1. आसीत् अशेष-नरपति-शिरः-समभ्यर्चित-शासनः पाकशासन इवापरः, चतुरुदधि-माला-मेखलाया भुवो भर्ता, प्रताप-अनुराग-अवनत-समस्त-सामन्त-चक्रः, कर्ता महाश्चर्याणाम्, आहर्ता क्रतूनाम्, आदर्शः सर्वशास्त्राणाम्, उत्पत्तिः कलानाम्, कुलभवनं गुणानाम्, आश्रयो रसिकानाम्, राजा शुद्रको नाम ॥
2. यश्च मनसि धर्मेण, कोपे यमेन, प्रसादे धनदेन, प्रतापे वह्निना, भुजे भुवा, दृशि श्रिया, वाचि सरस्वत्या, मुखे शशिना, बले मरुता, प्रज्ञायां सुरगुरुणा, रूपे मनसिजेन, तेजसि सवित्रा च वसता, सर्वदेवमयस्य प्रकटित-विश्वरूप-आकृतेः अनुकरोति भगवतो नारायणस्य ॥
3. तस्य च राज्ञो जल-अवगाहन-आयात-जयङ्कुञ्जर-कुम्भ-सिन्दूर-सन्ध्यायमान-सलिलया वेत्रवत्या सरिता परिगता विदिशा अभिधाना नगरी राजधान्यासीत् ॥
4. स तस्याम् अवजित-अशेष-भुवन-मण्डलतया विगत-राज्य-चिन्ता-भार-निर्वृतः, वलयमिव लीलया भुजेन भुवनभारम् उद्वहन्, अमरगुरुमपि प्रज्ञया उपहसद्भिः अनेक-कुल-क्रम-आगतैः असकृद्-आलोचित-नीति-शास्त्र-निर्मल-मनोभिः अलुब्धैः स्निग्धैः प्रबुद्धैः अमात्यैः परिवृतः, समान-वयो-विद्या-अलङ्कारैः अग्राम्य-परिहास-कुशलैः इङ्गिताकार-वेदिभिः केसरि-किशोरकैः इव विक्रमैकरसैः अपि विनयव्यवहारिभिः आत्मनः प्रतिबिम्बैः इव राजपुत्रैः सह रममाणः प्रथमे वयसि सुखम् अतिचिरम् उवास । तस्य च अतिविजिगीषुतया महासत्त्वतया च तृणमिव लघुवृत्ति स्त्रैणम् आकलयतः, प्रथमे वयसि वर्तमानस्यापि, रूपवतो अपि, संतानार्थिभिः अमात्यैः अपेक्षितस्यापि, वनिता-व्यतिकरस्य उपरि द्वेष इव आसीत्
सत्यपि लावण्यवति विनयवति अन्वयवति हृदयहारिणि च अवरोधजने, स कदाचित् स्वयम् आरब्धमृदङवाद्यः संगीतकप्रसङ्गेन, कदाचित् मृगयाव्यापारेण, कदाचित् काव्य-प्रबन्ध-रचनेन, कदाचिच्छास्त्रालापेन, कदाचिद् आख्यानक-आख्यायिका-इतिहास-पुराण-आकर्णनेन, कदाचिद् आलेख्यविनोदेन, कदाचिद् वीणया, कदाचिद् दर्शन-आगत-मुनिजन-चरण-शुश्रूषया, कदाचिद् अक्षरच्युतक-मात्राच्युतक-बिन्दुमती-गूढचतुर्थपाद-प्रहेलिका-प्रदानादिभिः, वनितापरङ्मुखः सुहृत्परिवृतो दिवसम् अनयत् । यथैव च दिवसम्, एवम् आरब्ध-विविध-क्रीडा-परिहास-चतुरैः सुहृद्भिः उपेतो निशाम् अनैषीत् ॥
