Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 01

Prakāśa 1: प्रकृत्यादिप्रकाशः

प्रकाशः 1 • प्रकृत्यादिप्रकाशः

Prakāśa 1 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1182 Verses • Citations: SP 1.1–1182 • 4 Lexicon Terms • Page 40 of 40 (Verses 12 shown)
निपातरूपं यथा— हे देवदत्त? हा देवदत्तम्, विना विष्णुमित्रेण, ऋते यज्ञदत्तादिति।
कर्मप्रवचनीयरूपं यथा— वृक्षमनु विद्योतते, उपार्जुनं योद्धारः, अधि ब्रह्मदत्ते पञ्चालाः, अधि पञ्चालेषु ब्रह्मदत्त इति ॥
प्रकृतिप्रत्ययावेवमुपस्कारश्‍च दर्शितः।
क्रमादुपपदस्यापि स्वरूपमुपवर्णितम् ॥ ५० ॥
अव्ययानि निपाताश्‍च गतयश्‍च निरूपिताः।
कर्मप्रवचनीयाश्‍च सोपसर्गाः प्रकाशिताः ॥ ५१॥
न केवलेह प्रकृतिः प्रयुज्यते न केवलाः सुप्तिङजण्क्यजादयः।
भवत्युपस्कार इहाऽपृथग्द्वयोर्द्वयार्थमेवोपपदं प्रयुज्यते ॥ ४२ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते शृङ्गारप्रकाशे प्रकृत्यादिप्रकाशो नाम ॥ प्रथमः प्रकाशः ॥ १ ॥*
प्रकाश एषोऽद्य सनातनेन व्यधायि नूनं विततप्रकाशः।
प्रश्‍लेषबन्धादुपमुच्य तत्‍तत्प्रघट्टराजत्प्रविभक्‍तगात्रः ॥
एवमत्र प्रथमप्रकाशे द्वादशसु शब्दभेदेषु प्रथमे चत्वारो भेदा निरूपिताः। मध्यवर्त्तिनश्‍चत्वारो द्वितीये द्रष्टव्याः। अन्तिमाश्‍चत्वारो पुनस्तृतीये। एवं शब्दभेदाय प्रकाशत्रयमधिक्रियते।
Full Table of Contents Next (Ch. 2) →