स भुवनत्रयं क्लिश्नाति । (हि) दुर्जनः प्रत्यपकारेण शाम्येत्, उपकारेण न शाम्येत् ।
KS 2.41 अनुष्टुप्
तेनामरवधूहस्तैः सदयालूनपल्लवाः । अभिज्ञाश्छेदपातानां क्रियन्ते नन्दनद्रुमाः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तेनेति ॥ तेन तारकेणामरवधूहस्तैः । सुकुमारैरिति भावः । तैरपि सदयमलूना अवतंसार्थं छिन्नाः पल्लवा येषां ते नन्दनद्रुमाः । छेदाश्च पाताश्च छेदपातास्तेषाम् । अभिजानन्तीत्यभिज्ञाः । कृद्योगात्कर्मणि षष्ठी । क्रियन्ते अन्वयः: तेन अमरवधूहस्तैः सदयालूनपल्लवाः नन्दनद्रुमाः छेदपातानाम् अभिज्ञाः क्रियन्ते ।
KS 2.42 अनुष्टुप्
वीज्यते स हि संसुप्तः श्वाससाधारणानिलैः । चामरैः सुरबन्दीनां बाष्पशीकरवर्षिभिः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): वीज्यते इति ॥ हि यस्मात्कारणत्स तारकः संसुत्पः सन् । श्वाससाधारणो निश्वाससमानोऽनिलो योषां तैः ततोऽप्याधिक्ये निद्राभङ्गभयादिति भावः । वाष्पशीकरवर्षिभिः । तासां स्त्रीणां रोदनस्यायमवसर इति भावः । सुरवन्दीनां सुरप्रग्रहस्त्रीणां संबन्धिभिः । `प्रग्रहापग्रहौ वन्द्याम्` इत्यमरः । चामरैर्वीज्यते अन्वयः: हि स संसुप्तः (सन्) श्वाससाधारणाऽनिलैः बाष्पसीकरवर्षिभिः सुरवन्दीनां चामरैः वीज्यते ।
KS 2.43 अनुष्टुप्
उत्पाट्य मेरुशृङ्गाणि क्षुण्णानि हरितां खुरैः । आक्रीडपर्वतास्तेन कल्पिताः स्वेषु वेश्मसु ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): उत्पाट्येति ॥ तेन तारकेण हरितां सूर्याश्वनाम् । `हरित्सूर्ये च सूर्याश्वे वर्णे च हरिते दिशि` इति विश्वः । खुरैः शफैः क्षुण्णानि चूर्णितानि । एतेन तेषामत्यौन्नत्यं सूचितम् । मेरुश्रृङ्गाण्युत्पाट्य स्वेषु वेश्मसु । वैश्मस्विति बहुवचनेनास्य भुवनत्रयनिवासः सूचितः । आक्रीडन्त एष्वित्याक्रीडाः । ते च पर्वताः कल्पिताः कृताः अन्वयः: तेन हरितां खुरैः क्षुण्णानि मेरुश्रृङ्गाणि उत्पाट्य स्वेषु वेश्मसु आक्रीडपर्वताः कल्पिताः ।
KS 2.44 अनुष्टुप्
मन्दाकिन्याः पयःशेषं दिग्वारणमदाविलम् । हेमाम्भोरुहसस्यानां तद्वाप्यो धाम सांप्रतम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): मन्दाकिन्या इति ॥ सांप्रतं संप्रति मन्दाकिन्या भागीरथ्या दिग्वारणानां दिग्गजानां मदैराविलं कलुषं पयो जलमेव । शिष्यते इति शेषं शिष्टम् । कर्मण्यण्प्रत्ययः । `त्रिष्वन्यत्रोपयुज्यते` इति नपुंसकत्वम् । तर्हि कनककमलानि क्व गतानीत्याह- हेमेति । हेमाम्भोरुहाण्येव सस्यानि तेषां तु तस्य वाप्यस्तद्वाप्य एव धाम स्थानम् । सर्वाण्यप्युत्पाट्य स्वदीर्घिकास्वेव प्रतिरोपितवानित्यर्थः अन्वयः: साम्प्रतं मन्दाकिन्या दिग्वारणमदाविलं पयः शेषम् । हेमाम्भोरुहसस्यानां तद्वाप्यो धाम ।
KS 2.45 अनुष्टुप्