एकदा तु नातिदूरोदिते भगवति सहस्रमरीचिमालिनि राजानम् आस्थानमण्डपगतम् अङ्गनाजनविरुद्धेन वामपार्श्व-अवलम्बिना कौक्षेयकेण भीषणरमणीयाकृतिः प्रतीहारी समुपसृत्य क्षितितल-निहित-जानु-कर-कमला सविनयम् अब्रवीत् — “ देव, द्वारस्थिता सुरलोकम् आरोहतः त्रिशङ्कुरिव कुपित-शतमख-हुंकार-निपातिता राजलक्ष्मीः दक्षिणापथादागता चाण्डालकन्यका पञ्जरस्थं शुकमादाय देवं विज्ञापयति — ‘ सकल-भुवनतल-सर्वरत्नानाम् उदधिरिव एकभाजनं देवः । विहङ्गमश्चायम् आश्चर्यभूतो निखिलभुवनतलरत्नम् इति कृत्वा देवपादमूलम् आदाय आगताहम् इच्छामि देवदर्शनसुखम् अनुभवितुम् ’ इति । एतदाकर्ण्य देवः प्रमाणम् ” इत्युक्त्वा विरराम । उपजातकुतूहलस्तु राजा समीपवर्तिनां राज्ञामालोक्य मुखानि ‘ को दोषः । प्रवेश्यताम् ’ इत्यादिदेश ॥
अथ प्रतीहारी नरपतिवचनानन्तरम् उत्थाय तां मातङ्गकुमारीं प्रावेशयत् । प्रविश्य च सा नरपतिसहस्रमध्यवर्तिनम्, अवलम्बितस्थूलमुक्ताकलापस्य कनकशृङ्खलानियमितमणिदण्डिकाचतुष्टयस्य, गगनसिन्धुफेनपटलपाण्डुरस्य नातिमहतो दुकूलवितानस्य अधस्तात् इन्दुकान्तमणिपर्यङ्किकानिषण्णम्, उद्धूयमानकनकदण्डचामरकलापम्, अमृतफेनधवले गोरोचनालिखितहंसमिथुनसनाथपर्यन्ते चारुचामरपवनप्रनर्तितदशे दुकूले वसानम्, अतिसुरभि-चन्दन-अनुलेपन-धवलित-उरःस्थलम्, उपरिविन्यस्तकुङ्कमस्थासकम्, अमलकलधौतपट्टायतम् अष्टमीचन्द्रशकलाकारम् ऊर्णासनाथं ललाटदेशमुद्वहन्तम्, अपरिमितपरिवारजनमप्यद्वितीयम्, आविरतप्रवृत्तदानमप्यमदम्, राजानमद्राक्षीत् ॥
आलोक्य च सा दूरस्थितैव वेणुलतामादाय नरपतिप्रबोधनार्थम् असकृत् सभाकुट्टिममाजघान ; येन सकलमेव तद्राजकमेकपदे तेन वेणुलताध्वनिना युगपदावलितवदनम् अवनिपालमुखादाकृष्य चक्षुस्तदभिमुखमासीत् ॥
अवनिपतिस्तु दूरात् ‘ आलोकय ’ इत्यभिधाय प्रतीहार्या निर्दिश्यमाना ताम् अनवरतकृतव्यायामतया यौवनापगमेऽप्यशिथिलशरीरसंधिना
पुरुषेणाधिष्ठितपुरोभागाम्, आकुलाकुलकाकपक्षधारिणा कनकशलाकानिर्मितं पञ्जरमुद्वहता चाण्डालदारकेणानुगम्यमानाम्, आगुल्फावलम्बिना नीलकञ्चुकेनाच्छन्नशरीराम्, उपरि रक्तांशुकरचितावगुण्ठनाम्, मेखलादाम्ना परिगतजघनस्थलाम्, अतिस्थूलमुक्ताफलघटितेन शुचिना हारेण कृतकण्ठग्रहाम्, श्रियमिव हस्तस्थितकमलशोभाम्, यक्षाधिपलक्ष्मीमिवालकोद्भासिनीम्, अचिरोपरूढयौवनामतिशयरूपाकृतिमनिमेषलोचनो ददर्श ॥
समुपजातविस्मयस्य चाभून्मनसि महीपतेः — “अहो विधातुरस्थाने रूपनिष्पादनप्रयत्नः । तथा हि - यदि नाम इयम् आत्मरूप-उपहसित-अशेष-रूप-संपद्-उत्पादिता, किमर्थम् अपगतस्पर्शे कृतं कुले जन्म । मन्ये च, मातङ्गजाति-स्पर्श-दोष-भयात् अस्पृशतेयम् उत्पादिता प्रजापतिना; अन्यथा कथम् इयमक्लिष्टता लावण्यस्य । न हि करतलस्पर्शलेशितानाम् अवयवानामीदृशी भवति