अथो त्वमेष्यसि,
यावत् संभवस्तावद् विधिः,
मुनिः कणादमन्वतः, (पाभा.)
पुनः प्रभातं पुनरेव शर्वरी,
पश्चादावां विरहगुणितम्, (मेघ. १०८)
भूयश्चाह त्वमसि शयने, (मेघ. १०९)
(१.३ संभ्रमार्थकाः) यावत्, तावत्, ननु, पुरा, अङ्ग, हि, हन्त, सीम् इति संभ्रमार्थाः।
यथा—'यावत् स समयः सममेव तावत्' (काशिका ८.१.४२)।
'ननु गच्छामि भोः' (काशिका ८.१.४२)
'अधीष्व माणवक! पुरा विद्योतते विद्युत्', (काशिका ८.१.४२)
'अङ्ग पच, न हि पच', (काशिका ८.१.३४)
'हन्त प्रशाधि', (काशिका ८.१.३४)
'प्र सीमादित्योऽसृजत्, प्रासृजत् सर्वत्र आदित्य' इत्यर्थः। (ऋवे.२.२८.४)
(१.४ नियोगार्थकाः) परम्, वै, वाव, एव, ह, अह, तु, उ इति नियोगार्थाः। यथा— धर्म्मः सखा परमहो परलोकयाने,
वेदो वै धर्म्ममूलम्,
द्वे वाव ब्रह्मणो रूपे, (बृप. ३.२.१)
आत्मैवेदमग्र आसीत्, (बृप. १.४.१)।
स होवाच, (काशिका ८.१.६१)।
त्वमह ग्रामं गच्छ, (काशिका ८.१.५६)।
आख्यास्यामि तु ते, (काशिका ८.१.५६)।
सत्यमु ते वदन्ति, (१.५.३)।
(१.५ समुच्चयार्थकाः)
च, वा, आ, अपि, उत, अथ, अथो, तथा इति समुच्चयार्थाः।
यथा—'अहं च त्वं च वृत्रहन्', (ऋवे. ८.६२.११)
'वायुर्वा त्वा, मनुर्वा त्वा', (१.७.७.२)
'देवेभ्यश्च पितृभ्य आ', (ऋवे. १०.१६.११)
'दन्तैरपि नखैरपि', (तैब्रा. ३.६.६)
'दैव्याः शमितार उत मनुष्याः', (तैब्रा. ३.६.६)
'देवानथ पितॄन् स्तुहि',
'अथो खल्वाहुः',