यत् तत्रभवान् वृषलं याजयेत्,
यदि तत्रभवान् वृषलं याजयेत्,
यदा तत्रभवान् वृषलं याजयेत्,
जातु तत्रभवान् वृषलं याजयेत्,
अपि तत्रभवान् वृषलं याजयेत्,
यच्च तत्रभवान् वृषलमयाजयिष्यत्,
यत्र तत्रभवान् वृषलमयाजयिष्य इति।
(४.६ विनिग्रहार्थाः)
ह, अह, तुवै, त्वै, वै, वाव, वरम्, ननु इति विनिग्रहार्थाः।
यथा— अयमिदं ह करिष्यति, (निरुक्तम् १.५.२)
अयमहेदं करोतु, (निरुक्तम् १.५.२)
अयं तुवै तत्र गन्ता,
अयं त्वै ते नियोगः,
बृहस्पतिर्वै देवानां पुरोहित आसीत्,
अयं वाव हस्त आसीत्, (काशिका ८.१.६४)
वरमद्यकपोतः श्वोमयूरात्, (कासू. १.२.२९)
ननु वक्तृविशेषनिःस्पृहा गुणगृह्या वचने विपश्चितः (किराता.२) इति,
एवमन्येऽपि यथाप्रयोगमनुसर्त्तव्याः,
एते च निषेधतोऽन्यत्रापि द्रष्टव्या इति।
(५. विधिनिषेधार्था निपाताः)
(५.१ संबोधनार्थाः)
हे, है, अयि, अङ्ग, हो, अहो, हंहो, भोः इति संबोधनार्थाः।
यथा— हे देवदत्त,
है यज्ञदत्त, मभा. ८.२.८५)
अयि विष्णुमित्र,
अङ्ग माणवक,
हो अग्निहोत्रिन्,
अहो महाराज,
हं हो महाब्राह्मण,
भोः पान्थ! प्रवर्त्तस्व निवर्त्तस्व वा इति।