ननु च यथा गौरिव गौस्तथ समिध इव समिध इतीयमणि गौणी कस्मान्न भवति ?
भवति यदि समिध इत्यनेन श्रिय इति नापेक्ष्यते, श्रीवह्नेरिति वा वह्निशब्दप्रयोगो भवति। यथा वा 'ववसाअरइपओसो' (व्यवसायरविप्रदोषः), 'घणसमओ' (घनसमयः), 'अणंगगअकुंभे थणे' (अनङ्गगजकुम्भौ स्तनौ) इति। एतेन 'दैन्यमाता दरिद्रता', 'ते मृत्योरपि मृत्यवः' इत्यादेरपि न गौणत्वमित्युक्तं भवति। आदिग्रहणान्नसर्वनामादेरपि भेदाभेदाभ्यामुपचारे गौणव्यवहितार्थैव गौणी भवति।
सभेदोपचारे नामाध्यारोपाद् यथा— (उराच.२.१०)
हे हस्त दक्षिण मृतस्य शिशोर्द्विजस्य जीवातवे विसृज शूद्रमुनौ कृपाणाम्।
रामस्य गात्रमसि निर्भरगर्भखिन्न— सीताविवासनपटोः करुणा कुतस्ते॥ ६७॥
यथा वा— (राच. १९.४१)
स्थानेऽवसीदसि रघूद्वह ! किं विधात— रस्यास्त्वयेक्षितमलक्षणमङ्गकेषु।
अद्यापि जीवसि दशानन ! हे हनूमन् ! केयं तवाभिमुखवर्तिरिपोः प्रतीक्षा॥ ६८॥
अभेदोपचारेण सर्वनामाध्यारोपाद् यथा—
चन्द्रज्योत्स्नाविशदपुलिने सैकतेऽस्मिन् सरय्वा वादद्यूतं चिरतरमभूत् सिद्धयूनोः कयोश्चित्।
एको ब्रूते प्रथमनिहतं कैटभं कंसमन्यः स त्वं तत्त्वं कथय भवता को हतस्तत्र पूर्वम्॥ ६९॥
यथा वा—
प्राप्तश्रीरेष कस्मात् पुनरपि मयि तं मन्थखेदं विदध्या न्निद्रामप्यस्य पूर्वामनलसमनसो नैव सम्भावयामि।
सेतुं बध्नाति चासौ कथामिव सकलद्वीपनाथानुयात— स्त्वय्यायाते वितर्कानिति दधत इवाभाति कम्पः पयोधेः॥ ७०॥
अत्राद्योदाहरणयो रामहनूमन्तौ नामशब्दावतिनिष्करूणे परिभवासहिष्णौ च स्वमूर्तिभेदे संज्ञाविशेषणत्वेन रूढौ तद्व्य्यवधानेन तद्विपरीतयोरूपचरितस्वमूर्ति— भेदान्तरयोरारोपितावौपचारिकं विशेषणभावं भजेते इति गौणव्यवहितार्थोपचार— निमित्तोपचारनिमित्तेयं गौणी। यत्र तु न भेदोपचारः तत्र व्यवधानाभावाद् गुणनिमित्तैव गौणी भवति, यथा 'रामोऽस्मि सर्वं सहे', 'तार्क्ष्यः सोऽपि समं निजेन विभुना जानाति मां रावणम्' इति।
कथं पुनः शब्दार्थयोरभेदेऽपि भेदव्यपदेशः ?
स हि 'राहोः शिरः', 'गौर्गौः कामदुघा' इत्यादौ शब्दार्थाभेद एव दृश्यते।
उच्यते— अस्ति तावदेतन्मुख्याभावे सति प्रयोजने निमित्ते च सत्युपचारः प्रवर्तते। स चाभिन्नानां भेदव्यपदेशहेतुः, भिन्नानां चाभेदव्यपदेशहेतुर्भवति। तत्र
अभिन्नानां भेदा यथा— (कुसं. २.१०)
आत्मानमात्मना वेत्सि सृचस्यात्मानमात्मना।
आत्मना कृतिना च त्वमात्मन्येव प्रलीयसे॥ ७१॥
अत्र परमात्मव्यतिरिक्तवस्त्वन्तराभावात् कर्मादिकारकव्यतिरेकेण च ज्ञानादि— क्रियानुपपत्तेरेक एव कर्तृकर्मकरणाधिकरणोपचारेण भिद्यते। सिद्धे च भेदे सादृश्यनिबन्धने मुख्यानामिवोपचरितानामप्युपमानोपमेयव्यवहारः प्रवर्तते। तद्यथा—
त्वन्मुखं त्वन्मुखमिव त्वद्दृशौ त्वद्दृशाविव।
त्वन्मूर्तिरिव मूर्तिस्ते त्वमिव त्वं कृशोदरि॥ ७२॥
वैसादृश्यनिबन्धनस्तु व्यतिरेको भवति। यथा— (किराता. ११.७३)
नाम यस्याभिनन्दन्ति द्विषोऽपि स पुमान् पुमान्॥ ७३॥
रइकिरणाणुग्गहिआइं होंति कमलाइं कमलाइं॥ ७४॥
(रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि॥) (द्र. ७.३७)
ततश्च भिन्नार्थवत्सम्बन्धसम्बोधनविभक्तयादेरूत्पत्तिर्यथा— 'रामस्य गात्रमसि' (उराच. २.१०), 'हे हनूमन्' इति। एतेन मुख्यगौणयोरपि उपमारूपकादया व्याख्याताः। यथा—
अयमालोहितच्छायो मदेन मुखचन्द्रमाः।