Skip to main content
Search
KD
Kādambarīsaṅgraha • Chapter 01

Complete Text

सर्गः 1

Complete Text of Kādambarīsaṅgraha.

Total: 268 Verses • Citations: KD 1.1–268 • 1 Lexicon Terms • Page 8 of 9 (Verses 30 shown)
परिहासस्तु तस्य नर्मभाषितमाकर्ण्य जगाद — “ धूर्त राजपुत्र, निपुणेयम् । न त्वयान्येन वा लोलापि प्रतारयितुं शक्यते । एषापि बुध्यत एवैतावतीर्वक्रोक्तीः । इयमपि जानात्येव परिहासजल्पितानि । अस्या अपि राजकुलसंपर्कचतुरा मतिः । विरम्यताम् । अभूमिरेषा भुजङ्गभङ्गिभाषितानाम् । इयमेव हि वेत्ति मञ्जुभाषिणी कालं च कारणं च प्रमाणं च विषयं च प्रस्तावं च कोपप्रसादयोः ” इति ॥
अत्रान्तरे चागत्य कञ्चुकी महाश्वेतामवोचत् — ‘ आयुष्मति, देवश्चित्ररथो देवी च मदिरा त्वां द्रष्टुमाह्वयतः ’ इत्येवमभिहिता च, गन्तुकामा ‘ सखि, चन्द्रापीडः क्वास्ताम् ’ इति कादम्बरीमपृच्छत् । असौ तु ‘ ननु पर्याप्तमेव अनेकस्त्रीहृदयसहस्रावस्थानमनेन ’ इति मनसा विहस्य प्रकाशमवदत् — ‘ सखि महाश्वेते, किं त्वमेवमभिदधासि । दर्शनादारभ्य शरीरस्याप्ययमेव प्रभुः, किमुत भवनस्य, विभवस्य, परिजनस्य वा । यत्रास्मै रोचते, प्रियसखीहृदयाय वा, तत्रायमास्ताम् ’ इति । तच्छ्रुत्वा महाश्वेता ‘ तदत्रैव त्वत्प्रासादसमीपवर्तिनि प्रमदवने क्रीडापर्वतकमणिवेश्मन्यास्ताम् ’ इत्यभिधाय, गन्धर्वराजं द्रष्टुं ययौ ।
चन्द्रापीडोऽपि तयैव सह निर्गत्य, विनोदार्थं वीणावादिनीभिश्च वेणुवाद्यनिपुणाभिश्च सुभाषितपाठिकाभिश्च कादम्बरीसमादिष्टप्रतीहारीप्रेषिताभिः कन्याभिरनुगम्यमानः, पूर्वदृष्टेन केयूरकेणोपदिश्यमानमार्गः, क्रीडापर्वतमणिमन्दिरमगात् । गते च तस्मिन् गन्धर्वराजपुत्री विसर्ज्य सकलं सखीजनं परिजनं च, परिमितपरिचारिकाभिरनुगम्यमाना, प्रासादमारुरोह । तत्र च शयनीये निपत्य दूरस्थिताभिर्विनयनिभृताभिः परिचारिकाभिः विनोद्यमाना कुतोऽपि प्रत्यागतचेतना चैकाकिनी तस्मिन्काले ‘ चपले, किमिदमारब्धम् ’ इति निगृहीतेव लज्जया, ‘ गन्धर्वराजपुत्रि, कथमेतद्युक्तम् ’ इत्युपालब्धेव विनयेन, ‘ भीरु, नायं कुलकन्यकानां क्रमः ’ इति गर्हितेव महत्त्वेन, ‘ दुर्विनीते, रक्षाविनयम् ’ इति तर्जितेवाचारेण, ‘ मूढे मदनेन लघुतां नीतासि ’ इत्यनुशासितेवाभिजात्येन, ‘ कुतस्तवेयं तरलहृदयता ’ इति धिक्कृतेव धैर्येण, ‘ स्वच्छन्दचारिणि, अप्रमाणीकृताहं त्वया ’ इति निन्दितेव कुलस्थित्या, अतिगुर्वी लज्जामुवाह ॥
समचिन्तयच्चैवम् — ‘ अगणितसर्वशङ्कया तरलहृदयतां दर्शयन्त्याद्य मया किं कृतमिदं मोहान्धया हताशया । तथा हि — ‘ अदृष्टपूर्वोऽयम् ’ इति साहसिकया मया न शङ्कितम् । ‘लघुहृदयां मां लोकः कलयिष्यति ’ इति निर्ह्रीकया नाकलितम् । ‘ कास्य चित्तवृत्तिः ’ इति मूढया न परीक्षितम् । ‘ दर्शनानुकूलाहमस्य न वा ’ इति तरलया न कृतो विचारक्रमः । प्रत्याख्यानवैलक्ष्यान्न भीतम् । गुरुजनान्न त्रस्तम् । लोकापवादान्नोद्विग्नम् । तथा च ‘महाश्वेता दुःखिता ’ इति निर्दाक्षिण्यया नापेक्षितम् । ‘ आसन्नवर्ती सखीजनोऽप्युपलक्षयति’ इति मन्दया न लक्षितम् । ‘ पार्श्वस्थितः परिजनः पश्यति ’ इति नष्टचेतनया न दृष्टम् । स्थूलबुद्धयोऽपि तादृशी विनयच्युतिं विभावयेयुः, किमुतानुभूतमदनवृत्तान्ता महाश्वेता, सकलकलाकुशलाः सख्यो वा, राजकुलसञ्चारचतुरो वा नित्यमिङ्गितज्ञः परिजनः । ईदृशेषु अतिनिपुणतरदृष्टयोऽन्तःपुरदास्यः ।