कान्तिः” इत्येवमादि चिन्तयन्तमेव राजानम् ईषदवगलितकर्णपल्लवावतंसा प्रगल्भवनितेव कन्यका प्रणनाम । कृतप्रणामायां च तस्यां मणिकुट्टिमोपविष्टायां स पुरुषस्तं विहङ्गमादाय पञ्जरगतमेव किंचिदुपसृत्य राज्ञे न्यवेदयत् ; अब्रवीच्च — ‘ देव, विदितसकलशास्त्रार्थः, वेदिता गीतश्रुतीनाम्, काव्यनाटकाख्यायिकाख्यानकप्रभृतीनाम् अपरिमितानां सुभाषितानाम् अध्येता स्वयं च कर्ता, गजतुरगपुरुषस्त्रीलक्षणाभिज्ञः सकलभूतलरत्नभूतोऽयं वैशम्पायनो नाम शुकः; सर्वरत्नानां चोदधिरिव देवो भाजनमिति कृत्वा एनम् आदाय अस्मत्स्वामिदुहिता देवपादमूलमायाता । तदयमात्मीयः क्रियताम् ’ इत्युक्त्वा नरपतेः पुरो निधाय पञ्जरमसावपससार ॥
अपसृते च तस्मिन्, स विहङ्गगराजो राजाभिमुखो भूत्वा समुन्नमय्य दक्षिणं चरणम् अतिस्पष्टवर्णस्वरसंस्कारया गिरा कृतजयशब्दो राजानमुद्दिश्यामिमाम् आर्यां पपाठ —
स्तनयुगमश्रुस्नातं समीपतरवर्ति हृदयशोकाग्नेः ।
चरति विमुक्ताहारं व्रतमिव भवतो रिपुस्त्रीणाम् ॥
राजा तु तां श्रुत्वा संजातविस्मयः सहर्षम् आसन्नवर्तिनम् अतिवयसम् अग्रजन्मानम् अखिलमन्त्रिमण्डले प्रधानम् अमात्यं कुमारपालितनामानम् अब्रवीत् — “ श्रुता भवद्भिरस्य विहङ्गमस्य स्पष्टता वर्णोच्चारणे, स्वरे च मधुरता ? प्रथमं तावदिदमेव महदाश्चर्यम्, यदयमसङ्कीर्णवर्णप्रविभागाम् अभिव्यक्तमात्रानुस्वारसंस्कारयोगविशेषसंयुक्तपरिस्फुटाक्षरां गिरम् उदीरयति । तत्र पुनरपरम् अभिमतविषये तिरश्चोऽपि मनुजस्येव संस्कारवतो बुद्धिपूर्वा प्रवृत्तिः । तथा हि — अनेन समुत्क्षिप्तदक्षिणचरणेनोच्चार्य जयशब्दम् अयम् आर्यां मामुद्दिश्य अतिस्फुटाक्षरं गीता । प्रायेण हि पक्षिणः पशवश्च भयाहारनिद्रासंज्ञामात्रवेदिनो भवन्ति । इदं महच्चित्रम् ” इत्युक्तवति भूभुजि कुमारपालितः किंचित्स्मितवदनो नृपमवादीत् — “ देव, किमत्र चित्रम् । एते हि शुकशारिकाप्रभृतयो विहंगमविशेषा यथाश्रुतां वाचमुच्चारयन्ति इति अधिगतमेव देवेन । तत्रापि अन्यजन्मोपात्तसंस्कारानुबन्धेन वा पुरुषप्रयत्नेन वा संस्कारातिशय उपजायत इति नातिचित्रम् । अन्यत् — एतेषामपि पुरा पुरुषाणामिव अतिपरिस्फुटाभिधाना वागासीत् । अग्निशापात् तु अपरिस्फुटालापता शुकानामुपजाता, करिणां च जिह्वापरिवृत्तिः” इति । एवमुञ्चारयत्येव तस्मिन्, अशिशिरकिरणम् अम्बरतलस्य मध्यम् आरूढम् आवेदयन् नाडिकाच्छेदप्रहतपटुपटहनादानुसारी मध्याह्नशङ्खध्वनिरुदतिष्ठत् । तमाकर्ण्य च समासन्नस्नानसमयो विसर्जितराजलोकः क्षितिपतिरास्थानमण्डपादुत्तस्थौ।