भुवनालोकनप्रीतिः स्वर्गिभिर्नानुभूयते । खिलीभूते विमानानां तदापातभयात्पथि ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): भुवनेति ॥ तस्य तारकस्यापातात्समापत्तेर्भयाद्विमानानां पथि खिलीभूतेऽप्रहतीभूते सति । `द्वे खिलाप्रहते समे` इत्यमरः (अ.को.2|1|6) । स्वर्गिभिर्देवैभुवनानामालोकने प्रीतिर्नानुभूयते अन्वयः: तदापातभयात् विमानानां पथि खिलीभूते (सति) स्वर्गिभिः भुवनालोकनप्रीतिः न अनुभूयते ।
KS 2.46 अनुष्टुप्
यज्वभिः संभृतं हव्यं विततेष्वध्वरेषु सः । जातवेदोमुखान्मायी मिषतामाच्छिनत्ति नः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): यज्वभिरिति ॥ यज्वभिर्विधिवदिष्टवद्भिः `यज्वा तु विधिनेष्टवान्` इत्यमरः (अ.को.2|7|10) । `सुयजोर्ङ्वनिप्` (पा.3|2|103) इति ङ्वनिप्प्रत्ययः । विततेष्वध्वरेषु यज्ञेषु संभृतं दत्तं हव्यं हविर्मायी मायावी । व्रीह्यादित्वादि निप्रत्ययः । स तारको नोऽस्माकं मिषतां पश्यताम् । पश्यत्सु सत्स्वित्यर्थः । `षष्ठी चानादरे` (पा.2|3|38) इति षष्ठी । जातवेदा वह्निरेव मुखं तस्माज्जातवेदोमुखादाच्छिनत्ति । आक्षिप्य गुह्णातीत्यर्थः अन्वयः: यज्वभिः विततेषु अध्वरेषु संभृतं हव्यं मायी स मिषतां नः जातवेदोमुखात् आच्छिनत्ति ।
KS 2.47 अनुष्टुप्
उच्चैरुच्चैःश्रवास्तेन हयरत्नमहारि च । देहबद्धमिवेन्द्रस्य चिरकालार्जितं यशः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): उच्चैरिति ॥ किंचेति चार्थः । तेन तारकेणोच्चैरुन्नत उच्चैः श्रवा नाम हयो रत्नमिव हयरत्नमश्वश्रेष्ठः `रत्नश्रेष्ठे मणावपि` इति विश्वः । अस्य शुभ्रत्वादुत्प्रेक्षतेः-देहबद्धं बद्धदेहम् । मूर्तिमदित्यर्थः । आहिताग्न्यादित्वान्निष्ठायाः परानिपातः । चिरकालार्जितमिन्द्रस्य यश इवाहार्यपहृतम् अन्वयः: किं च-तेन उच्चैः उच्चैः श्रवा हयरत्नं चिरकालाऽर्जितम् इन्द्रस्य यश इव अहारि ।
KS 2.48 अनुष्टुप्
तस्मिन्नुपायाः सर्वे नः क्रूरे प्रतिहतक्रियाः । वीर्यवत्यौषधानीव विकारे सांनिपातिके ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तस्मिन्निति ॥ क्रूरे घातुके । `नृशंसो धातुकः क्रूरः` इत्यमरः । तस्मिन्नसुरे नोऽस्माकं सर्वे उपायाः संनिपातदोषत्रयस्य प्रकोपजे सांनिपातिके विकारे ज्वरादौ । `संनिपाताच्च` इति वक्तव्याठ्ठक् । वीर्यवन्ति सारवन्त्यौषधानीव प्रतिहतक्रिया विफलप्रयोगा भवन्ति अन्वयः: क्रूरे तस्मिन् नः सर्वे उपायाः सन्निपातिके विकारे वीर्यवन्ति औषधानि इव प्रतिहतक्रियाः ।
KS 2.49 अनुष्टुप्
जयाशा यत्र चास्माकं प्रतिघातोत्थितार्चिषा । हरिचक्रेण तेनास्य कण्ठे निष्क इवार्पितः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): जयाशेति ॥ किंचेति चार्थः । नूनमनेन वयं जेष्याम इति यत्र हरिचक्रेऽस्माकं जयाशा विजयाशंसा । आसीदिति शेषः । प्रतिघातेन प्रतिहत्योत्थितार्चिषोद्‌गततेजसा तेन हरिचक्रेण विष्णोः सुदर्शनेनास्य तारकस्य कण्ठे निष्कमुरोभूषणमर्पितमिवेप्युत्प्रेक्षा । स्वयमयं निष्कमिव स्थितमित्यर्थः । तारकशिरश्छेदाय हरिणा चक्रं त्यक्तं तदपि नष्टशक्ति जातमिति भावः । `साष्टे शते सुवर्णानां हेम्न्युरोभूषणे पले । दीनारेऽपि च निष्कोऽस्त्री` इत्यमरः अन्वयः: यत्र अस्माकं जयाशा, प्रतिघातोत्थिताऽर्चिषा तेन हरिचक्रेण अस्य कण्ठे निष्कम् अर्पितम् इव ।