समचिन्तयच्चैवम् — ‘ अगणितसर्वशङ्कया … … स्थूलबुद्धयोऽपि तादृशी विनयच्युतिं विभावयेयुः, किमुतानुभूतमदनवृत्तान्ता महाश्वेता, सकलकलाकुशलाः सख्यो वा, राजकुलसञ्चारचतुरो वा नित्यमिङ्गितज्ञः परिजनः । ईदृशेषु अतिनिपुणतरदृष्टयः अन्तःपुरदास्यः । सर्वथा हतास्मि मन्दपुण्या । मरणं मेऽद्य श्रेयः, न लज्जाकरं जीवितम् । श्रुत्वैतं वृत्तान्तं किं वक्ष्यत्यम्बा तातो वा गन्धर्वलोको वा । किं करोमि । कोऽत्र प्रतीकारः । केनोपायेन स्खलितमिदं प्रच्छादयामि । कस्य वा चापलमिदमेतेषां दुर्विनीतानामिन्द्रियाणां कथयामि । क्व वानेन दग्धहृदयेन गृहीता गच्छामि । तथा महाश्वेताव्यतिकरेण प्रतिज्ञा कृता । तथा प्रियसखीनां पुरो मन्त्रितम् । तथा च केयूरकस्य हस्ते सन्दिष्टम् । न खलु जानामि मन्दभागिनी शठविधिना वा पूर्वकृतापुण्यसञ्चयेन वा मृत्युहतकेन वान्येन वा केनाप्ययमानीतो मम विप्रलम्भकश्चन्द्रापीडः । कोऽपि वा, न कदाचिद्दृष्टो नानुभूतो न च श्रुतो न चिन्तितो नोत्प्रक्षितो मां विडम्बयितुमुपागतः ; यस्य दर्शनमात्रेणैव संयम्य दत्तेवेन्द्रियैः, गृहीतगुणपणेन विक्रीतेव हृदयेनोपकरणीभूतास्मि । न मे कार्यं तेन चपलेन ’ इति क्षणमिव सङ्कल्पमकरोत् । कृतसङ्कल्पा तत्परित्यागसङ्कल्पसमकालप्रस्थितेन कण्ठलग्नेन पृष्टेव जीवितेन, ‘ अविशेषज्ञे, पुनरपि प्रक्षालितलोचनया दृश्यतामसौ जनः प्रत्याख्यानयोग्यो न वा ’ इति तत्कालागतेनाभिहितेव बाष्पेण, पुनरपि तथैव चन्द्रापीडाभिमुखहृदया बभूव । तदेवमस्तमितप्रतिसमाधानबला जालवातायनेन तमेव क्रीडापर्वतमवलोकयन्त्यतिष्ठत् । तत्रस्था च सा तमानन्दजलव्यवधानोद्विग्नेव स्मृत्या ददर्श, न चक्षुषा । अङ्गुलीगलितस्वेदपरामर्शभीतेव चिन्तया लिलेख, न चित्रतूलिकया । तत्संगमकालातिपातासहेव मनो गमनाय नियुक्तवती, न परिजनम् ॥
चन्द्रापीडोऽपि प्रविश्य मणिगृहम्, शिलातलास्तीर्णायाम् उभयत उपर्युपरि निर्देशितबहूपधानायां कुथायां निपत्य केयूरकेणोत्सङ्गे गृहीतचरणयुगलः, ताभिर्यथादिष्टेषु भूमिभागेषूपविष्टाभिः कन्यकाभिः परिवृतः, दोलायमानेन चेतसा चिन्तां विवेश — ‘ किं तावदस्या गन्धर्वराजदुहितुः कादम्बर्याः सहभुव एते विलासा एवेदृशाः सकललोकहृदयहारिणः । आहोस्विदनाराधितप्रसन्नेन भगवता मकरकेतुना मयि नियुक्ताः । येन मां सास्त्रेण सरागेण कूणितत्रिभागेण चक्षुषा तिर्यग्विलोकयति । मद्विलोकिता च धवलेन स्मितालोकेन दुकूलेनेव लज्जयात्मानमावृणोति । पुनश्चाचिन्तयत् — ‘ प्रायेण मानुष्यकसुलभा लघुता मिथ्यासङ्कल्पसहस्रैरेवं मां विप्रलभते । लुप्तविवेको यौवनमदो मदयति मदनो वा । यतस्तिमिरोपहतेव यूनां दृष्टिरल्पमपि कालुष्यं महत्पश्यति । स्नेहलवोऽपि वारिणेव । यौवनमदेन दूरं विस्तार्यते । स्वयमुत्पादितानेकचिन्ताशताकुला कविमतिरिव तरलता न किञ्चिन्नोत्प्रेक्षते । निपुणमन्मथगृहीता चित्रवर्तिकेव तरुणचित्तवृत्तिर्न किञ्चिन्नालिखति । संजातरूपाभिमाना कुलटेवात्मसंभावना न क्वचिन्नात्मानमर्पयति । स्वप्न इवाननुभूतमपि मनोरथो दर्शयति । इन्द्रजालपिच्छिकेव असंभाव्यमपि प्रत्याशा पुरः स्थापयति । ’ भूयश्च चिन्तितवान् — ‘ किमनेन वृथैव मनसा खेदितेन । यदि सत्यमेवेयं धवलेक्षणा मय्येवं जातचित्तवृत्तिः, तदा न चिरात्स एवैनामप्रार्थितानुकूलो मन्मथः प्रकटीकरिष्यति । स एवास्य संशयस्य च्छेत्ता भविष्यति ’ इत्यवधार्योत्थायोपविश्य च, ताभिः कन्यकाभिः सहाक्षैर्गेयैश्च विपञ्चीवाद्यैश्च स्वरसंदेहविवादैश्च सुभाषितगोष्ठीभिश्चान्यैश्च तैस्तैरालापैः सुकुमारैः कलाविलासैः क्रीडन्नासाञ्चक्रे । मुहूर्तं च स्थित्वा निर्गम्योपवनालोकनकुतूहलाक्षिप्तचित्तः, क्रीडापर्वतकशिखरमारुरोह ॥
