Skip to main content
Search
Ch. 1 KD 1.226
Full Chapter
KD • Chapter 1: Complete Text

KD 226

Canonical Ref: KD 226
Sanskrit (Devanāgarī)
अथ चन्द्रापीडः ससंभ्रममुत्थाय, आगच्छन्तीम्, अल्पसखीजनपरिवृताम्, अपनीताशेषराजचिह्नाम् इतरामिवैकावलीमात्राभरणाम्, मदलेखया दत्तहस्तावलम्बां कादम्बरीमपश्यत् । आगत्य च प्रीतिपेशलतां दर्शयन्ती प्राकृतेव परिजनोचिते भूतले सा समुपाविशत् । चन्द्रापीडोऽपि ‘ कुमार, अध्यास्यतां शिलातलमेव ’ इत्यसकृदनुबध्यमानोऽपि मदलेखया भूमिमेवाभजत । सर्वासु चासीनासु मुहूर्तमिव स्थित्वा, वक्तमुपचक्रमे चन्द्रापीडः — “ देवि, दृष्टिपातमात्रप्रीते दासजने संभाषणादिकस्यापि प्रसादस्य नास्त्यवकाशः । किमुतैतावतोऽनुग्रहस्य । न खलु चिन्तयन्नपि निपुणं तमात्मनो गुणलवमवलोकयामि, यस्यायमनुरूपोऽनुग्रहातिरेकः । अतिसरलता तवेयमपगताभिमानमधुरा च सुजनता, यदभिनवसेवकजनेऽप्येवम् अनुरुध्यते । प्रायेण मामुपचारहार्यमदक्षिणं देवी मन्यते । धन्यः खलु परिजनस्ते, यस्योपरि नियन्त्रणा स्यात् । आज्ञासंविभागकरणोचिते भृत्यजने क इवादरः । परोपकारोपकरणं शरीरम् । तृणलवलघु च जीवितम् । अपत्रपे त्वत्प्रतिपत्तिभिः उपायनीकर्तुम् एवमागतायास्ते । वयमेते, शरीरमिदम्, एतज्जीवितम्, एतानीन्द्रियाणि ; एतेषामन्यतरदारोपय परिग्रहेण गरीयस्त्वम् ” इति । अथैवंवादिनोऽस्य वचनमाक्षिप्य मदलेखा सस्मितमवादीत् — ‘ कुमार, भवतु, अतियन्त्रणया खिद्यते खलु सखी कादम्बरी। किमर्थं चैवमुच्यते । सर्वमिदमन्तरेणापि वचनमनया परिगृहीतम् । किं पुनरमुनोपचारफल्गुना वचसा संदेहदोलामारोप्यते ’ इति ॥
Canonical CTS URN Reference
Kādambarīsaṅgraha, KD 226. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KD 225) All Verses in Chapter 1 Next Verse (KD 227) →