Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 01

Prakāśa 1: प्रकृत्यादिप्रकाशः

प्रकाशः 1 • प्रकृत्यादिप्रकाशः

Prakāśa 1 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1182 Verses • Citations: SP 1.1–1182 • 4 Lexicon Terms • Page 18 of 40 (Verses 30 shown)
तमिद् (म् इ) द्‌वर्धन्तु नो गिरः, (ऋवे.८.९२.२१,निरुक्तम् १.१०.३)
अयम् उ ते समतसि, (ऋवे. १.३०.४; निरुक्त १.११.४)
इन्दवो वामुशन्ति हि, (ऋवेः १.२.४)
विलोलदृष्टं हरिणाङ्गनासु च (कुसं. ५.१३) इति।
एते च, अन्ये च, नूनम्, इव, एव इति खलु इत्यादयो वाक्यपूरणार्थाः।
यथा— वि सीम् अतः सुरुचो वेन आवः, (तैसं. ४.२.८.२ निरुक्त १.७.३)
नूनं सा ते प्रति वरं जरित्रे, (ऋवे. २.११.२१, निरुक्तम् १.७.१)
एवा ह्येव एवा हीन्द्र, (तैआ. १.२०, काशिका ६.३.१३६)
अभीषुणः सखीनाम्, (ऋवे.४.३१.३,काशिका६.३.१३४;
आ एवं नु मन्यसे इति। (मभा. काशिका १.१.१४)
भङ्गश्लेष—भाषाश्‍लेष—यमक—वक्रोक्ति—चित्र—अनुप्रास—पदावृत्ति—
प्रश्नोत्तर—प्रभृतयोऽलङ्काराः। तदर्थाः यथा—
न वार्यन्ते, न चार्यन्ते, न स्मार्यन्ते, न हसन्ति, न हीयन्ते न वैरायते इति भङ्गश्‍लेषे,
स हि अहो रणे कत्थतेपि योनराया इति भाषाश्‍लेषे,
योषितां गात्रं न खलूनं नखलूनमिति यमकश्‍लोके,
शस्त्रं न खलु वोढव्यमिति वक्रोक्तौ,
ननु हो मथना राघो घोरा नाथ महो नु न' इति चित्रे,
Full Table of Contents Next (Ch. 2) →