कादम्बरी तु तं दृष्ट्वा, ‘ चिरयति ’ इति महाश्वेतायाः किल वर्त्मावलोकयितुं विमुच्य तं गवाक्षम्, अनङ्गाक्षिप्तचित्ता सौधस्योपरितनं तलं कैलासशिखरमिव गौर्यारुरोह । तत्र च विरलपरिजना, सकलशशिमण्डलपाण्डुरेणातपत्रेण हेमदण्डेन निवार्यमाणातपा, चतुर्भिर्वालव्यजनैश्च फेनशुचिभिरुद्धूयमानैरुपवीज्यमाना, मुहुश्चामरशिखां समासज्य, मुहुश्छत्रदण्डमवलम्ब्य, मुहुस्तमालिकास्कन्धे करौ विन्यस्य, मुहुर्मदलेखां सखीं परिष्वज्य, मुहुः परिजनान्तरितसकलदेहा नेत्रत्रिभागेणावलोक्य, मुहुर्निश्चलकरविधृताम् अधरपल्लवे वीटिकां विनिवेश्य, मुहुः उद्गीर्णोत्पलप्रहारपलायमानपरिजनानुसरणदत्तकतिपयपदा, विहस्य तं विलोकयन्ती, तेन च विलोक्यमाना, महान्तमपि कालमतिक्रान्तं नाज्ञासीत् । आरुह्य च प्रतीहार्या निवेदितमहाश्वेताप्रत्यागमना, तस्मादवततार । स्नानादिषु मन्दादरापि महाश्वेतानुरोधेन दिवसव्यापारमकरोत् । चन्द्रापीडोऽपि तस्मादवतीर्य, प्रथमविसर्जितेनैव कादम्बरीपरिजनेन निर्वर्तितस्नानविधिः, निरुपहतशिलार्चिताभिमतदैवतः, क्रीडापर्वतक एव सर्वमाहारादिकमहःकर्म चक्रे ॥
क्रमेण च कृताहारः, क्रीडापर्वतकप्राग्भागभाजि मनोहारिणि मरकतशिलातले समुपविष्टः, दृष्टवान् सहसैवातिबहुलधाम्ना धवलेनालोकेन विलिप्यमानमम्बरतलम् ॥
कुतूहलाच्चालोकानुसारप्रहितचक्षुः, अद्राक्षीत् अनल्पकन्यकाकदम्बपरिवृताम्, ध्रियमाणधवलातपत्राम्, उद्धूयमानचामरद्वयाम्, कादम्बरीप्रतीहार्या वामपाणिना वेत्रलतागर्भेणार्द्रवस्त्रशकलावच्छन्नमुखं चन्दनानुलेपनसनाथं नालिकेरसमुद्गकमुद्वहन्त्या दक्षिणकरेण दत्तहस्तावलम्बाम्, केयूरकेण च निश्वासहार्ये निर्मोकशुचिनी धौतकल्पलतादुकूले दधता निवेद्यमानमार्गाम्, मालतीकुसुमदामाधिष्ठितकरतलया च तमालिकया अनुगम्यमानामागच्छन्तीं मदलेखाम् ; तस्याश्च समीपे तरलिकाम् ; तया च सितांशुकोपच्छदे पटलके गृहीतम्, सहभुवमिव चन्द्रमसः, हासमिव श्रियः, प्रतिमातारागणमिव जलनिधिजलादुद्धृतम्, यशोराशिमिवैकत्र घटितं सर्वसागराणाम्, शरच्छशिनमिव घनमुक्तांशुनिवहधवलितदिङ्मुखम्, प्रभावर्षिणमतितारं हारम् ॥
दृष्ट्वा चायमस्य, चन्द्रापीडः, चन्द्रातपद्युतिमुषो धवलिम्नः कारणमिति मनसा निश्चित्य, दूरादेव प्रत्युत्थानादिना समुचितेनोपचारक्रमेण मदलेखामापतन्तीं प्रतिजग्राह । सा तु तस्मिन्नेव मरकतग्रावणि मुहूर्तमुपविश्य, स्वयमुत्थाय, तेन चन्दनाङ्गरागेणानुलिप्य, ते च द्वे दुकूले परिधाप्य, तैश्च मालतीकुसुमदामभिरारचितशेखरं कृत्वा, तं हारमादाय, चन्द्रापीडमुवाच — ‘ कुमार, तवेयमपहस्तिताहंकारकान्ता पेशलता प्रीतिपरवशं जनं किमिव न कारयति । प्रश्रय एव ते ददात्यवकाशमेवंविधानाम् । अनया चाकृत्या कस्यासि न जीवितस्वामी । अनेन चाकारणाविष्कृतवात्सल्येन चरितेन कस्य न बन्धुत्वम् अध्यारोपयसि । एषा च ते प्रकृतिमधुरा व्यवहृतिः कस्य न वयस्यतामुत्पादयति । कं वा न समाश्वासयन्त्यमी स्वभावसुकुमारवृत्तयो भवद्गुणाः । त्वन्मूर्तिरेवात्रोपालम्भमर्हति, या प्रथमदर्शन एव विस्रम्भमुपजनयति । इतरथा हि त्वद्विधे सकलभुवनप्रथितमहिम्नि प्रयुज्यमानं सर्वमवानुचितमिवाभाति । तथा हि — संभाषणमप्यधःकरणमिवापतति । आदरोऽपि प्रभुताभिमानमिवानुमापयति । स्तुतिरप्यात्मोत्सेकमिव सूचयति । उपचारोऽपि चपलतामिव प्रकाशयति । प्रीतिरप्यनात्मज्ञतामिव ज्ञापयति । विज्ञापनापि प्रागल्भ्यमिव ज्ञायते । सेवापि चापलमिव दृश्यते । दानमपि परिभव इव भवति । अपि च, स्वयंगृहीतहृदयाय किं दीयते । जीवितेश्वराय किं प्रतिपाद्यते। प्रथमकृतागमनमहोपकारस्य का ते प्रत्युपक्रिया । दर्शनदत्तजीवितफलस्य सफलमागमनं केन ते क्रियते । प्रणयितां चानेन व्यपदेशेन दर्शयति कादम्बरी, न विभवम् । अप्रतिपाद्या हि परस्वता सज्जनविभवानाम् । आस्तां तावद्विभवः । भवादृशस्य दास्यमप्यङ्गीकुर्वाणा नाकार्यकारिणीति नियुज्यते । दत्त्वात्मानमपि वञ्चिता न भवति । जीवितमप्यर्पयित्वा न पश्चात्तप्यते । प्रणयिजनप्रत्याख्यानपराङ्मुखी च दाक्षिण्यपरवती महत्ता सताम् ।
