Skip to main content
Search
Ch. 1 KD 1.14
Full Chapter
KD • Chapter 1: Complete Text

KD 14

Canonical Ref: KD 14
Sanskrit (Devanāgarī)
राजा तु तां श्रुत्वा संजातविस्मयः सहर्षम् आसन्नवर्तिनम् अतिवयसम् अग्रजन्मानम् अखिलमन्त्रिमण्डले प्रधानम् अमात्यं कुमारपालितनामानम् अब्रवीत् — “ श्रुता भवद्भिरस्य विहङ्गमस्य स्पष्टता वर्णोच्चारणे, स्वरे च मधुरता ? प्रथमं तावदिदमेव महदाश्चर्यम्, यदयमसङ्कीर्णवर्णप्रविभागाम् अभिव्यक्तमात्रानुस्वारसंस्कारयोगविशेषसंयुक्तपरिस्फुटाक्षरां गिरम् उदीरयति । तत्र पुनरपरम् अभिमतविषये तिरश्चोऽपि मनुजस्येव संस्कारवतो बुद्धिपूर्वा प्रवृत्तिः । तथा हि — अनेन समुत्क्षिप्तदक्षिणचरणेनोच्चार्य जयशब्दम् अयम् आर्यां मामुद्दिश्य अतिस्फुटाक्षरं गीता । प्रायेण हि पक्षिणः पशवश्च भयाहारनिद्रासंज्ञामात्रवेदिनो भवन्ति । इदं महच्चित्रम् ” इत्युक्तवति भूभुजि कुमारपालितः किंचित्स्मितवदनो नृपमवादीत् — “ देव, किमत्र चित्रम् । एते हि शुकशारिकाप्रभृतयो विहंगमविशेषा यथाश्रुतां वाचमुच्चारयन्ति इति अधिगतमेव देवेन । तत्रापि अन्यजन्मोपात्तसंस्कारानुबन्धेन वा पुरुषप्रयत्नेन वा संस्कारातिशय उपजायत इति नातिचित्रम् । अन्यत् — एतेषामपि पुरा पुरुषाणामिव अतिपरिस्फुटाभिधाना वागासीत् । अग्निशापात् तु अपरिस्फुटालापता शुकानामुपजाता, करिणां च जिह्वापरिवृत्तिः” इति । एवमुञ्चारयत्येव तस्मिन्, अशिशिरकिरणम् अम्बरतलस्य मध्यम् आरूढम् आवेदयन् नाडिकाच्छेदप्रहतपटुपटहनादानुसारी मध्याह्नशङ्खध्वनिरुदतिष्ठत् । तमाकर्ण्य च समासन्नस्नानसमयो विसर्जितराजलोकः क्षितिपतिरास्थानमण्डपादुत्तस्थौ।
Canonical CTS URN Reference
Kādambarīsaṅgraha, KD 14. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KD 13) All Verses in Chapter 1 Next Verse (KD 15) →