Skip to main content
Search
KD
Kādambarīsaṅgraha • Chapter 01

Complete Text

सर्गः 1

Complete Text of Kādambarīsaṅgraha.

Total: 268 Verses • Citations: KD 1.1–268 • 1 Lexicon Terms • Page 2 of 9 (Verses 30 shown)
अभिमुखमापतच्च तस्माद्वनान्तरात्, अन्तकपरिवारमिव परिभ्रमन्तम्, अशुभकर्मसमूहमिवैकत्र समागतम्, अनवरत-शरनिकर-वर्षि-राम-निहत-खरदूषण-बलनिवहमिव तदपध्यानात् पिशाचतामुपगतम्, अनेकसहस्रसंख्यम्, अतिभयजननम्, उत्पातवेतालव्रातमिव शबरसैन्यमद्राक्षम् ॥
मध्ये च तस्यातिमहतः शबरसैन्यस्य, प्रथमे वयसि वर्तमानम्, एकलव्यमिव जन्मान्तरागतम्, आजानुलम्बेन कुञ्जरकरप्रमाणमिव गृहीत्वा निर्मितेन भुजयुगलेनोपशोभितम्, अविरतश्रमाभ्यासादुल्लिखितोदरम्, इभमदमलिनम् आलानस्तम्भयुगलम् उपहसन्तमिवोरुदण्डद्वयेन, उपजातपरिचयैरनुगच्छद्भिः श्रमवशाद् दूरविनिर्गताभिः स्वभावपाटलतया शुष्काभिरपि हरिणशोणितमिव क्षरन्तीभिर्जिह्वाभिरावेद्यमानखेदैः, स्थूलवराटकमालिकापरिगतकण्ठैर्म
हावराहदंष्ट्राप्रहारजर्जरैरल्पकायैरपि महाशक्तित्वादनुपजातकेसरैरिव केसरिकिशोरकैरनेकवर्णैः श्वभिरनुगम्यमानम्, अंशावतारमिव कृतान्तस्य, सहोदरमिव पापस्य, सारमिव कलिकालस्य, मातङ्गकनामानं शबरसेनापतिमपश्यम् । अभिधानं तु पश्चात्तस्याहमश्रौषम् ॥
आसीच्च मे मनसि - “अहो, मोहप्रायमेतेषां जीवितम्, साधुजनविगर्हितं च चरितम् । तथा हि - पुरुषपिशितोपहारे धर्मबुद्धिः । आहारः साधुजननिन्दितो मधुमांसादिः । शास्त्रं शिवारुतम् । समुपदेष्टारः सदसतां कौशिकाः । परिचिताः श्वानः । मित्राणि क्रूरकर्मसाधनानि धनूंषि । क्रूरात्मभिः शार्दूलैः सह संवासः । पशुरुधिरेण देवतार्चनम् । चौर्येण जीवनम् । भूषणानि भुजङ्गमणयः । वनगजमदैरङ्गरागः । यस्मिन्नेव कानने निवसन्ति, तदेवोत्खातमूलमशेषतः कुर्वते” इति चिन्तयत्येव मयि, स शबरसेनापतिरटवीभ्रमणसमुद्भवं श्रममपनिनीषुरागत्य तस्यैव शाल्मलीतरोरधश्छायायामुपाविशत् । अन्यतमस्तु शबरयुवा ससंभ्रममवतीर्य, तस्मात् करयुगलपरिक्षोभिताम्भसः सरसो वैदूर्यद्रवानुकारि, अत्यच्छतया स्पर्शानुमेयमम्भः कमलिनीपत्रपुटेन, प्रत्ययोद्धृताश्च धौतपङ्कनिर्मलमृणालिकाः समुपाहरत् । आपीतसलिलश्च सेनापतिस्ता मृणालिकाः क्रमेणादशत् । अपगतश्रमश्चोत्थाय परिपीताम्भसा सकलेन तेन शबरसैन्येनानुगम्यमानः शनैः शनैरभिमतं दिगन्तरमयासीत् ॥
एकतमस्तु जरच्छबरस्तस्मात् पुलिन्दवृन्दादनासादितहरिणपिशितः पिशितार्थी तस्मिन्नेव तरुतले मुहूर्तमिव व्यलम्बत। अन्तरिते च शबरसेनापतौ स जीर्णशबरः पिबन्निवास्माकमायूंषि सुचिरमारुरुक्षुस्तं वनस्पतिमा मूलादपश्यत् । उत्क्रान्तमिव तस्मिन्क्षणे तदालोकनभीतानां शुककुलानामसुभिः । किमिव हि दुष्करमकरुणानाम्? यतः स तमनेकसालतुङ्गमभ्रंकषशाखाशिखरमपि सोपानैरिवायत्नेनैव पादपमारुह्य ताननुपजातोत्पतनशक्तीन् कांश्चित् अल्पदिवसजातान् गर्भच्छविपाटलाञ्छाल्मलीकुसुमशङ्काम् उपजनयतः, कांश्चिदुद्भिद्यमानपक्षतया नलिनसंवर्तिकानुकारिणः, प्रतीकारासमर्थानेकैकतया फलानीव तस्य वनस्पतेः शाखान्तरेभ्यः कोटरेभ्यश्च शुकशावकानग्रहीत् । अपगतातूंश्च कृत्वा क्षितावपातयत् ॥