अथ चलति महीपतौ अन्योन्यम् अतिरभस-संचलन-चालित-अङ्गद-पत्रभङ्ग-मकर-कोटि-पाटित-अंशुक-पटानाम्, गमनप्रणामलालसानाम् अहमहमिकया, वक्षःस्थलप्रेङ्खोलितहारलतानाम्, उत्तिष्ठताम् आसीत् अतिमहान् संभ्रमो महीपतीनाम् । इतश्चेतश्च निष्पतन्तीनां स्कन्धदेशावसक्तचामराणां चामरग्राहिणीनां पदे पदे रणितमणीनां मणिनूपुराणां निनादेन, प्रतीहारीणां च पुरः ससंभ्रमं समुत्सारितजनानां भवनप्रासादकुञ्जेषु उच्चरितप्रतिशब्दतया दीर्घतामुपगतेनालोकशब्देन, प्रचलितजनचरणशतसंक्षोभभयादपहाय कुसुमप्रकरमुत्पततां च मधुलिहां हुंकृतेन, संक्षोभात् अतित्वरितपदप्रवृत्तैः अवनिपतिभिः केयूरकोटिताडितानां क्वणितमुखररत्नदाम्नां च मणिस्तम्भानां रणितेन सर्वतः क्षुभितमिव तदास्थानभवनमभवत् ॥
अथ विसर्जितराजलोकः ‘ विश्रम्यताम् ’ इति स्वयमेवाभिधाय तां चाण्डालकन्यकाम्, वैशम्पायनः प्रवेश्यतामभ्यंन्तरम्' इति ताम्बूलकरङ्कवाहिनीमादिश्य, कतिपयाप्तराजपुत्रपरिवृतो नरपतिरभ्यन्तरं प्राविशत् । अपनीताशेषभूषणश्च दिवसकर इव विगलितकिरणजालः समुपाहृतसमुचितव्यायामोपकरणो व्यायामभूमिमयासीत् । स तस्यां च समानवयोभिः सह राजपुत्रैः कृतमधुरव्यायामः, तत्कालं विरलजनेऽपि राजकुले समुत्सारणाधिकारमुचितमाचरद्भिः दण्डिभिरुपदिश्यमानमार्गः, गन्धोदकपूर्णकनकमयजलद्रोणीसनाथमध्याम्, उपस्थापितस्फाटिकास्नानपीठाम्, एकान्तनिहितैरतिसुरभिगन्धसलिलपूर्णैः स्नानकलशैरुपशोभितां स्नानभूमिमगच्छत् ॥
ततश्च तत्र निर्वर्तिताभिषेको विषधरनिर्मोकपरिलघुनी धवले परिधाय धौतवाससी, अतिधवलजलधरच्छेदशुचिना दुकूलपट्टपल्लवेन कृतशिरोवेष्टनः, संपादितपितृजलक्रियो मन्त्रपूतेन तोयाञ्जलिना दिवसकरमभिप्रणम्य देवगृहमगमत् । उपरचितपशुपतिपूजनश्च निष्क्रम्य देवगृहान्निवर्तिताग्निकार्यो विलेपनभूमौ मृगमदकर्पूरकुङ्कुमवाससुरभिणा चन्दनेनानुलिप्तसर्वाङ्गो विरचितामोदिमालतीकुसुमशेखरः कृताम्बरपरिवर्ती रत्नकर्णपूरमात्राभरणः समुचितभोजनैः सह भूपतिभिराहारम् अभिमतरसास्वादजातप्रीतिरवनिपो निर्वर्तयामास ॥
परिपीतधूमवर्तिरुपस्पृश्य च गृहीतताम्बूलः तस्मात् प्रमृष्टमणिकुट्टिमात् प्रदेशादुत्थाय, नातिदूरवर्तिन्या ससंभ्रमप्रधावितया प्रतीहार्या प्रसारितं बाहुमवलम्ब्य, अभ्यन्तरसंचारसमुचितेन परिजनेनानुगम्यमानः, धवलांशुकजवनिकापरिगतपर्यन्ततया स्फटिकमणिमयभित्तिबद्धमिवोपलक्ष्यमणम्, अतिसुरभिणा मृगनाभिपरिगतेनामोदिना चन्दनवारिणा