KS 2.50 अनुष्टुप्
तदीयास्तोयदेष्वद्य पुष्करावर्तकादिषु । अभ्यस्यन्ति तटाघातं निर्जितैरावता गजाः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तदीयेति । अद्य सम्प्रति निर्जित ऐरावतो यैस्ते तथोक्ताः । तस्य तारकस्येमे तदीया गजाः पुष्कराश्चावर्तकाश्च नामादयो येषां तेषु तोयदेषु मेघेषु तदाघातं वप्रक्रीडाभ्यस्यन्ति अन्वयः: अद्य निर्जितैरावताः तदीया गजाः पुष्करावर्तकादिषु तोयदेषु तटाघातम् अभ्यस्यन्ति ।
KS 2.51 अनुष्टुप्
तदिच्छामो विभो सृष्टं सेनान्यं तस्य शान्तये । कर्मबन्धच्छिदं धर्मं भवस्येव मुमुक्षवः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तदिति ॥ तत्तस्मात्कारणात् । हे विभो स्वामिन्, मोक्तुं भवं त्यक्तुमिच्छवो मुमुक्षवो विरक्ता भवस्य संसारस्य शान्तये निवृत्तये कर्मैव बन्धस्तं छिनत्तीति कर्मबन्धच्छित्तं धर्ममिव । आत्मज्ञानहेतुभूतमिति शेषः । `तमेव विदित्वातिमृत्युमेति` इति ज्ञानादेव मुक्तिः । तस्य तारकस्य शान्तये नाशाय । सेनां नयतीति सेनानीश्चमूपतिः । `सत्सूद्विष-` इत्यादिना क्विप् । तं सेनान्यं कंचित्स्रष्टुमिच्छामः । वयमिति शेषः अन्वयः: तद् हे विभो ! मुमुक्षवो भवस्य शान्तये कर्मबन्धच्छिदं धर्मम् इव तस्य शान्तये सेनान्यं स्रष्टुम् इच्छामः ।
KS 2.52 अनुष्टुप्
गोप्तारं सुरसैन्यानां यं पुरस्कृत्य गोत्रभित् । प्रत्यानेष्यति शत्रुभ्यो बन्दीमिव जयश्रियम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): गोप्तारमिति ॥ सुरसैन्यानां देवतासेनानां गोप्तारं रक्षितारं यं सेनान्यं पुरस्कृत्य पुरोधाय । `पुरोऽव्‌ययम्` इति गतित्वात् `नमस्पुरसोर्गत्योः` (पा.8|3|40) इति सकारः । गां पृथ्वीं त्रायन्त इति गोत्रास्तान्भिनत्तीति गोत्रभिदिन्द्रो जयश्रियं बन्दीमिव बन्दीकृतां स्त्रियमिव शत्रुभ्यः सकाशात्प्रत्यानेष्यति प्रत्याहरिष्यति तं स्त्रष्टुमिति पूर्वेण संबन्धः अन्वयः: सुरसैन्यानां गोप्तारं यं पुरस्कृत्य गोत्रभित् वन्दीम् इव जयश्रियं शत्रुभ्यः प्रत्यानेष्यति ।
KS 2.53 अनुष्टुप्
वचस्यवसिते तस्मिन्ससर्ज गिरमात्मभूः । गर्जितानन्तरां वृष्टिं सौभाग्येन जिगाय या ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): वचसीति ॥ तस्मिन्बार्हस्पत्ये वचस्यवसिते परिसमाप्ते सत्यात्मभूर्ब्रह्मा गिरं वाचं ससर्ज जगादेत्यर्थः । सा गीः सौभाग्येन मनोहरत्वेन । `हृद्‌भगसिन्ध्वन्ते पूर्वपदस्य च` इत्युभयपदवृद्धिः गर्जिताद्‌गर्जितस्य वानन्तरं प्रवृत्तां वृष्टिं जिगाय जितवती । गर्जितपरत्वाद्‌वृष्टेरिव तद्विज्ञापनफलत्वाद्‌गिरः सुभगत्वमिति भावः अन्वयः: तस्मिन् वचसि अवसिते (सति) आत्मभूः गिरं ससर्ज । सा सौभाग्येन गर्जितानन्तरां वृष्टिं जिगाय ।
