मातर्यपि मृतायां दीव्यसि,
भवतु नाम कामचारी तथाप्यसौ पतिरेव,
असि तपस्वी यदि नाम मू्र्खः इति।
(२.६ विस्मयार्थाः) ही, अहो, अहह, चन, नाम, पश्य, पश्यत, बतेति विस्मयार्थाः।
यथा— हतविधिललितानां ही विचित्रो विपाकः, (माघ. ११.६४)
अहो रूपमस्याः, (सक. (अलं) २)
अहह माहात्म्यं महीपतेः,
याचिता नैव कुप्यन्ति पुरुषाः केचनैव ते,
अन्धो नाम पर्वतमारोक्ष्यति,
पश्य माणवको ब्रूते,
पश्यताकाशेन याति,
कोऽयं बत दृश्यते इति।
एवमन्येऽपि यथा प्रयोगमनुसर्त्तव्याः।
एते चार्थवादादन्यत्रापि वेदितव्या इति ॥
(३. अनुवादार्था निपाताः)
(३.१. स्मरणार्थाः)
आम्, आः, अये, नाम, नूनम्, हुम्, ओमिति स्मरणार्थाः।
यथा— आम्, सैषा पञ्चवटी,
आः, स तस्याः संलापः,
आ ज्ञातं स जटायुरेषः, (उदात्तराघवे २.३१)
अये देवो दाशरथिः,
स नामाऽयं भविष्यति,
नूनमेषा जानकी,
हुं मअरंदो, (मामा. ७.१)
ओमेवमेतत् इति।
(३.२ उपमानार्थाः)
इव, वा, यथा, चित्, न, नकिः, नु प्रति इत्युपमानार्थाः।
यथा— राजेव ब्रूयात्,
मणीवोष्ट्रस्य लम्बेते, (मभार. १७१.१२)
ज्येष्ठो भ्राता यथा पिता,