प्रणयिजनप्रत्याख्यानपराङ्मुखी च दाक्षिण्यपरवती महत्ता सताम् । न च तादृशी भवति याचमानानाम्, यादृशी ददतां लज्जा । यत्सत्यममुना व्यतिकरेण कृतापराधमिव त्वय्यात्मानमवगच्छति कादम्बरी । तदयममृतमथनसमुद्भूतानां सर्वरत्नानामेकः शेष इति शेषनामा हारोऽमुनैव हेतुना बहुमतो भगवताम्भसां पत्या गृहमुपगताय प्रचेतसे दत्तः, पाशभृतापि गन्धर्वराजाय, गन्धर्वराजेनापि कादम्बर्यै तयापि त्वद्वपुरस्यानुरूपमाभरणस्येति विभावयन्त्या, नभःस्थलमेवोचितं सुधासूतेर्धाम न धरेत्यवधार्यानुप्रेषितः । यद्यपि निजगुणगणाभरणभूषिताङ्गयष्टयो भवादृशाः क्लेशहेतुम् इतरजनबहुमतमाभरणभारमङ्गेषु नारोपयन्ति, तथापि कादम्बरीप्रीतिरत्र कारणम् । किं न कृतमुरसि शिलाशकलं कौस्तुभाभिधानं लक्ष्म्याः सहजमिति बहुमानमाविष्कुर्वता भगवता शार्ङ्गपाणिना । न च नारायणोऽत्रभवन्तमतिरिच्यते । नापि कौस्तुभमणिरणुनापि गुणलवेन शेषमतिशेते । न चापि कादम्बरीमाकारानुकृतिकलयाप्यल्पीयस्या लक्ष्मीरनुगन्तुमलम् । अतोऽर्हतीयमिमं बहुमानं त्वत्तः । न चाभूमिरेषा प्रीतिप्रसरस्य । नियतं च भवता भग्नप्रणया महाश्वेतामुपालम्भसहस्रैः खेदयित्वा स्वात्मानमुत्स्रक्ष्यति । अत एव महाश्वेता तरलिकामपीमं हारमादाय त्वत्सकाशं प्रेषितवती । तयापि कुमारस्य संदिष्टमेव — न खलु महाभागेन मनसापि कार्यः कादम्बर्याः प्रथमप्रणयप्रसरभङ्गः ” इत्युक्त्वा, तं तस्य वक्षःस्थले बबन्ध ॥
चन्द्रापीडस्तु विस्मयमानः प्रत्यवादीत् — “ मदलेखे, किमुच्यते । निपुणासि । जानासि ग्राहयितुम् । उत्तरावकाशमपहरन्त्या कृतं वचसि कौशलम् । अयि मुग्धे, के वयमात्मनः । के वा वयं ग्रहणस्याग्रहणस्य वा । गता खल्वियमस्तं कथा। सौजन्यशालिनीभिः भवतीभिः उपकरणीकृतोऽयं जनो यथेष्टमिष्टेष्वनिष्टेषु वा व्यापारेषु विनियुज्यताम् । अतिदक्षिणायाः खलु देव्याः कादम्बर्याः निर्दाक्षिण्यमपि गुणा न कंचिन्न दासीकुर्वन्ति ” इत्युक्त्वा च, कादम्बरीसंबद्धाभिरेव कथाभिः सुचिरं स्थित्वा, विसर्जयाम्बभूव मदलेखाम् । अनतिदूरं गतायां च तस्याम्, क्रीडापर्वतकगतमुदयगिरिगतमिव चन्द्रमसं चन्दनदुकूलहारधवलं चन्द्रापीडं द्रष्टुमुत्सारितवेत्रच्छत्रचामरचिह्ना निषिद्धाशेषपरिजनानुगमना, तमालिकाद्वितीया, चित्ररथसुता पुनरपि तदेव सौधशिखरमारुरोह । तत्रस्था च पुनस्तथैव विविधविलासतरङ्गितैर्विकारिविलोकितैः जहारास्य मनः॥
कादम्बरीसंग्रहः - कादम्बरी - 15
अथ शनैःशनैरदर्शनमुपगते भगवति गभस्तिमालिनि, जातायां चादर्शनक्षमायां वेलायाम्, सौधशिखरादवततार कादम्बरी, क्रीडापर्वतकनितम्बाच्च चन्द्रापीडः । उच्छ्रिते च ततो न चिरादिव कुसुमायुधाधिराज्यैकातपत्रे श्वेतभानौ, चन्द्रापीडो गृहकुमुदिन्यास्तीरे हरिचन्दनरसैः प्रक्षालितं कादम्बरीपरिजनोपदिष्टं मुक्ताशिलापट्टे
चन्द्रशीतलमधिशिश्ये । तत्रस्थस्य चास्यागत्याकथयत् केयूरकः — ‘ देवी कादम्बरी देवं द्रष्टुमागता ’ इति ॥
अथ चन्द्रापीडः ससंभ्रममुत्थाय, आगच्छन्तीम्, अल्पसखीजनपरिवृताम्, अपनीताशेषराजचिह्नाम् इतरामिवैकावलीमात्राभरणाम्, मदलेखया दत्तहस्तावलम्बां कादम्बरीमपश्यत् । आगत्य च प्रीतिपेशलतां दर्शयन्ती प्राकृतेव परिजनोचिते भूतले सा समुपाविशत् । चन्द्रापीडोऽपि ‘ कुमार, अध्यास्यतां शिलातलमेव ’ इत्यसकृदनुबध्यमानोऽपि मदलेखया भूमिमेवाभजत । सर्वासु चासीनासु मुहूर्तमिव स्थित्वा, वक्तमुपचक्रमे चन्द्रापीडः — “ देवि, दृष्टिपातमात्रप्रीते दासजने संभाषणादिकस्यापि प्रसादस्य नास्त्यवकाशः । किमुतैतावतोऽनुग्रहस्य । न खलु चिन्तयन्नपि निपुणं तमात्मनो गुणलवमवलोकयामि, यस्यायमनुरूपोऽनुग्रहातिरेकः । अतिसरलता तवेयमपगताभिमानमधुरा च सुजनता, यदभिनवसेवकजनेऽप्येवम् अनुरुध्यते । प्रायेण मामुपचारहार्यमदक्षिणं देवी मन्यते । धन्यः खलु परिजनस्ते, यस्योपरि नियन्त्रणा स्यात् । आज्ञासंविभागकरणोचिते भृत्यजने क इवादरः । परोपकारोपकरणं शरीरम् । तृणलवलघु च जीवितम् । अपत्रपे त्वत्प्रतिपत्तिभिः उपायनीकर्तुम् एवमागतायास्ते । वयमेते, शरीरमिदम्, एतज्जीवितम्, एतानीन्द्रियाणि ; एतेषामन्यतरदारोपय परिग्रहेण गरीयस्त्वम् ” इति । अथैवंवादिनोऽस्य वचनमाक्षिप्य मदलेखा सस्मितमवादीत् — ‘ कुमार, भवतु, अतियन्त्रणया खिद्यते खलु सखी कादम्बरी। किमर्थं चैवमुच्यते । सर्वमिदमन्तरेणापि वचनमनया परिगृहीतम् । किं पुनरमुनोपचारफल्गुना वचसा संदेहदोलामारोप्यते ’ इति ॥