KS 2.54 अनुष्टुप्
संपत्स्यते वः कामो यं कालः कश्चित्प्रतीक्ष्यताम् । न त्वस्य सिद्धौ यास्यामि सर्गव्यापारमात्मना ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): संपत्स्यत इति ॥ अयं वो युष्माकं कामो मनोरथः सेनानीरुपः संपत्स्यते सेत्स्यति । कश्चित्कियानपि कालः प्रतीक्ष्यताम् । तु किंतु तस्य सेनान्यः सिद्धौ विषय आत्मना स्वयं सर्गः सृष्टिरेव व्यापारस्तं न यास्यामि । नाहं स्रक्ष्यामीत्यर्थः अन्वयः: अयं कः कामः सम्पत्स्यते । कश्चित् कालः प्रतीक्ष्यताम् । तु अस्य सिद्धौ आत्मना सर्गव्यापारं न यास्यामि ।
KS 2.55 अनुष्टुप्
इतः स दैत्यः प्राप्तश्रीर्नेत एवार्हति क्षयम् । विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसांप्रतम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): इत इति ॥ इतो मत्त एव प्रात्पश्रीर्लब्धोदयः स दैत्यस्तारकासुर इतो मत्त एव क्षयं नाशं नार्हति । तथाहि । अन्यो वृक्षस्तावदास्ताम् विषस्य वृक्षो विषयवृक्षोऽपि संवर्ध्य कुतश्चित्कारणात्सम्यग्‌ वर्धयित्वा स्वयं छेत्तुमसांप्रतमनर्हः । असांप्रतमित्यमेन निपातेनाभिहितत्वाद्‌वृक्ष इति द्वितीयान्तो न भवत्यनभिहिते कर्मणि द्वितीयाभिधानात् । यथाह वामनः-- `निपातेनाप्यभिहिते कर्मणि न विभक्तिः परिगणनस्य प्रायिकत्वात्` इति अन्वयः: इतः प्रात्पश्रीः स दैत्यः इत एव क्षयं न अर्हति; विषवृक्षः अपि संवर्ध्य स्वयं छेत्तुम् असाम्प्रतम् ।
KS 2.56 अनुष्टुप्
वृतं तेनेदमेव प्राङ्मया चास्मै प्रतिश्रुतम् । वरेण शमितं लोकानलं दग्धुं हि तत्तपः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): वृतमिति ॥ प्राक्पुर्वं तेनासुरेणेदमेव देवैरवध्यत्वमेव वृतं प्रार्थितम् । मया चास्मै तारकाय प्रतिश्रुतं प्रतिज्ञातम् । `प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता` (पा.1|4|40) इति संप्रदानत्वाच्चतुर्थी । कर्तव्यं चैतदित्याह-- लोकान्दग्धुमलं शक्तम् । `पर्यात्पिवचनेष्वलमर्थेषु` इति तुमुन्प्रत्ययः । तस्य तपस्तत्तपो वरेण वरदानेन शमितमिति शेषः अन्वयः: प्राक् तेन इदम् एव वृतं, मया च अस्मै प्रतिश्रुतम् । हि लोकान् दग्धुम् अलं तत्तपो वरेण शमितम् ।
KS 2.57 अनुष्टुप्
संयुगे सांयुगीनं तमुद्यतं प्रसहेत कः । अंशाद् ऋते निषिक्तस्य नीललोहितरेतसः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): संयुग इति ॥ संयुगे युद्ध उद्यन्तं व्याप्रियमाणम् । संयुगे साधुं सांयुगीनम् । `प्रतिजनादिभ्यः खञ्` (पा.4|4|99) इति खञ्प्रत्ययः । तं तारकं निषिक्तस्य क्वचित्क्षेत्रे क्षरितस्य । `नीलः कण्ठे लोहितश्च केशेष्विति नीललोहित इति पुराणम् ।` इति स्वामी । तस्य नीललोहितस्य धूर्जटेरेतसः शुक्रस्यांशादृतेंऽशं विनान्यः कः प्रसहेताभिभवेत् । प्रसहनमभिभवः` इति वृत्तिकारः अन्वयः: संयुगो उद्यतं सांयुगीनं तं निषिक्तस्य नीललोहितरेतसः अंशात् ऋते कः प्रसहेत ?