सिक्तशिशिरमणिभूमिम्, उत्कीर्णसालभञ्जिकानिवहेन गन्धसलिलक्षालितेन कलधौतमयेन स्तम्भसंचयेन विराजमानं, कुसुमामोदवासितप्रच्छदपटेन पट्टोपधानाध्यासितशिरोधाम्ना शयनेन सनाथीकृतवेदिकम् आस्थानमण्डपमयासीत् । तत्र च शयनतलनिषण्णः क्षितितलोपविष्टया शनैः शनैरुत्सङ्गनिहितासिलतया खङ्गवाहिन्या नवनलिनदलकोमलेन करसंपुटेन संवाह्यमानचरणः तत्कालोचितदर्शनैः अवनिपतिभिः अमात्यैर्मित्रैश्च सह तास्ताः कथाः कुर्वन्मुहूर्तमिवासांचक्रे । ततो नातिदूरवर्तिनीम् ‘ अन्तःपुराद्वैशम्पायनमादायागच्छ ’ इति समुपजाततद्वृत्तान्तप्रश्नकुतूहलो राजा प्रतीहारीमादिदेश ।
अथ मुहूर्तादिव वैशम्पायनः प्रतीहार्या गृहीतपञ्जरः कनकवेत्रलतावलम्बिना किंचिदवनतपूर्वकायेन सितकञ्चुकावच्छन्नवपुषा कञ्चुकिनानुगम्यमानो राजान्तिकमाजगाम । क्षितितलनिहितकरतलस्तु कञ्चुकी राजानं व्यज्ञापयत् — “ देव, देव्यो विज्ञापयन्ति — देवादेशात् एष वैशम्पायनः स्नातः कृताहारश्च देवपादमूलं प्रतीहार्या नीतः ” इत्यभिधाय गते च तस्मिन्, राजा वैशम्पायनमपृच्छत् — ‘कच्चिदभिमतम् आस्वादितमभ्यन्तरे भवता किंचिदशनजातम्’ इति । स प्रत्युवाच — ‘ देव, किं वा नास्वादितम् । आमत्तकोकिललोचनच्छविः नीलपाटलः कषायमधुरः प्रकाममापीतो जम्बूफलरसः । हरिनखरभिन्नमत्तमातङ्गकुम्भमुक्तरक्तार्द्रमुक्ताफलात्विंषि खण्डितानि दाडिमबीजानि । नलिनीदलहरिन्ति द्राक्षाफलस्वादूनि च दलितानि स्वेच्छया प्राचीनामलकीफलानि । किं वा प्रलपितेन बहुना । सर्वमेव देवीभिः स्वयं करतलोपनीयमानममृतायते ’ इति । एवंवादिनो वचनमाक्षिप्य नरपतिरब्रवीत् — “आस्तां तावत्सर्वमेवदम् । अपनयतु नः कुतूहलम् । आवेदयतु भवानादितः प्रभृति कार्त्स्न्येन । आत्मनो जन्म कस्मिन्देशे ? भवान्कथं जातः ? केन वा नाम कृतम् ? का माता ? कस्ते पिता ? कथं वेदानामागमः ? कथं शास्त्राणां परिचयः ? कुतः कलाः समासादिताः ? किं जन्मान्तरानुस्मरणम् ? उत वरप्रदानम् ? अथवा विहङ्गवेषधारी कश्चिच्छन्नं निवससि ? के वा पूर्वमुषितम् ? कियद्वा वयः ? कथं पञ्जरबन्धः ? कथं चाण्डालहस्तगमनम् ? इह वा कथमागमनम् ?” इति । वैशम्पायनस्तु स्वयमुपजातकुतूहलेन सबहुमानमवनिपतिना पृष्टो मुहूर्तमिव ध्यात्वा सादरमब्रवीत् — “देव, महतीयं कथा । यदि कौतुकमाकर्ण्यताम् —