तातस्तु तं महान्तमकाण्ड एव प्राणहरमप्रतीकारमुपप्लवमुपनतमालोक्य द्विगुणतरोपजातवेपथुर्मरणभयादुद्भ्रान्ततरलतारकां दशमितस्ततो दिक्षु विक्षिपन्, पक्षसंपुटेनाच्छाद्य मां तत्कालोचितं प्रतीकारं तदेव मन्यमानः, स्नेहपरवशो मद्रक्षणाकुलः किंकर्तव्यताविमूढः क्रोडविभागेन मामवष्टभ्य तस्थौ । असावपि पापः क्रमेण शाखान्तरैः संचरमाणः, कोटरद्वारमागत्य जीर्णासितभुजङ्गभोगभीषणं प्रसार्य वामबाहुम्, अतिनृशंसो मुहुर्मुहुर्दत्तचञ्चुप्रहारमुत्कूजन्तमाकृष्य तातमपगतासुमकरोत् । मां तु स्वल्पत्वाद्भयसंपिण्डिताङ्गत्वात्सावशेषत्वादायुषः कथमपि पक्षसंपुटान्तरगतं नालक्षयत् । उपरतं च तमवनितले शिथिलशिरोधरमधोमुखममुञ्चत् । अहमपि तच्चरणान्तराले प्रवेशितशिरोधरो निभृतमङ्कनिलीनस्तेनैव सहापतम् । अवशिष्टपुण्यतया तु पवनवशसंपुञ्जितस्य महतः शुष्कपत्रराशेरुपरि पतितमात्मानमपश्यम् । अङ्गानि येन मे नाशीर्यन्त । यावच्चासौ तस्मात् तरुशिखरान्नावतरति, तावदहमवशीर्णपर्णसवर्णत्वादस्फुटोपलक्ष्यमाणमूर्तिः, पितरमुपरतमुत्सृज्य, नृशंस इव प्राणपरित्यागयोग्येऽपि काले बालतया कालान्तरभुवः स्नेहरसस्यानभिज्ञः, जन्मसहभुवा भयेनैव केवलमभिभूयमानः, किंचिदुपजाताभ्यां पक्षाभ्यामीषत्कृतावष्टम्भो लुठन्नितस्ततः, कृतान्तमुखकुहरादिव विनिर्गतमात्मानं मन्यमानः, नातिदूरवर्तिनस्तमालविटपिनो मूलदेशमविशम् ॥
अवतीर्य स तेन समयेन क्षितितलविप्रकीर्णान्संहृत्य ताञ्छुकशिशून् एकलतापाशसंयतानाबध्य, सेनापतिगतेनैव वर्त्मना तामेव दिशमगच्छत् । मां तु लब्धजीविताशं प्रत्यग्रपितृमरणशोकशुष्कहृदयमतिदूरपातादायासितशरीरं संत्रासजाता सर्वाङ्गोपतापिनी बलवती पिपासा परवशमकरोत् । अनया च कालकलया सुदूरमतिक्रान्तः स पापकृदिति परिकलय्य, किंचिदुन्नमितकन्धरो भयचकितया दृशा दिशोऽवलोक्य, तृणेऽपि चलति पुनः प्रतिनिवृत्त इति तमेव पदे पदे पापकारिणमुत्प्रेक्षमाणो निष्क्रम्य तस्मात्तमालतरुमूलात् सलिलसमीपमुपसर्तुं प्रयत्नमकरवम् ॥
अजातपक्षतया च नातिस्थिरसंचारस्य, मुहुर्मुहुर्मुखेन पततः, मुहुस्तिर्यङ्निपतन्तम् आत्मानमेकया पक्षपाल्या संधारयतः, क्षितितलसंसर्पणभ्रमातुरस्य, अनभ्यासवशादेकमपि दत्त्वा पदमनवरतमुन्मुखस्य स्थूलस्थूलं श्वसतः, धूलिधूसरस्य संसर्पतो मम समभून्मनसि — ‘ अतिकष्टास्वप्यवस्थासु जीवितनिरपेक्षा न भवन्ति खलु जगति सर्वप्राणिनां प्रवृत्तयः । नास्ति जीवितादन्यदभिमततरमिह जगति सर्वजन्तूनाम् । एवमुपरतेऽपि सुगृहीतनाम्नि ताते, यदहमविकलेन्द्रियः पुनरेव प्राणिमि । धिङ्मामकरुणमतिनिष्ठुरमकृतज्ञम् । अहो सोढपितृमरणशोकदारुणं येन मया जीव्यते । उपकृतमपि नापेक्ष्यते । खलं हि खलु मे हृदयम् । मया हि, लोकान्तरगतायाम् अम्बायां नियम्य शोकवेगम्, आप्रसवदिवसात् परिणतवयसापि सता तैस्तैरुपायैर्मत्संवर्धनक्लेशमतिमहान्तमपि