Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 01

Prakāśa 1: प्रकृत्यादिप्रकाशः

प्रकाशः 1 • प्रकृत्यादिप्रकाशः

Prakāśa 1 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1182 Verses • Citations: SP 1.1–1182 • 4 Lexicon Terms • Page 37 of 40 (Verses 30 shown)
इच्छाप्रयोजकव्यापारादिक्रियासु क्रियासमभिहारादिषु च ये विधीयमानाः क्रियावचनत्वाद् भूवादिवदेव प्रत्ययान्तरमपेक्षन्ते ते सनादयः। यथा— चिकीर्षति, अध्यापयति, पापच्यते, गोपायति, ऋतीयते, कामयते इति।
क्रियाप्रधानाः कर्तृकर्मणोः क्रियायां च ये विहिताः साध्यरूपापन्नक्रियाभिधायित्वेन प्रत्ययान्तरं नापेक्षन्ते ते तिबादयः। यथा 'व्रजति देवदत्तः, पच्यते ओदनः, रज्यति वस्त्रम्, लूयते केदारः, चोरस्य रुजति, आस्यते युष्माभिः' इति।
अनुपातिक्रिया— क्रियाभिधायिनोऽसत्त्वभूतार्थाः साध्यभावे ये विधीयन्ते ते तुमुनादयः। यथा—'पक्‍तुमिच्छति, भुक्त्वा व्रजति, अधीत्य स्नाति, पायंपायमास्ते, चोरङ्कारमाक्रोशति, चकासाञ्चकार इति।
प्रायेण भावकर्म्मणोः कर्त्रादिषु च ये विधीयन्ते ते तव्यादयः। यथा— गन्तव्यं भवता, करणीयः कटः, कृतं भवता, लूयमानः केदारः, दुर्गमो मार्गः, वास्तव्यो लोक' इति।
प्रायेण कर्त्तरि कर्मादिषु च ये विधीयन्ते ते ण्वुलादयः। यथा— पाचकः पुमान् सोमं पवमानम्, पचन्यवागूम्, कन्यामलङ्करिष्णुः, पादहारकः पङ्कः, प्रियङ्करणं शीलम् इति।
सर्वकारकेषु सिद्धभावे च ये विधीयमानाः प्रायेण द्रव्यवचनत्वं लभन्ते ते उणादयः। यथा— शीतो वायुः, वत्सला धात्री, तीक्ष्णं दात्रम्, वृद्ध उपाध्यायः, रम्यः प्रासादः, पाको वर्त्तत इति।
यदादयः, घादयः, मबादयः, फगादयः, युजादयः, ढगादयश्‍च प्रत्ययप्रत्ययभेदाः।
तेषु भवापत्यस्वार्थमत्वर्थादिषु सुबन्तेभ्यो य उत्पद्यन्ते ते यदादयः। यथा— अप्सव्यः, पूर्वाह‍णेनम्, चिरन्तनम्, आमुष्यायणः, त्वयका, शुभंयुः इति।
प्रकर्षाऽपकर्ष—कुत्सा—प्रशंसादिषु तिङन्तेभ्यो य उत्पद्यन्ते ते घादयः। यथा— पचतितराम्, गच्छतितमाम्, जल्पतिकल्पम्, स्पृशतिदेश्यम्, पचतकि, पचतिरूपम् इति।
निर्वृत्तस्वार्थमत्वर्थादिषु कृद्भ्‍यो उत्पद्यन्ते ते मबादयः यथा— कृत्रिमम्, पाकिमम्, सांराविणम्, व्यावक्रोशी, जित्वरी, श्यैनंपाता इति।
जीवद्‍वंश्य—प्रशस्तकुत्सितस्वार्थादिषु अपत्यादितद्धितान्तेभ्यो य उत्पद्यन्ते ते फगादयः। यथा— गार्ग्यायणः, दाक्षायणः वार्ष्यायणिकः आभिजित्यः कौञ्जायन्य इति।
सिद्धभाव—ताच्छील्योपाधिकर्त्रादिषु णिजादिधातुप्रत्ययान्तेभ्यो य उत्पद्यन्ते ते युजादयः। यथा— कारणा, अटाट्या, यायजूकः, सासहिः, यायावरः, चिकीर्षुः इति।
अपत्याद्यर्थ—स्वार्थ—शक्ति—संख्यादिषु स्त्रीप्रत्ययान्तेभ्यो य उत्पद्यन्ते ते ढगादयः। यथा— गाङ्गे‍यः, यौवतेयः, वाराणसेयः, सुवधूकः, नद्याम्, खटवायां, युवतयः इति।
(३. प्रातिपदिकप्रत्ययाः —६)
टाबादयः, स्वादयः, तसिलादयः, कादयः, अणादयः, क्यजादयश्‍चेति प्रातिपदिकप्रत्ययभेदाः। तेषु —
प्रकृतिलिङ्गाभिधायिनः प्रातिपदिकाद्‍य उत्पद्यन्ते ते टाबादयः। यथा— खट्वा, सुदामा, कारीषगन्ध्या, ब्रह्मबन्धूः, कुमारी युवतिः इति।
Full Table of Contents Next (Ch. 2) →