Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 01

Prakāśa 1: प्रकृत्यादिप्रकाशः

प्रकाशः 1 • प्रकृत्यादिप्रकाशः

Prakāśa 1 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1182 Verses • Citations: SP 1.1–1182 • 4 Lexicon Terms • Page 27 of 40 (Verses 30 shown)
उपसर्गसंज्ञाबाधनात् षत्वं न भवति। इत्युपाती द्वयर्थौ।
आङ् मर्यादावचने पञ्चमीमुत्पादयति—'आ पाटलिपुत्राद् वृष्टो देवः।'
वचनग्रहणादभि— विधिरपि गृह्यते। तत्रापीदमेवोदाहरणम्।
अपो वर्जने पञ्चमीमुत्पादयति। 'अप त्रिगर्त्तेभ्यो वृष्टो देवः'।
सुः पूजायामुपसर्गसंज्ञांबाधते। 'सुस्तुतं भवता', 'सुसिक्‍तं भवता' इति षत्वं न भवती' ति। इत्याङपसव एकार्था इति ॥
(६. अव्ययप्रतिपदिकेषु विभक्‍तिप्रतिरूपाणि)
सुबन्ततिङन्तानुकारीणि विभक्तिप्रतिरूपाणि चेति।
तानि प्रत्येकं षोढा। यथा— १. प्रकृत्यर्थानि, २. प्रत्ययार्थानि, ३. उभयार्थानि, ४. अनुभयार्थानि, ५. प्रकृत्यन्तरार्थानि, ६. प्रत्ययान्तरार्थानि चेति। तेषु —
(१) सुबन्तानुकारीणि विभक्तिप्रतिरूपाणि चेति —
प्रकृत्यर्थानि यथा— उच्चैः, नीचैः, चिराय, विहायसेति।
प्रत्ययार्थानि यथा— आरात्, अकस्मात्, एकपदे, प्रगे इति।
उभयार्थानि यथा— अहं शुभं पारे मध्ये इति।
अनुभयार्थानि यथा— ऋते दिष्ट्‍या साक्षात् अह्नाय इति।
प्रकृत्यन्तरार्थानि यथा— कृतं दिवा दोषा अन्तरेणेति।
प्रत्ययान्तरार्थानि यथा— सायं स्वयं चिरस्य परस्परस्येति।
(२) तिङन्तानुकारीणि (विभक्तिप्रतिरूपाणि) —
प्रकृत्यर्थानि यथा— 'मन्ये शङ्के अये आम' इति।
प्रत्ययार्थानि यथा— एहि अपेहि पश्य पश्यत' इति।
उभयार्थानि यथा— 'अस्ति, असि, अस्मि, ब्रूहि' इति।
अनुभयार्थानि यथा— याति, नयाति, वर्त्तते नवर्त्तत इति।
प्रकृत्यन्तरार्थानि यथा— अस्तु, भवतु, पूर्यते, आस इति।
प्रत्ययान्तरार्थानि यथा— आह, स्यात्, ब्रूयात्, भूयात् इति।
स्वरादिनिपातमव्ययम् (१.१.३७) इत्यव्ययप्रकरणे
१. कृन्मेजन्तः (१.१.३९) क्त्वातोसुन्कसुनः (१.१.४०)
२. तद्धितश्‍चासर्वविभक्‍तिः (१.१.३८)
Full Table of Contents Next (Ch. 2) →