KS 2.58 अनुष्टुप्
स हि देवः परं ज्योतिस्तमःपारे व्यवस्थितम् । परिच्छिन्नप्रभावर्द्धिर्न मया न च विष्णुना ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति ॥ स देवो नीललोहितस्तमसः पारे परतो व्यवस्थितं तमोगुणातीतं परं ज्योतिः परमात्मा हि । अतएव मया परिच्छिन्नप्रभावर्द्धिरवगाढमहिमातिशयो नभवति तथा विष्णुना च न । अतस्तस्यासाध्यं नास्तीत्यर्थः अन्वयः: हि स देवः तमःपारे व्यवस्थितं परं ज्योतिः मया विष्णुना च परिच्छिन्नप्रभावर्द्धिः न ।
KS 2.59 अनुष्टुप्
उमारूपेण ते यूयं संयमस्तिमितं मनः । शंभोर्यतध्वमाक्रष्टुमयस्कान्तेन लोहवत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): उमेति ॥ ते कार्यार्थिनो यूयं संयमस्तिमितं समाधिनिश्चलं शंभोर्मन उमारुपेणोमासौन्दर्येण `रुपं स्वभावे सौन्दर्ये नाणके पशुशब्दयोः । ग्रन्थावृत्तौ नाटकादावाकारश्लोकयोरपि ॥` इति विश्वः । अयस्कान्तेन मणिविशेषेण । `कस्कादिषु च` (पा.8|3|48) इति सकारः । लोहवदयोधातुमिव। `तेन तुल्यं क्रिया चेद्वतिः` (पा.5|1|115) इति वतिप्रत्ययो मृग्यः आक्रष्टुमाहर्तुं यतध्वमुद्युक्ता भवत अन्वयः: ते यूयं संयमस्तिमित शम्भोः मनः उमारुपेण अथस्कान्तेन लोहवत् आक्रष्टुं यतध्वम् ।
KS 2.60 अनुष्टुप्
उभे एव क्षमे वोढुमुभयोर्वीर्यमाहितम् । सा वा शंभोस्तदीया वा मूर्तिर्जलमयी मम ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): उभे इति ॥ उभयोः शंभोर्मम चाहितं निषिक्तं बीजं तेजो वोढुं सोढुं सा वोमा शंभोरष्टमूर्तेस्तस्येयं तदीया जलमयी मूर्तिर्वा मम । न तृतीयेत्यर्थः । वा शब्दो द्वन्द्वार्थे न त्वन्यार्थे । एतदेवोदाहृत्येत्थमेव व्याख्यातं गणव्याख्याने । अत्र दीपकालङ्कारः । प्राकरणिकयोरुमामहेश्वरयोरप्राकरणिकयोर्ब्रह्मजलमूर्त्योश्चौपम्यस्य गम्यत्वात् । यथाह भोजराजः- `प्रस्तुतानामप्रस्तुतानां चौपम्यस्य गम्यत्वे दीपकम्` इति । न चेयं तुल्योगिता तस्याः केवलप्रस्तुतविषत्वेन केवलाप्रस्तुतविषयत्वेन चोत्थानादिति अन्वयः: उभयोः शम्भोः मम वा आहितं बीजं वोढुं क्रमेण शम्भोः सा वा मम च तदीया जलमयी मूर्तिः वा उभे एव क्षमे ।
← Previous (Ch. 1) Full Table of Contents Next (Ch. 3) →