Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 01

Prakāśa 1: प्रकृत्यादिप्रकाशः

प्रकाशः 1 • प्रकृत्यादिप्रकाशः

Prakāśa 1 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 1182 Verses • Citations: SP 1.1–1182 • 4 Lexicon Terms • Page 35 of 40 (Verses 30 shown)
एवं तर्हि, यथा— 'जातौ पदार्थे जातेः कार्यमुच्यमानमसंभवात् तत्सहचरितासु व्यक्तिषु निविशेत् तथा बहुव्रीह्यर्थे संबन्धे सामानाधिकरण्यक्रियायोगादिकार्यं प्रयुज्यमानं तदाश्रये भविष्यति; एवं च सोऽयमित्युपचरितसंबन्धेषु संबन्धिषु बहुव्रीहिपदैरभिधीयमानेषु, शुक्लादिविशेषणानामिवाश्रयतो लिङ्गवचनान्यपि न विरोत्स्यन्ते।
यदिवा 'अन्यपदार्थ' इत्यर्थग्रहणसामर्थ्यात् सद्रव्यस्य सलिङ्गस्य ससंख्यस्य चोपादानं भविष्यति, न विभक्त्यर्थमात्रस्य।
कथं पुनरर्थशब्दोपादानादयमर्थो लभ्यते ?
श्रूयताम्— 'अन्यपद इतीयत्युच्यमाने पदे वृत्त्यसंभावात् पदसहचरितां यां काञ्चिदर्थमात्रां पदशब्दो लक्षयेत् पदत्वस्य वा निमित्तत्वेन प्रत्यासन्नोपकारिणं विभक्त्यर्थं प्रत्याययेत्; सोऽयमेवं सिद्धे समीहिते यदर्थग्रहणं करोति तेनैतत् ज्ञापयति 'यावानर्थश्रुतेः पदविषयोऽर्थः प्रतीयते, तावान् सर्वोऽपि त्यागनिमित्ताऽभावादुपादीयत इति।
अपि च, पदमर्थस्य परिच्छेदायोपादीयते; अर्था हि प्रकृत्यादीनां सामान्येन प्रसक्‍ताः पदेनावच्छिद्यन्ते पदावधिकोऽर्थ उपादेय इति; तत्र यथा वाक्यार्थस्यानाश्रयण— माधिक्यात् तथा पदार्थैकदेशस्यापि, न्यूनत्वात्। तदेवमर्थग्रहणसामर्थ्यात् सलिङ्गः ससंख्यः सद्रव्यश्‍च समर्थः पदार्थ उपादीयते।
ननु च बहुव्रीहिणा समस्तपदार्थाभिधाने तथा सम्बन्धाभिधायिका षष्ठी न प्रयुज्यते तथा संख्याभिधायिनः स्वादयः, लिङ्गाभिधायिनष्टावादयो वा न प्रयुज्येरन् ?
उच्यते— एकादिपदैरिव वृत्तिपदैरभिहिताऽपि न संख्या संख्याकार्यं विघ्नयिष्यति; न हि षष्ठ्यादिविधान इव वचनविधावनभिहिताधिकारो विद्यते, कर्मादयश्‍च कारकविशेषाः प्रत्याययितव्या इत्यवश्यविधेया द्वितीयादयः; प्रथमा तु वचनग्रहण— सामर्थ्यात् 'न केवला प्रकृतिः प्रयोक्‍तव्या' इति समयाद् वा प्राथमिककल्पिकी भविष्यति।
यथा अभिहिता एकत्वादयो वचनव्यवस्थानिमित्तं तथाऽभिहितः सम्बन्धोऽपि षष्ठीनिमित्तं भवति। तदयुक्तमनभिहिताधिकारात्। अपि च, सम्बन्धोपसर्जनं प्रातिपदिकार्थो वृत्तिशब्दे— नाभिधीयते; न चायं षष्ठीविषयः, तस्याः प्रातिपादिकार्थोपसर्जने संबन्धे विधानात्। टाबादयस्तु स्वार्थिकत्वादभिहितेऽपि लिङ्गोभवन्ति, तदुक्तम्— 'सिद्धं तु स्त्रियाः प्रातिपदिकविशेषणत्वात् स्वार्थे टाबादय, इति (मभा. ४.१.१ वार्त्ति. २१)।