स्थित्वा च कञ्चित्कालं कृतप्रस्तावा, ‘ कथं राजा तारापीडः, कथं देवी विलासवती, कथमार्यः शुकनासः, कीदृशी चोज्जयिनी, कियत्यध्वनि सा च, कीदृग्भारतं वर्षम्, रमणीयो वा मर्त्यलोकः ’ इत्यशेषं पप्रच्छ । एवंविधाभिश्च कथाभिः सुचिरं स्थित्वोत्थाय, कादम्बरी केयूरकं चन्द्रापीडसमीपशायिनं समादिश्य परिजनं च, शयनसौधशिखरमारुरोह । तत्र च सितदुकूलवितानतलास्तीर्णं शयनीयमलञ्चकार । चन्द्रापीडोऽपि तस्मिन्नेव शिलातले निरभिमानतामभिरूपतामतिगम्भीरतां च कादम्बर्याः, निष्कारणवत्सलतां च महाश्वेतायाः, सुजनतां च मदलेखायाः, महानुभावतां च परिजनस्य, अतिसमृद्धिं च गन्धर्वराजलोकस्य, रम्यतां च किंपुरुषदेशस्य मनसा भावयन्, केयूरकेण संवाह्यमानचरणः क्षणादिव क्षणदां क्षपितवान् ॥
अथ समुद्गते सवितरि, शिलातलादुत्थाय चन्द्रापीडः प्रक्षालितमुखकमलः कृतसन्ध्यानमस्कृतिः, गृहीतताम्बूलः ‘ केयूरक, विलोकय, देवी कादम्बरी प्रबुद्धा न वा । क्व वा तिष्ठति ’ इत्यवोचत् । गतप्रतिनिवृत्तेन च तेन ‘ देव, मन्दरप्रासादस्य अधस्तादङ्गणसौधवेदिकायां महाश्वेतया सहावतिष्ठत ’ इत्यावेदिते, गन्धर्वराजतनयाम् आलोकयितुमाजगाम । ददर्श च जटाजिनमौञ्जीवल्कलाषाढधारिणीभिः वर्णिचिह्नाभिस्तापसीभिः उपास्यमानाम् अन्तःपुराभ्यर्हिताश्च सादरं नमस्कारैराभाषणैः अभ्युत्थानैः आसन्नवेत्रासनदानैश्च संमानयन्ती महाश्वेताम्, पृष्टतश्च समुपविष्टेन किन्नरमिथुनेन मधुकरमधुराभ्यां वंशाभ्यां दत्ते ताने, कलगिरा गायन्त्या नारददुहित्रा पठ्यमाने च सर्वमङ्गलमहीयसि महाभारते दत्तावधानां कादम्बरीम् । समुपसृत्य कृतनमस्कारः, तस्यामेव सुधावेदिकायां विन्यस्तमासनं भेजे । स्थित्वा च कञ्चित्कालम्, महाश्वेताया वदनं विलोक्य, स्फुरितकपोलोदरं मन्दस्मितमकरोत् । असौ तु तावतैव विदिताभिप्राया कादम्बरीमब्रवीत् — ‘ सखि, भवत्या गुणैश्चन्द्रापीडश्चन्द्रकान्त इव चन्द्रमयूखैः आर्द्रीकृतो न शक्नोति वक्तुम् । जिगमिषति खलु कुमारः । पृष्ठतो दुःखमविदितवृत्तान्तं राजचक्रमास्ते । अपि च, युवयोर्दूरस्थितयोरपि स्थितेयमिदानीं कमलिनीकमलबान्धवयोरिव कुमुदिनीकुमुदनाथयोरिव प्रीतिरा प्रलयात् । अतोऽभ्यनुजानातु भवती ’ इति ॥
अथ कादम्बरी ‘ सखि, स्वाधीनोऽयं सपरिजनो जनः कुमारस्य स्व इवान्तरोत्मा । क इवात्रानुरोधः ’ इत्यभिधाय, गन्धर्वकुमारानाहूय ‘ प्रापयत कुमारं स्वां भूमिम् ’ इत्यादिदेश । चन्द्रापीडोऽप्युत्थाय प्रणम्य प्रथमं महाश्वेताम्, ततः कादम्बरीम्, तस्याश्च प्रेमस्निग्धेन चक्षुषा मनसा च गृह्यमाणः, ‘ देवि, किं ब्रवीमि । बहुभाषिणो न श्रद्दधाति लोकः । स्मर्तव्योऽस्मि परिजनकथासु ’ इत्यभिधाय, कन्यकान्तःपुरान्निर्जगाम । कादम्बरीवर्जम् अशेषकन्यकाजनो गुणगौरवाकृष्टः परवश इव तं व्रजन्तमा बहिस्तोरणादनुवव्राज । निवृत्ते च कन्यकाजने, केयूरकेणोपनीतं वाजिनमारुह्य, गन्धर्वकुमारकैस्तैरनुगम्यमानः, हेमकूटात् प्रवृत्तो गन्तुम् । गच्छतश्चास्य चित्ररथतनया न केवलमन्तः, बहिरपि सैव सर्वाशानिबन्धनमासीत् । क्रमेण च प्राप्य महाश्वेताश्रमम्, अच्छोदसरस्तीरे संनिविष्टम् इन्द्रायुधखुरपुटानुसारेणैव आगतम् आत्मस्कन्धावारम् अपश्यत् । निवर्तिताशेषगन्धर्वकुमारश्च, सानन्देन सकुतूहलेन सविस्मयेन च स्कन्धावारवर्तिना जनेन प्रणम्यमानः, स्वभवनं विवेश । संमानिताशेषराजलोकश्च वैशम्पायनेन पत्रलेखया च सह ‘ एवं महाश्वेता, एवं कादम्बरी, एवं मदलेखा, एवं तमालिका, एवं केयूरकः ’ इत्यनयैव कथया प्रायो दिवसमनैषीत् । कादम्बरीरूपदर्शनविद्विष्टेव नास्य पुरेव प्रीतिमकरोद्राजलक्ष्मीः । तामेव च धवलेक्षणाम् आबद्धरणरणकेन चेतसा चिन्तयतो जाग्रत एव सा जगाम रात्रिः ॥