अस्ति पूर्वापरजलनिधिवेलावलग्ना मध्यदेशालंकारभूता मेखलेव भुवः, वनकरिकुलमदजलसेकसंवर्धितैः अतिविकचधवलकुसुमनिकरम् अत्युच्चतया तारागणमिव शिखरदेशलग्नमुद्वहद्भिः पादपैरुपशोभिता, मधुमदोपरक्तकरलीकपोलकोमलच्छविना संचरद्वनदेवताचरणालक्तकरसञ्जतेनेव पल्लवप्रचयेन संछादिता, प्रेताधिपनगरीव सदासंनिहितमृत्युभीषणा महिषाधिष्ठिता च, कात्यायनीव प्रचलितखङ्गभीषणा रक्तचन्दनालंकृता च, कंचित्प्रलयवेलेव महावराहदंष्ट्रासमुखातधरणिमण्डला, क्वचित्समरभूमिरिव शरशतनिचिता, क्वचिन्नारायणमूर्तिरिव तमालनीला, क्वचिद्विराटनगरीव कीचकशतावृता, विन्ध्याटवी नाम ॥
तस्यां च दण्डकारण्यान्तःपाति, सकलभुवनतलाख्यातम्, उत्पत्तिक्षेत्रमिव भगवतो धर्मस्य, दक्षिणाशामुखविशेषकम्य सुरलोकात् एकहुंकारनिपातितनहुषप्रकटप्रभावस्य भगवतो महामुनेः अगस्त्यस्य, भार्यया लोपामुद्रया स्वयमपरचितालवालकैः करपुटसलिलसेकसंवर्धितैः सुतनिर्विशेषैरुपशोभितं पादपैः, तत्पुत्रेण च गृहीतव्रतेनाषाढिना गृहीतहरितपर्णपुटेन प्रत्युटजमटता भिक्षां दृढदस्युनामा पवित्रीकृतम्, सरिता च गोदावर्या परिगतम्, आश्रमपदमासीत् ॥
यत्र च दशरथवचनम् अनुपालयन्नुत्सृष्टराज्यो रामो महामुनिमगस्त्यम् अनुचरन् सह सीतया लक्ष्मणोपरचितरुचिरपर्णशालः पञ्चवट्यां कञ्चित्कालं सुखमुवास । यत्र च पीतोद्गीर्णं जलनिधिजलमिव मुनिना निखिलमाश्रमोपान्तवर्तिषु विभक्तं महाह्रदेषु। अत्यायतश्च यस्मिन् दशरथसुतशरनिपातितो योजनबाहोबहुः अगस्त्यप्रसादनागतनहुषाजगरकायशङ्काम् अकरोदृषिजनस्य।
तस्य चैवंविधस्य संप्रत्यपि प्रकटोपलक्ष्यमाणपूर्ववृत्तान्तस्य अगस्त्याश्रमस्य नातिदूरे जलनिधिपानप्रकुपितवरुणोत्साहितेन अगस्त्यमत्सरात् तदाश्रमसमीपवर्त्यपर इव वेधसा महाजलनिधिरुत्पादितः, अम्बुरुह-मधुपान-मत्त-कलहंस-कामिनी-कृत-कोलाहलम्, अनिलोल्लासित-कल्लोल-शिखर-शीकरारब्धदुर्दिनम्, एकदेशावतीर्ण-मुनिजनापूर्यमाण-कमण्डलु-कलकलध्वनिमनोहरम्, उदवासितापसानां देवतार्चनोपयुक्ताकुसुमाभिः लतामण्डपतलस्थितशिखण्डिमण्डलारब्धताण्डवाभिः अनेककुसुमपरिमलवाहिनीभिः वनराजिभिः उपद्धतीरम्, अपरसागराशङ्कभिः सलिलमादातुमवतीर्णैः जलधरैरिव बहलपङ्कमलिनैर्वनकरिभिः अनवरतमापीयमानसलिलम्, अगाधम्, अप्रतिमम्, अपां निधानं पम्पाभिधानं पद्मसरः ॥
तस्यैवंविधस्य पद्मसरसः पश्चिमे तारे दिग्गजकरदण्डानुकारिणा जरदजगरेण सततमावेष्टितमूलतया बद्धमहालवाल इव, दिक्चक्रवालपरिमाणमिव गृह्णता भुवनान्तरालविप्रकीर्णेन शाखासंचयेन प्रलयकालताण्डवप्रसारितभुजसहस्रम् उडुपतिशकलशेखरमिव विडम्बयितुमुद्यतः, परिपीत सागरसलिलैर्गगनागतैः शाखान्तरेषु निलीयमानैः क्षणमम्बुभारालसैः आर्द्रीकृतपल्लवैः जलधरपटलैरपि अदृष्टशिखरदेशः, तुङ्गतया नन्दनवनश्रियमिव अवलोकयितुमभ्युद्यतः, नलिननाभ इव वनमालोपगूढः, नवजलधरव्यूह इव नभसि दर्शितोन्नतिः, अखिलभुवनतलावलोकनप्रासाद इव वनदेवतानाम्, अधिपतिरिव दण्डकारण्यस्य, महान् जीर्णः शाल्मलीवृक्षः ॥
