Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 01

Prakāśa 1: प्रकृत्यादिप्रकाशः

प्रकाशः 1 • प्रकृत्यादिप्रकाशः

Prakāśa 1 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1182 Verses • Citations: SP 1.1–1182 • 4 Lexicon Terms • Page 23 of 40 (Verses 30 shown)
प्र—पराऽप—समन्वव—निर्दुर्व्याङ्न्यधयोऽप्यतिसूदभयश्‍च।
प्रतिना सह लक्षयितव्याः पर्युपयोरपि लक्षणमत्र ॥ ३५ ॥
वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः ॥ ३६ ॥
हितादिषु समो म्लोपं पाठं चाऽत्र श्रदन्तरोः ॥ ३७ ॥
एवमेते विंशतिर्वपिसश्रदन्तर्भिस्सह पञ्चविंशतिर्भवन्ति (व<अव, पि<अपि, स+श्रद्+अन्तर) (निरुक्तम् १.३.३—२२)
ते खलु (उपसर्गाः)— १. वाचकाः, २. द्योतकाः, ३. विशेषकाः, ४. सहाभिधायकाः, ५. कार्यार्थकाः, ६. निरर्थकाश्‍चेति षोढा हि विप्रथन्ते। तेषु —
वाचका यथा 'प्रगता ऋषभा अस्माद् वनात् प्रर्षभं वनम् (मभा. १.४.६०)
परागता असवोऽस्येति परासुः
अपगतो मन्युरस्य अपमन्युः
सङ्गतमक्षेण समक्षम् (काशिका ५.४.१०७)
अनुप्राप्तो नासिकामनुनासिकः,
अवक्रुष्टः कोकिलया अवकोकिलः (मभा. १.४.७९),
मक्षिकाणामभावो निर्मक्षिकम् (मभा. २.१.६),
ऋद्ध्‌यभावो यवनानां दुर्यवनम्,
आदाय युध्यते तिदिति आयुधम् (मभा. ३.३.५८),
अतीतः श्‍वानमतिश्‍वो वराहः (काशिका ५.४.८६),
समृद्धिर्मद्राणां सुमद्रम् (काशिका २.१.६),
उद्‌भूतोऽत्यर्थमुत्तमः,
अभिलक्ष्यं मुखमस्याभिमुखः,
प्रतिनिधेयः कायः प्रतिकायः,
परिम्लानोऽध्ययनाय पर्यध्ययनः (काशिका १.४.७९),
उपेत्याधीयतेऽस्मादित्युपाध्यायः (मभा. ३.३.२०)।
Full Table of Contents Next (Ch. 2) →