यदि वाऽन्य एव वाक्यार्थो वृत्त्यर्थात्। तथाहि— 'चित्रा गावोऽस्येति अन्यपदार्थोपसर्जनाश्‍चित्रगव्यो वाक्येनाभिधीयन्ते, चित्रगुरिति पुनर्वृत्तौ गवार्थोपसर्जनः स्वामी प्रतीयते; तत्र यदा निर्ज्ञातपराधीनतानां चित्रगवीनां स्वामिविशेषा—ऽवच्छेदायाऽन्यपदार्थ उपादीयत 'अस्यैता गाव' इति तदा बहुव्रीहिर्न भवति। यदा तु ताश्‍चित्रा गावः स्वामिनो विशेषाभिधानाय प्रत्यवमृश्यन्ते गवीनामासामयं स्वामी'—ति तदा बहुव्रीहिर्भवति चित्रगुः, शबलगुरिति। तामेव च स्वामिविशेषणतां स्फुटमुपदर्शयन्तो निदर्शयन्ति—'यस्य चित्रा गावः स चित्रगुः, यस्य शबलाः स शबलगुरिति।
उपलक्षणं चाऽत्र षष्ठी। तेन कर्मकर्त्तृप्रवचनेनाऽप्रथमाया अपि बहुव्रीहिर्वक्‍तव्यः—'ऊढो रथोऽनेन ऊढरथोऽनड्वान् उद्धृत ओदनः अस्या उद्धृतौदना़ स्थाली, उपहृतः पशुरस्मै उपहृतपशू रुद्रः, आरूढो वानरोऽमुम् आरूढवानरो वृक्षः, प्राप्ता अतिथयोऽस्मिन् प्राप्तातिथिर्ग्रामः, सिद्धः साधकोऽनया सिद्धसाधका विद्ये—'ति।
अथ अप्रथमाया इति किमर्धम् ?
इह मा भूद्— 'वृष्टे देवे गत' इति।
अथ इह कस्मान्न भवति— 'वृष्टे देवे गतं पश्ये'—ति ?
यद्येवं षष्ठ्याद्यन्तरङ्गत्वे 'चित्रगोर्देवदत्तस्ये'—त्यादौ पुनः षष्ठ्यादयो न स्युः। बाह्यं सम्बन्धिनमपेक्ष्य भविष्यन्ति।
अथ यथा चित्रगुप्रभृतिभ्यः षष्ठ्यादयः तथा 'यतो यत्रे'—त्यादिभ्यः पञ्चमीसप्तम्यादयोऽपि कस्मान्न भवन्ति?
उच्यते— 'तसिलू—त्रलादिभिः पञ्चमीसप्तम्यादीनामभिहितोऽर्थोनन्तर्भूतः। चित्रगुप्रभृतिषु तु बहुव्रीहिणाऽभिहितः सोऽर्थोऽन्तर्भूतः प्रातिपदिकार्थः संपन्नः इति।
अथेह बहुव्रीहिः कस्मान्न भवति 'पञ्चभिर्भुक्तमस्य' ?
बहुव्रीहिः समानाधिकरणानामेवेति स्मरणात्।
यद्येवम्— 'अस्तिक्षीरा, उच्चैर्मुखः, अभार्यः, प्रपर्णः, उष्ट्रमुखः, चन्द्रवदना, केशचूडः, सुवर्णाऽलङ्कारः, चन्द्रशेखरः, शूलपाणिः, कण्ठेकालः, उरसिलोमेति बहुव्रहिसंज्ञा न प्राप्नोति। तथाहि— आद्येषु चतुर्षु पूर्वपदमव्ययम्, तस्याऽसत्त्ववाचित्वात् सत्त्वभूतैः क्षीरादिभिः सह सामानाधिकरण्यं नास्ति; मध्यमेष्वपि विशेषणविशेष्य— भावानुपपत्तेर्न सामानाधिकरण्यं घटतो; अन्त्येषु तु सप्तम्यन्त—प्रथमान्तयो— रसामानाधिकरण्यं व्यक्तमेनेति।
एतेष्वपि सामानाधिकरण्योपपत्तेः। तत्र
अस्तीति निपातो विभक्तिप्रतिरूप इति कालं पुरुषं संख्यां साधनं च न व्यभिचरति। उच्चैःशब्दस्यापि सत्त्ववचनत्वं दृश्यते 'किं पुनर्यस्तथोच्चैः (मेघ. १७) इति। अतएव एताभ्यामस्तितोच्चस्त्वमिति भावप्रत्यया अपि। अभार्य इत्यादिषु दध्यो दनादिवन्मध्यमपदलोपो व्यवस्थितविभाषया वृत्तिविषये द्रष्टव्यः। तेनायमर्थः सम्पद्यते—
अस्ति क्षीरमस्याः अस्तिक्षीरा गौः,
उच्चैर्मुखमस्य उच्चैर्मुखो मैत्रेयः,
अविद्यमाना भार्या अस्य अभार्यः, अविद्यमानभार्यो वा,
प्रपतितानि पर्णानि अस्य प्रपर्णः, प्रपतितपर्णो वा।
'उष्ट्रमुखः चन्द्रवदने—'त्येतयोस्तु उष्ट्रचन्द्रशब्दौ भूयोऽवयवसामान्ययोगातिशया— दभेदोपचारेण मुखविशेषणं भवन्तौ गौणी वृत्तिमनुभवतः।
ननु किमुष्ट्रमुखयोर्मिथः सादृश्यम्?
Full Table of Contents Next (Ch. 2) →