तत्र च शाखाग्रेषु कोटरोदरेषु पल्लवान्तरेषु स्कन्धसंधिषु जीर्णवल्कलविवरेषु महावकाशतया विस्रब्धविरचितकुलायसहस्राणि दुरारोहतया विगलितविनाशभयानि नानादेशसमागतानि शुकशकुनिकुलानि प्रतिवसन्ति स्म । यैः परिणामविरलदलसंहतिरपि स वनस्पतिरविरलदलनिचयश्यामल इवोपलक्ष्यते दिवानिशं निलीनैः। ते च तस्मिन्वनस्पतावतिवाह्यातिवाह्य रजनीमात्मनीडेषु, प्रतिदिनमुत्थायोत्थायाहारान्वेषणाय नभसि विरचितपङ्क्तयः, दिवसकररथतुरगप्रभानुलिप्तमिव गगनतलमुपपादयन्तः, संचारिणीमिव मरकतस्थलीं विडम्बयन्तः, सेन्द्रायुधमिवान्तरिक्षमादधाना विचरन्ति स्म शुकशकुनयः। कृताहाराश्च पुनः प्रतिनिवृत्यात्मकुलायावस्थितेभ्यः शावकेभ्यो विविधान् फलरसान् कलममञ्जरीविकारांश्च चञ्चुपुटेन दत्त्वा दत्त्वा, अधरीकृतसर्वस्नेहेनासाधारणेन गुरुणापत्यप्रेम्णा तस्मिन्नेव क्रोडान्तर्निहिततनयाः क्षपाः क्षपयन्ति स्म
एकस्मिंश्च जीर्णकोटरे जायया सह निवसतः पश्चिमे वयसि वर्तमानस्य कथमपि पितुरहमेवैको विधिवशात्सूनुरभवम् । अतिप्रबलया चाभिभूता ममैव जायमानस्य प्रसववेदनया जननी मे लोकान्तरमगमत्। अभिमतजायाविनाशशोकदुःखितोऽपि खलु तातः सुतस्नेहादन्तर्निगृह्य पटुप्रसरमपि शोकम्, एकाकी मत्संवर्धनपर एवाभवत् । अतिपरिणतवयाश्च, अवस्रस्तांसदेशशिथिलामपगतोत्पतनसंस्कारां पक्षसंततिमुद्वहन्, उपारूढकम्पतया च संतापकारिणीमङ्गलग्नां जरामिव विधुन्वन्, स्फुटिताग्रकोटिना चञ्चुपुटेन परनीडनिपतिताभ्यः शालिवल्लरीभ्यस्तण्डुलकणानादायादाय तरुमूलनिपतितानि शुककुलावदलितानि फलशकलानि समाहृत्य परिभ्रमितुमशक्तो मह्यमदात् । प्रतिदिवसमात्मना च मदुपभुक्तशेषमकरोदशनम् ॥
एकदा तु प्रभातसंध्यारागलोहिते अपरजलनिधितटमवतरति चन्द्रमसि, व्रजति विशालतामाशाचक्रवाले, आतप्तलाक्षिकतन्तुपाटलाभिः आयामिनीभिरशिशिरकिरणदीधितिभिः पद्मरागरत्नशलाकासंमार्जनीभिरिव समुत्सार्यमाणे गगनकुट्टिमकुसुमप्रकरे तारागणे, क्षपाजलजडकेसरं कुसुमनिकरमुदयगिरिशिखरस्थितं सवितारमिवोद्दिश्य पल्लवाञ्जलिभिः समुत्सृजति कानने, धर्मपताकास्विव समुन्मिषन्तीषु तपोवनाग्निहोत्रधूमलेखासु, विघटमानकमलखण्डमधुशीकरासारवर्षिणि निशावसानजातजडिम्नि मन्दमन्दसंचारिणि प्रवाति प्राभातिके मातरिश्वनि, मधुलिहां