अपरेद्युश्च समुत्थिते भगवति रवौ, आस्थानमण्डपगतः, तद्गतेनैव मनसा, सहसैव प्रतीहारेण सह प्रविशन्तं केयूरकं ददर्श । दूरादेव च क्षितितलस्पर्शिना मौलिना कृतपादपतनम् ‘ एोह्येहि ’ इत्युक्त्वा प्रथममपाङ्गविसर्पिणा चक्षुषा, ततो हृदयेन, पश्चाद्भुजाभ्यां प्रधावितप्रथितं तमालिलिङ्ग गाढम् । उपावेशयच्चैनमात्मनः समीप एव । पप्रच्छ च — ‘ केयूरक, कथय, कुशलिनी देवी ससखीजना कादम्बरी, भगवती महाश्वेता च ? ’ इति । असौ तु तेन राजसूनोः प्रीतिप्रकर्षजन्मना स्मितेनैव स्नपित इवानुलिप्त इव सद्य एवापगताध्वखेदः प्रणम्यादृततरमवोचत् — ‘ अद्य कुशलिनी, यामेवं देवः पृच्छति ’ इत्यभिधाय, अपनीयार्द्रवस्त्रकर्पटावगुण्ठितं बिससूत्रसंयतमुखम् आर्द्रचन्दनपङ्कन्यस्तबालमृणालवलयमुद्रं नलिनीपत्रपुटम् अदर्शयत् । उद्घाट्य च तत्र कादम्बरीप्रहितान्यभिज्ञानान्यदर्शयत् । तद्यथा — मरकतहरिन्ति व्यपनीतत्वञ्चि चारुमञ्जरीभाञ्जि क्षीरीणि पूगीफलानि, शुककामिनीकपोलपाण्डूनि ताम्बूलीदलानि, हरचन्द्रखण्डस्थूलशकलं च कर्पूरम्, अतिबहुलमृगमदामोदमनोहरं च मलयजविलेपनम् अब्रवीच्च — ‘ चूडामणिचुम्बिनाञ्जलिना देवमर्चयति देवी कादम्बरी, महाश्वेता च सकण्ठग्रहेण कुशलवचसा, नमस्कारेण च मदलेखा, सचरणरजःस्पर्शेन च पादप्रणामेन तमालिका । सन्दिष्टं च तव महाश्वेतया — ‘ धन्याः खलु ते, येषां न गतोऽसि चक्षुषोर्विषयम् । तथा नाम समक्षं भवतस्ते तुहिनशीतलाश्चन्द्रमया इव गुणा विरहे विवस्वन्मया इव संवृत्ताः । स्पृहयन्ति खलु जनाः कथमपि दैवोपपादितायातीतदिवसाय । त्वया वियुक्तं विनिवृत्तमहोत्सवालसमिव वर्तते गन्धर्वराजनगरम् । जानासि च मां कृतसकलपरित्यागाम् । तथाप्यकारणपक्षपातिनं भवन्तं द्रष्टुमिच्छत्यनिच्छन्त्या अपि मे बलादिव हृदयम् । अपि च, बलवदस्वस्थशरीरा कादम्बरी । स्मरति च स्मराननं स्मरकल्पं त्वाम् । अतः पुनरागमनगौरवेणार्हसीमां गुणवदभिमानिनीं कर्तुम् । उदारजनादरो हि बहुमानमारोपयति । अवश्यं सोढव्या चेयमस्मद्विधजनपरिचयकदर्थना कुमारेण । भवत्सुजनतैव जनयत्यनुचितं सन्देशप्रागल्भ्यम् ’ इत्युक्त्वा, ‘ एष देवस्य शयनीये विस्मृतः शेषो हारः प्रहितः ’ इत्युत्तरीयपटान्तसंयतं विमुच्य चामरग्राहिण्याः करे समर्पितवान् ॥
अथ चन्द्रापीड: ‘महाश्वेताचरणाराधनतपःफलमिदम्, यदेवं परिजनेऽप्यनुस्मरणादिकं प्रसादभारमतिमहान्तमारोपयति देवी कादम्बरी ’ इत्युक्त्वा, तत्सर्वं शिरसि कृत्वा, स्वयमेव जग्राह । तेन च स्पर्शवता ह्लादिना सुरभिणा विलेपनेन विलिप्य, तमेव कण्ठे हारमकरोत् । आगृहीतताम्बूलश्च, मुहूर्तादिवोत्थाय, वामबाहुना स्कन्धदेशे समवलम्ब्य केयूरकम्, शनैः शनैर्गन्धमादनं करिणं द्रष्टुमयासीत् । तत्र च स्थित्वा क्षणमिव, तस्मै स्वयमेव शष्पकबलमवकीर्य, वल्लभतुरङ्गमन्दुराभिमुखः प्रतस्थे । गच्छंश्चोभयतः किंचित्किंचिदिव तिर्यग्वलितवदनः परिजनं विलोकयांबभूव ॥
