Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 01

Prakāśa 1: प्रकृत्यादिप्रकाशः

प्रकाशः 1 • प्रकृत्यादिप्रकाशः

Prakāśa 1 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1182 Verses • Citations: SP 1.1–1182 • 4 Lexicon Terms • Page 39 of 40 (Verses 30 shown)
२. समवायरूपा विकरणादयः। यथा— भवति, चोरयति, दीव्यति, सुनोति, तुदति, तनोति, रुणद्धि, क्रीणाति, स्वयं नमते, दुग्धे, तप्यते तपः लूयते केदारः, इति।
३. अध्याहाररूपा द्विरुक्त्यादयः। यथा— पायंपायम् पचतिपचति, ग्रामो ग्रामो रमणीयः, मूले मूले स्थूलाः, अग्रे अग्रे सूक्ष्माः, पूर्वं पूर्वं पुष्यति, प्रथमं प्रथमं पच्यते, ज्येष्ठं ज्येष्ठमुपवेशय, माषं माषं देहि, उपर्युपर्यास्ते, अहिरहिः, बुध यस्व बुध्यस्वेति।
४. वैकृतरूपा वानावादयः। यथा— ग्रामो वाम्, ग्रामो नौ, ग्रामो वः, ग्रामो नः, ग्रामस्ते, ग्रामो मे, ग्रामस्त्वा रक्षत्, ग्रामो मा रक्षत्, हैयङ्गवीनम्, मातुलः, क्षत्रियः, श्रोत्रियः इति।
५. यत्‍नरूपा अनुप्रयोगादयः। यथा— अग्निसात् संपद्यते भस्मसाद् भवति, ब्राह्मणसात् स्यात्, देवत्राकरोति, मर्त्यत्रागच्छति, मनुष्यत्रावसति, शुक्लीभवति, पटपटाकरोति, चकासांचकार कारयामास, बिभराम्बभूव, विदांकुर्वन्तु इति।
६. प्रतिपयत्‍नरूपा विध्यनुप्रयोगादयः। यथा— रैपोषं पुष्णाति, समूलकाषं कषति, जीवग्राहं गृह्‍णाति, पुरुषवाहं वहति, ऊर्ध्वशोषं शुष्कः, चूडकनाशं नष्टः, ओदनपाकं पक्वः, सुवर्णनिधायं निहितः, लुनीहि लुनीहित्येवायं लुनाति, अधीष्वाधीष्वे— त्येवायमधीते, भ्राष्टमट मठमट, खदूरमटेत्येवायमटति, 'सक्तून् पिब, धानाः खाद ओदनं भुङ्क्ष्वेत्येवायमभ्यवहरति इति।
उपस्कारविशेष एव प्रकृतिसमीपोच्चारितं पदमुपपदम्।
तत् त्रिधा १. तिङुपपदम्, २. कृदुपपदम्, ३. सुबुपपदं च।
तेषु प्रथमं क्रियारूपम्, कारकरूपम्, नामरूपम्, अव्ययरूपम्, निपातरूपम् उपसर्गरूपं च। तेषु—
क्रियारूपं यथा— एहि मन्ये रथेन यास्यति न मर्षयामि यत् तत्रभवान् वृषलं याजयेत्।
कारकरूपं यथा— अश्‍वेन संचरते, दास्या संप्रयच्छते।
नामरूपं यथा— कालो यद् भुञ्जीत भवान्।
अव्ययरूपं यथा— कथं नाम तत्रभवान् वृषलं याजयेत्, नमते दण्डः स्वयमेव।
निपातरूपं यथा— यावद् भुङ्क्ते, पुरा व्रजति
उपसर्गरूपं यथा— पराक्रमते पराजयते इति।
द्वितीयमपि क्रियारूपम्, कारकरूपम्, नामरूपम्, अव्ययरूपम्, निपातरूपम् उपसर्गरूपं च। तेषु —
क्रियारूपं यथा— भोक्‍तुं व्रजति, भोजको व्रजति, गोदायो व्रजति, कर्त्तुमिच्छति इति।
कारकरूपं यथा— कुम्भकारः, उत्तानशयः, शय्योत्थायम्, मूलकोपदंशम् इति।
नामरूपं यथा— कालो भोक्‍तुम्, समयो भोक्‍तुम्, ब्रह्मभूयम्, ब्रह्मोद्यम् इति।
अव्ययरूपं यथा— दिवाकरः, दोषाकरः, मृषोद्यम्, ईषत्पानः इति।
निपातरूपं यथा— अलंकृत्वा, खलु कृत्वा, यावद्‍वेदम् अन्यथाकारमिति।
उपसर्गरूपं यथा— प्रजयी, प्रसवी, विकत्थी, निराकरिष्णुः इति।
तृतीयं क्रियारूपम् कारकरूपं नामरूपम् अव्ययरूपम्, निपातरूपम् कर्मप्रवचनीयरूपं चेति। तेषु —
क्रियारूपं यथा— न त्वां तृणाय मन्ये, संतापाय प्रभवति, गोषु दुह्यमानासु गतः, क्रोशतः प्राव्राजीदिति।
कारकरूपं यथा— चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम्, केशेषु प्रसितः, ब्राह्मणेषु भुञ्जानेषु वृषला आसते, वृषलेष्वासीनेषु ब्राह्मणा भुञ्जते इति।
नामरूपं यथा— गवां स्वामी, अन्नस्य हेतोर्वसति, पित्रा सदृशः, शिवं प्रजाभ्य इति।
अव्ययरूपं यथा— समया ग्रामम्, सहच्छात्रेण, नमो देवेभ्यः, दक्षिणाहि ग्रामात् इति।
Full Table of Contents Next (Ch. 2) →