कुमुदोदरेषु घनघटमानदलपुटनिबद्धपक्षसंहतीनामुञ्चरत्सु हुंकारेषु, प्रभातशिशिरमारुताहतमुत्तप्तजतुरसाश्लिष्टपक्ष्ममालमिव सशेषनिद्राजिह्मतारं चक्षुरुन्मीलयत्सु शनैः शनैरूषरशय्याधूसरक्रोडरोमराजिषु वनमृगेषु, विजृम्भमाणे श्रोत्रहारिणि पम्पासरःकलहंसकोलाहले, स्पष्टे जाते प्रत्युषसि, न चिरादिव दिवसाष्टमभागभाजि स्पष्टभासि भास्वति भूते, प्रयातेषु यथाभिमतानि दिगन्तराणि शुककुलेषु, कुलायनिलीननिभृतशावकसनाथेऽपि निःशब्दतया शून्य इव तस्मिन्वनस्पतौ, स्वनीडावस्थित एव ताते, मयि च शैशवादसंजातबलसमुद्भिद्यमानपक्षपुटे तातस्य समीपवर्तिनि कोटरगते, सहसैव तस्मिन्महावने, संत्रासितसकलवनचरः, सरभसमुत्पतत्पतत्रिपक्षपुटशब्दसंततः, भीतकरिपोतचीत्कारपीवरः, परिभ्रमदुद्घोणवनवराहरवघर्घरः, गिरिगुहासुप्तप्रबुद्धसिंहनादोपबृंहितो मृगयाकोलाहलध्वनिरुदचरत् ॥
आकर्ण्य च तमहमश्रुतपूर्वमुपजातवेपथुरर्भकतया जर्जरितकर्णविवरो भयविह्वलः समीपवर्तिनः पितुः प्रतीकारबुद्ध्या जराशिथिलपक्षपुटान्तरमविशम् ॥
अनन्तरं च सरभसमितो गजयूथपतिलुलितकमलिनीपरिमलः, इतः क्रोडकुलदश्यमानभद्रमुस्तारसामोदः, इतो वनमहिषविषाण कोटिकुलिशभिद्यमानवल्मीकधूलिः, इतो वनगजकुलम्, इतो वनमहिषवृन्दम्, इतो मृगपतिनखभिद्यमानकुम्भकुञ्जररसितम्, इयमार्द्रपङ्कमलिना वराहपद्धतिः, इयमभिनवशष्पकबलरसश्यामला हरिणरोमन्थफेनसंहतिः, एषा निपतितरुधिरबिन्दुसिक्तशुष्कपत्रपाटला रुरुपदवी, एष नखकोटिविलिखितविकटपत्रलेखो रुधिरपाटलः करिमौक्तिकदलदन्तुरो मृगपतिमार्गः, इयमटवीवेणिकानुकारिणी पक्षचरस्य यूथपतेर्मदजलमलिना संचारवीथी, चमरीपङ्कतिरियमनुगम्यताम्, त्वरिततरमध्यास्यतामियं वनस्थली, तरुशिखरमारुह्यताम्, आलोक्यतां दिगियम्, आकर्ण्यतामयं शब्दः, गृह्यतां धनुः, अवहितैः स्थीयताम्, विमुच्यन्तां श्वानः, इत्यन्योन्यमभिवदतो मृगयासक्तस्य महतो जनसमूहस्य तरुगहनान्तरितविग्रहस्य क्षोभितकाननं कोलाहलमशृणवम् ॥
अथ नातिचिरादिव गिरिविवरविजृम्भिप्रतिनादगम्भीरेण शबरशरताडितानां केसरिणां निनादेन, सरभससारमेयविलुप्यमानावयवानाम् आलोलकातरतरलतारकाणाम् एणकानां च करुणकूजितेन, तरुशिखरसमुत्पतितानाम् आकुलाकुलचारिणां च पत्त्ररथानां कोलाहलेन, सर्वतः प्रचलितमिव तदरण्यमभवत् । अचिराच्च प्रशान्ते तस्मिन्मृगयाकलकले, मन्दीभूतभयोऽहमुपजातकुतूहलः पितुरुत्सङ्गादीषदिव निष्क्रम्य कोटरस्थ एव शिरोधरां प्रसार्य संत्रासतरलतारकः शैशवात्किमिदमिति समुपजातदिदृक्षतामेव दिशं चक्षुः प्राहिणवम् ॥