अथ चित्तज्ञैः प्रतीहारैः प्रतिषिद्धानुगमने निखिले समुत्सारिते परिजने, केयूरकृद्वितीय एव मन्दुरां प्रविवेश । उत्सारणभयसंभ्रान्तलोचनेषु प्रणम्यापसृतेषु मन्दुरापालेषु, इन्द्रायुधस्य पृष्ठावगुण्ठनपटं किञ्चिदेकपार्श्वगलितं समीकुर्वन्, उत्सारयंश्च कूणितनेत्रत्रिभागस्य दृष्टिनिरोधिनीं कुङ्कुमकपिलां केसरसटाम्, खुरधारणीविन्यस्तचरणः, लीलामन्दं मन्दुरादारुदत्तदेहभरः सकुतूहलमुवाच — ‘ केयूरक, कथय — मन्निर्गमादारभ्य को वा वृत्तान्तो गन्धर्वराजकुले ? केन वा व्यापारेण वासरमातिनीतवती गन्धर्वराजपुत्री ? किं वाकरोन्महाश्वेता ? किमभाषत वा मदलेखा ? के वाभवन्नालापाः परिजनस्य ? भवतो वा को व्यापार आसीत् ? आसीद्वा काचिदस्मदाश्रयिणी कथा ? ’ । केयूरकस्तु सर्वमाचचक्षे — ‘ देव, श्रूयताम् — निर्गते त्वयि देवी कादम्बरी सपरिजना सौधशिखरमारुह्य, तुरगधूलिरेखाधूसरं देवस्यैव गमनमार्गमालोकितवती । तिरोहितदर्शने च देवे, मदलेखास्कन्धनिक्षिप्तमुखी प्रीत्या तं दिगन्तं पश्यन्ती, सुचिरं तत्रैव स्थितवती । तस्माच्च कथमपि सखेदमवतीर्य क्षणमिवास्थानमण्डपे स्थित्वा, उत्थाय तमेव क्रीडापर्वतकमागतवती, यत्र स्थितवान् देवः । तमुपेत्य च — ‘ देवेनात्र शिलातले स्थितम्, अत्र स्नातम्, अत्र भगवानर्चितः शूलपाणिः, अत्र भुक्तम् ,अत्र सुप्तम् ’ इति परिजनेन पुनरुक्तं निवेद्यमानानि देवस्यैव स्थानचिह्नानि पश्यन्ती, क्षपितवती दिवसम् । दिवसावसाने च कथमपि महाश्वेता प्रयत्नादनभिमतमपि तस्मिन्नेव स्फटिकमणिवेश्मनि आहारम् अकरोत् । अस्तमुपगते च भगवति रवौ, उदिते चन्द्रमसि, तत्रैव कञ्चित्कालं स्थित्वा, करौ कपोलयोः कृत्वा किमपि चिन्तयन्ती, मुकुलितेक्षणा क्षणमात्रं स्थित्वा, उत्थाय कृच्छ्रादुत्क्षिपन्ती पदानि शय्यागृहमगात् । शयननिक्षिप्तगात्रयष्टिश्च ततः प्रभृति प्रबलया शिरोवेदनया विचेष्टमाना, दारुणेन च दाहरूपिणा ज्वरेणाभिभूयमाना, केनाप्याधिना मङ्गलप्रदीपैः कुमदाकरैश्चक्रवाकैश्च सार्धमनिमीलितलोचना दुःखदुःखेन क्षणदामनैषीत् । उषसि च मामाहूय देवस्य वार्ताव्यतिकरोपलम्भाय सोपालम्भमादिष्टवती ’ ॥
चन्द्रापीडस्तदाकर्ण्य जिगमिषुः ‘ अश्वोऽश्वः ’ इति वदन्, भवनान्निर्ययौ । आरोपितपर्याणं च त्वरिततुरगपरिचारकोपनीतमिन्द्रायुधमारुह्य, पश्चादारोप्य पत्रलेखाम्, स्कन्धावारे स्थापयित्वा वैशम्पायनम्, अशेषं परिजनं निवर्त्य च, अन्यतुरगारूढेनैव केयूरकेणानुगम्यमानः, हेमकूटं ययौ । आसाद्य च कादम्बरीभवनद्वारमवततार । अवतीर्य च द्वारपालार्पिततुरंगः कादम्बरीप्रथमदर्शनकुतूहलिन्या च पत्रलेखयानुगम्यमानः प्रविश्य, — ‘ क्व देवी कादम्बरी तिष्ठति ’ इति संमुखागतमन्यतमं वर्षवरमप्राक्षीत् । कृतप्रणामेन च तेन ‘ देव, मत्तमयूरस्य क्रीडापर्वतकस्याधस्तात् कमलवनदीर्घिकातीरे विरचितं हिमगृहमध्यास्ते ’ इत्यावेदिते, केयूरकेणोपदिश्यमानवर्त्मा गत्वा किंचिदध्वानम्, निरन्तरनलिनीदलच्छन्नं हिमगृहमपश्यत् । ततश्च तत्र बहुविधान् शिशिरोपचारापकरणकल्पनाव्यापारान् परिजनेन कृतान् क्रियमाणांश्च वीक्षमाणः, हिमगृहकस्य मध्यभागम्, हृदयमिव हिमवतः, जलक्रीडागृहमिव प्रचेतसः, कुलगृहमिव सर्वचन्दनवनदेवतानाम्, सङ्केतसदनमिव सर्वप्रावृषाम्, आससाद । क्रमेण च तत्रान्तर्बहिश्चातिबहलेन पिण्डहार्येणेवोपलिप्यमानो अतिशीतलस्पर्शनामन्यतात्मनो मनश्चन्द्रमयम्, कुमुदमयानीन्द्रियाणि, ज्योत्स्नामयान्यङ्गानि, मृणालिकामयीं धियम् ॥
एवंविधस्य च तस्यैकदेशे सखीकदम्बकपरिवृताम्, कुल्याभ्रमिभ्रमितेन कपूररसस्रोतसा कृतपरिवेषाया मृणालदण्डमण्डपिकायास्तले कुसुमशयनमधिशयानाम्, अवतंसमधुकररवदहनदग्धमिव श्रोत्रमपाङ्गनिर्गतेनाश्रुस्रोतसा सिञ्चन्तीम्, मुहुर्मुहुर्भुजलतया तुषारशिलासालभञ्जिकामालिङ्गन्तीम्, मुहुः कपोलफलकेन कर्पूरपुत्रिकामाश्लिष्यन्तीम्, मुहुश्चरणारविन्देन चन्दनपङ्कप्रतियातनामास्पृशन्तीम्, कुसुमचापलेखामिव मदनारोपितगुणकोटिकान्ततराम्, मधुमासदेवतामिव शिशिरहारिणीं कादम्बरीं व्यलोकयत् ॥
