Skip to main content
Search
MBh
Mahābhārata • Parva 12 (Śāntiparva) • Adhyāya 183

Śāntiparva Adhyāya 183

शान्तिपर्व • अध्यायः 183

Śāntiparva Adhyāya 183 of the classical Mahābhārata with 17 verses.

Total: 17 Verses • Citations: MBh 12.183.1–17 • 250 Lexicon Terms
सत्यं ब्रह्म तपः सत्यं सत्यं सृजति च प्रजाः । सत्येन धार्यते लोकः स्वर्गं सत्येन गच्छति ॥
English Translation
Bhrigu said Truth is Brahma; truth is Penance it is Truth which Creates all creatures. Truth sustains the entire universe and it is with the help of Truth that one goes to Heaven.
अनृतं तमसो रूपं तमसा नीयते ह्यधः । तमोग्रस्ता न पश्यन्ति प्रकाशं तमसावृतम् ॥
English Translation
Untruth is only another shape of Darkness. It is Darkness that leads downwards. Those who are possessed by Darkness, cannot see the bright regions of Heaven.
स्वर्गः प्रकाश इत्याहुर्नरकं तम एव च । सत्यानृतात्तदुभयं प्राप्यते जगतीचरैः ॥
English Translation
It has been said that Heaven is Light and that Hell is Darkness. The creatures living in this world may obtain both Heaven and Hell.
तत्र त्वेवंविधा वृत्तिर्लोके सत्यानृता भवेत् । धर्माधर्मौ प्रकाशश्च तमो दुःखं सुखं तथा ॥
English Translation
In this world also, Truth and Untruth bring on contrary action and contrary indications, such as Righteousness and Unrighteousness, Light and Darkness, Pleasure and Pain.
तत्र यत्सत्यं स धर्मो यो धर्मः स प्रकाशो यः प्रकाशस्तत्सुखमिति । तत्र यदनृतं सोऽधर्मो योऽधर्मस्तत्तमो यत्तमस्तद्दुःखमिति ॥
English Translation
Amongst these, Truth is Righteousness; Righteousness is Light; and Light is Happiness. Likewise Untruth is Unrighteousness; Unrighteousness is Darkness; and darkness is Sorrow or Misery.
अत्रोच्यते । शारीरैर्मानसैर्दुःखैः सुखैश्चाप्यसुखोदयैः । लोकसृष्टिं प्रपश्यन्तो न मुह्यन्ति विचक्षणाः ॥
English Translation
Seeing that the world is stricken with physical and mental pain and with pleasures are that sure to end in misery, the wise never suffer themselves to be stupefied.
तत्र दुःखविमोक्षार्थं प्रयतेत विचक्षणः । सुखं ह्यनित्यं भूतानामिह लोके परत्र च ॥
English Translation
A wiseman will try to rescue himself from sorrow. The happiness of living creatures is fragile both here and hereafter.
राहुग्रस्तस्य सोमस्य यथा ज्योत्स्ना न भासते । तथा तमोभिभूतानां भूतानां भ्रश्यते सुखम् ॥
English Translation
The happiness of creatures that are possessed by Darkness disappears like the cffulgence of the Moon when possessed by Rahu.
तत्खलु द्विविधं सुखमुच्यते शारीरं मानसं च । इह खल्वमुष्मिंश्च लोके सर्वारम्भप्रवृत्तयः सुखार्था अभिधीयन्ते । न ह्यतस्त्रिवर्गफलं विशिष्टतरमस्ति । स एष काम्यो गुणविशेषो धर्मार्थयोरारम्भस्तद्धेतुरस्योत्पत्तिः सुखप्रयोजना ॥
यदेतद्भवताभिहितं सुखानां परमाः स्त्रिय इति तन्न गृह्णीमः । न ह्येषामृषीणां महति स्थितानामप्राप्य एष गुणविशेषो न चैनमभिलषन्ति । श्रूयते च भगवांस्त्रिलोककृद्ब्रह्मा प्रभुरेकाकी तिष्ठति । ब्रह्मचारी न कामसुखेष्वात्मानमवदधाति । अपि च भगवान्विश्वेश्वर उमापतिः काममभिवर्तमानमनङ्गत्वेन शममनयत् । तस्माद्ब्रूमो न महात्मभिरयं प्रतिगृहीतो न त्वेष तावद्विशिष्टो गुण इति नैतद्भगवतः प्रत्येमि । भगवता तूक्तं सुखानां परमाः स्त्रिय इति । लोकप्रवादोऽपि च भवति द्विविधः फलोदयः सुकृतात्सुखमवाप्यते दुष्कृताद्दुःखमिति । अत्रोच्यताम् ॥
अनृतात्खलु तमः प्रादुर्भूतं तमोग्रस्ता अधर्ममेवानुवर्तन्ते न धर्मम् । क्रोधलोभमोहमानानृतादिभिरवच्छन्ना न खल्वस्मिँल्लोके न चामुत्र सुखमाप्नुवन्ति । विविधव्याधिगणोपतापैरवकीर्यन्ते । वधबन्धरोगपरिक्लेशादिभिश्च क्षुत्पिपासाश्रमकृतैरुपतापैरुपतप्यन्ते । चण्डवातात्युष्णातिशीतकृतैश्च प्रतिभयैः शारीरैर्दुःखैरुपतप्यन्ते । बन्धुधनविनाशविप्रयोगकृतैश्च मानसैः शोकैरभिभूयन्ते जरामृत्युकृतैश्चान्यैरिति ॥
यस्त्वेतैः शारीरैर्मानसैर्दुःखैर्न स्पृश्यते स सुखं वेद । न चैते दोषाः स्वर्गे प्रादुर्भवन्ति । तत्र भवति खलु ॥
सुसुखः पवनः स्वर्गे गन्धश्च सुरभिस्तथा । क्षुत्पिपासाश्रमो नास्ति न जरा न च पापकम् ॥
English Translation
These evils do not exist in heaven. There sweet breezes blow. In heaven there is also external fragrance. In heaven there exists no hunger, no thirst, no decrepitude, no sin.
नित्यमेव सुखं स्वर्गे सुखं दुःखमिहोभयम् । नरके दुःखमेवाहुः समं तु परमं पदम् ॥
English Translation
In heaven there is perpetual happiness. Both happiness and misery exist in this world. In hell there is only misery. Happiness is, therefore, the greatest object of acquisition.
पृथिवी सर्वभूतानां जनित्री तद्विधाः स्त्रियः । पुमान्प्रजापतिस्तत्र शुक्रं तेजोमयं विदुः ॥
English Translation
The Earth gives birth of all creatures. Females partake of her nature. The male animal is like Prajapati himself. The seminal fluid, it should be known, is the creative energy.
इत्येतल्लोकनिर्माणं ब्रह्मणा विहितं पुरा । प्रजा विपरिवर्तन्ते स्वैः स्वैः कर्मभिरावृताः ॥
English Translation
In days of yore thus did Brahman ordain that the creation should go on. Each, by his own deeds, obtain happiness and misery.
← Previous (Ch. 1510) Full Table of Contents Next (Ch. 1512) →