लक्षणेत्थम्भूताख्यान—भाग—वीप्सा—प्रतिनिधि—प्रतिदानेषु प्रतिः। स चतुर्षु द्वितीयां, द्वयोः पञ्चमीमुत्पादयति। यथा— 'वृक्षं प्रति विद्योतते, साधुर्देवदत्तो मातरं प्रति, यदत्र मां प्रति स्यात्, वृक्षं वृक्षं प्रति सेकः, अभिमन्युरर्जुनतः प्रति, माषानस्मै तिलेभ्यः प्रति प्रयच्छति।
(३. परिः)
लक्षणेत्थंभूताख्यानभागवीप्सावर्जनानर्थक्येषु परिः। सोऽपि चतुर्ष्षु द्वितीयां द्वयोः पञ्चमीमुत्पादयति। यथा—'वृक्षं परि विद्योतते, साधुर्देवदत्तो मातरं परि, यदत्र मां परि स्यात्, वृक्षं वृक्षं परि सेकः, परि परि त्रिगर्त्तेभ्यो वृष्टो देवः, विश्वप्स्निया विश्वतस्परि इति प्रतिपरी षडर्थौ।
(४. अपिः)
१पदार्थ—संभावना२ऽन्ववसर्ग३—४गर्हा—५समुच्चयेष्वपिः। तस्यैतेषूपसर्गसंज्ञा बाध्यते।
(१. पदार्थः)
पदान्तरस्याप्रयुज्यमानस्यार्थः पदार्थः। सर्पिषोऽपि स्यात्, मधुनोऽपि स्यात्। मात्रा बिन्दुः स्तोकमित्यस्यार्थे अपिशब्दो वर्त्तते।
(२. संभावना)
अधिकार्थवचनेन शक्तेरप्रतिघाताविष्करणं संभावना।
'अपि सिञ्चेन्मूलकसहस्त्रम्', 'अपि स्तुयाद् राजानम्' इति।
(३. अन्ववसर्गः)
कामचारानुज्ञानमन्ववसर्गः। 'अपि सिञ्च', 'अपि स्तुहि' इति।
(४. निन्दा)
निन्दा गर्हा। अपि सिञ्चेत् पलाण्डुम्', 'अपि स्तुयाद् वृषलम्' इति।
(५. समुच्चयः)
अनेकक्रियोपनिपातः समुच्चयः। 'अपि सिञ्च', 'अपि स्तुहि', सिञ्च च स्तुहि चेत्यर्थः। उपसर्गबाधनात् षत्वं न भवति। इत्यपिः पञ्चार्थः।
(५. अधिः)
अधिरानर्थक्याऽधिकारस्वाम्येषु कर्मप्रवचनीयः।
स आद्ययोः 'गतिर्गतौ' (८.१.७०), 'तिङि नोदात्तवति (८.१.७१) इति गत्युपसर्गसंज्ञा— बाधनान् निघातादिकं नानुभवती'—ति। यथा— 'कुतोऽध्यागच्छति, यदत्र मामधिकरिष्यति' इति
स्वाम्ये तु द्विधा १. अधियोगे सप्तमी भवति कदाचित् स्वामिनः
२. कदाचित् स्वात्। यथा —
अधि ब्रह्मदत्ते पञ्चालाः, अधि पञ्चालेषु ब्रह्मदत्तः' (इति)।
(६. अभिः)
अभिर्लक्षणेत्थंभूताख्यानवीप्सासु द्वितीयामुत्पादयति।
यथा— वृक्षमभि विद्योतते, साधुर्देवदत्तो मातरमभि, वृक्षं वृक्षमभि सिञ्चति। इत्यध्यभी ञ्यर्थौ।
(७. उपः)
हीनाऽधिकार्थयोः उपः। तत्र यथासंख्यं द्वितीयासप्तम्यौ।
यथा— उपार्जुनं योद्धारः, उप खार्यां द्रोणः' इति
(८. अतिः)
अतिः पूजायामतिक्रमणे च। तत्र पूजा स्तुतिः। निष्पन्नेऽपि फले क्रियाप्रवृत्तिरतिक्रमणम्। यथा— 'शोभनं स्तुतम्', अति स्तुतं भवता, अति सिक्तमेतद् भवता' इति।