अथ सा यथादर्शनमागत्यागत्य चन्द्रापीडागमनमावेदयन्तं परिजनमत्तरलतारकेण चक्षुषा — ‘ कथय, किं सत्यमागतः ? दृष्टस्त्वया ? कियत्यध्वनि ? क्वासौ ' इति प्रतिमुखं निक्षिप्तेनानक्षरं पप्रच्छ । प्रवर्धमानधवलिम्ना चक्षुषा दृष्ट्वा च संमुखमापतन्तं तम्, दूरादेव वरारोहा संभ्रमच्युतोत्तरीयका, मणिकुट्टिमनिहितेन वामकरतलेन हस्तावलम्बनं निजप्रतिमामिव याचमाना, स्रस्तकेशकलापसंयमनश्रमितेन गलत्स्वेदसलिलेन दक्षिणकरेण समभ्युक्ष्येवात्मानमर्पयन्ती, चक्षुषा क्षरन्ती शिशिरमानन्दजलम्, किञ्चिदधोमुखी, तत्क्षणमपाङ्गभागपुञ्जिततारकया तन्मुखलग्नयेव दीर्घया दृष्टयाकृष्यमाणा, कुसुमशयनादुत्तस्थौ । चन्द्रापीडस्तु समुपसृत्य पूर्ववदेव तां महाश्वेताप्रणामपुरःसरं दर्शितविनयः प्रणनाम । कृतप्रतिप्रणामायां च तस्यां पुनस्तस्मिन्नेव कुसुमशयने समुपविष्टायाम्, प्रतीहार्या समुपनीतां जाम्बूनदमयीमासन्दिकां पादेनैवोत्सार्य, क्षितावेवोपाविशत् ॥
अथ कयूरकः — ‘ देवि, देवस्य चन्द्रापीडस्य प्रसादभूमिरेषा पत्रलेखा नाम ताम्बूलकरङ्कवाहिनी ’ इत्यभिधाय पत्रलेखामदर्शयत् । अथ कादम्बरी दृष्टा ताम्, ‘ अहो मानुषीषु पक्षपातः प्रजापतेः ’ इति चिन्तयांबभूव । कृतप्रणामां च तां सादरम् ‘ एह्येहि ’ इत्यभिधाय आत्मनः समीपे सकुतूहलं परिजनेन दृश्यमानां पृष्ठतः समुपावेशयत् । दर्शनादेवोपारुढप्रीत्यतिशया च मुहुर्मुहुरेनां सोपग्रहं करकिसलयेन पस्पर्श ॥
चन्द्रापीडस्तु सपदि कृतसकलागमनोचितोपचारः, तदवस्थां चित्ररथतनयाम् आलोक्याचिन्तयत् — ‘ अतिदुर्विदग्धं हि मे हृदयमद्यापि न श्रद्दधाति । भवतु, पृच्छामि तावदेनां निपुणालापेन ’ इति । प्रकाशमब्रवीत् — ‘ देवि, जानामि, कामरतिं निमित्तीकृत्य प्रवृत्तोऽयमविचलसंतापतन्त्रो व्याधिः । सुतनु, सत्यम्, न तथा त्वामेष व्यथयति, यथास्मान् । इच्छामि देहदानेनापि स्वस्थामत्रभवती कर्तुम् । उत्कम्पिनीमनुकम्पमानस्य कुसुमेषु पीडया पतितामवेक्षमाणस्य पततीव मे हृदयम् । अनङ्गदे तनुभूते ते भुजलते । गाढसंतापया च दृष्टया वहसि स्थलकमलिनीमिव रक्ततासरसाम् । दुःखितायां च त्वयि परिजनेऽपि चानवरतकृताश्रुबिन्दुपातेन वर्तते मुक्ताभरणता । गृहाण स्वयं वरार्हाणि मङ्गलप्रसाधनानि । सकुसुमशिलीमखा हि शोभते नवा लता ’ इति ॥
अथ कादम्बरी बालतया स्वभावमुग्धापि, कन्दर्पेणोपदिष्टयेव प्रज्ञया तमशेषमस्याव्यक्तव्याहारसूचितमर्थं मनसा जग्राह । मनोरथानां तु तावतीं भूमिमसंभावयन्ती, शालीनतां चावलम्बमाना, तूष्णीमेवासीत् । केवलमुत्पादितान्यव्यपदेशा तत्क्षणं स्मितालोकमकरोत् । ततो मदलेखा प्रत्यवादीत् — ‘ कुमार, किं कथयामि । दारुणोऽयमकथनीयः खलु संतापः । अपि च, कुमारभावोपेतायाः किमिवास्याः, यन्न सन्तापाय । तथा हि — मृणालिन्याः शिशिरकिसलयमपि हुताशनायते । ज्योत्स्नाप्यातपायते । ननु किसलयतालवृन्तवातैर्मनसि जायमानं किं न पश्यसि खेदम् । वीरत्वमेव प्राणसंधारणहेतुरस्याः ’ इति । कादम्बरी तु हृदयेन तमेव मदलेखालापमस्य प्रत्युत्तरीचकार । चन्द्रापीडोऽप्युभयथाघटमानार्थतया सन्देहदोलारूढेनैव चेतसा महाश्वेतया सह प्रीत्युपचयचतुराभिः कथाभिर्महान्तं कालं स्थित्वा, तथैव महता यत्नेन मोचयित्वात्मानम्, स्कन्धावारगमनाय कादम्बरीभवनान्निर्ययौ ॥
निर्गतं च तं तुरङ्गममारुरुक्षन्तं पश्चादागत्य केयूरकोऽभिहितवान् — ‘ देव, मदलेखा विज्ञापयति — ‘ देवी कादम्बरी प्रथमदर्शनजनितप्रीतिः पत्रलेखां निवर्त्यमानामिच्छति, पश्चाद्यास्यति ’ इति । श्रुत्वा देवः प्रमाणम् ’ इत्याकर्ण्य चन्द्रापीडः ‘ केयूरक, धन्या स्पृहणीया च पत्रलेखा, यामेवमनुबध्नाति दुर्लभो देवीप्रसादः । प्रवेश्यताम् ’ इत्यभिधाय, पुनः स्कन्धावारमेवाजगाम । प्रविशन्नेव पितुः समीपादागतमभिज्ञाततरम् आलेखहारकमद्राक्षीत् । धृततुरङ्गमश्च प्रीतिविस्फारितेन चक्षुषा दूरादेवापृच्छत् — ‘ अङ्ग, कच्चित् कुशली तातः सह सर्वेण परिजनेन, अम्बा च सर्वान्तःपुरैः ? ’ इति ॥
कादम्बरीसंग्रहः - कादम्बरी - 22
Full Table of Contents