स्नेहवशादगणयता यत्तातेन परिपालितः, तत्सर्वमेकपदे विस्मृतम् । अतिकृपणाः खल्वामी प्राणाः । यदुपकारिणमपि तातमद्यापि क्वापि गच्छन्तं नानुगच्छन्ति । सर्वथा न कञ्चिन्न खलीकरोति जीविततृष्णा । यदीगवस्थमपि मामयमायासयति जलाभिलाषः । मन्ये च, अगणितपितृमरणशोकस्य निर्घृणतैव केवलमियं मम सलिलपानबुद्धिः। अद्यापि दूर एव सरस्तीरम्। अस्फुटानि हि श्रूयन्ते सारसरसितानि । दिवसस्य चेयमतिकष्टा दशा वर्तते । रविरम्बरतलमध्यवर्ती स्फुरन्तमातपम् अनवरतमनलधूलिनिकरमिव विकिरति करैः । अधिकामुपजनयति तृषामातपस्पर्शसंतप्तपांसुपटलदुर्गमा भूमिः । अतिप्रबलपिपासावसन्नानि गन्तुमल्पमपि मे नालमङ्गकानि
अप्रभुरस्म्यात्मनः। सीदति मे हृदयम् । अन्धकारतामुपयाति चक्षुः । अपि नाम खलो विधिरनिच्छतोऽपि मे मरणमद्योपपादयेत् ’ इत्येवं चिन्तयत्येव मयि — तस्मात्सरसो नातिदूरवर्तिनि तपोवने जाबालिर्नाम महातपा मुनिः प्रतिवसति स्म । तत्तनयश्च हारीतनामा तापसकुमारकः सनत्कुमार इव सर्वविद्यावदातचेताः, सवयोभिरपरैस्तपोधनकुमारकैरनुगम्यमानस्तेनैव पथा, सकलविषयोपभोगनिवृत्त्यर्थमुपपादितेन ललाटपट्टके त्रिसत्येनेव भस्मत्रिपुण्ड्रकेणालङ्कृतः विषाणशिखरोत्खातामुद्वहता स्नानमृदमुपजातपरिचयेन नीवारमुष्टिसंवर्धितेन तपोवनमृगेणानुयातः, तदेव कमलसरः सिष्णासुरुपागमत् ॥
प्रायेणाकारणमित्राण्यतिकरुणार्द्राणि च सदा खलु भवन्ति सतां चेतांसि। यतः स मां तदवस्थमालोक्य समुपजातदयः समीपवर्तिनमषिकुमारकम् अन्यतममब्रवीत् — ‘ अयं कथमपि शुकशिशुरसंजातपक्षपुट एव तरुशिखरादस्मात्परिच्युतः । श्येनमुखपरिभ्रष्टेन वानेन भवितव्यम् । तथा हि - अतिदवीयस्तया प्रपातस्य, अल्पावशेषजीवितोऽयमामीलितलोचनो मुहुर्मुहुर्मुखेन पतति । मुहुर्मुहुरत्युल्बणं श्वसिति । मुहुर्मुहुश्चञ्चुपुटं विवृणोति । न शक्नोति शिरोधरां धारयितुम् । तदेहि । यावदेवायमसुभिर्न वियुज्यते, तावदेव गृहाणेमम् । अवतारय सलिलसमीपम् ’ इत्यभिधाय तेन मां सरस्तीरमनाययत् । उपसृत्य च जलसमीपमादाय स्वयं मां मुक्तप्रयत्नमुत्तानितमुखमङ्गुल्या कतिचित्सलिलबिन्दूनपाययत् । अम्भःक्षोदकृतसेकं च समुपजातनवीनप्राणमुपतटप्ररूढस्य नलिनीपलाशस्य जलशिशिरायां छायायां निधाय, समुचितमकरोत्स्नानविधिम् । अभिषेकावसाने च प्रत्यग्रभग्नैरुन्मुखो रक्तारविन्दैर्भगवते सवित्रे दत्त्वार्घमुदतिष्ठन् । आगृहीतधौतधवलवल्कल मां गृहीत्वा तपोवनाभिमुखं शनैरगच्छत् ॥
अनतिदूरमिव गत्वा दिशि दिशि सदासंनिहितकुसुमफलैः तारकावर्षमिवाधर्मविनाशपिशुनं कुसुमनिकरमनिलचलितमनवरतम् अतिधवलमुत्सृजद्भिः काननैरुपगूढम्, अनवरताज्याहुतिप्रीतैश्चित्रभानुभिः सशरीरमेव मुनिजनममरलोकं निनीषुभिः उद्धूयमानधूमलेखाच्छलेन आबध्यमानस्वर्गमार्गगमनसोपानसेतुमिवोपलक्ष्यमाणम्, अनवरतश्रवणगृहीतवषट्कारवाचालशुककुलम्, परिचितशाखामृगकराकृष्टिनिष्कास्यमानप्रवेश्यमानजरदन्धतापसम्, उपचर्यमाणातिथिवर्गम्, उद्दिश्यमानश्राद्धकल्पम्, व्याख्यायमानयज्ञविद्यम्, आलोच्यमानधर्मशास्त्रम्, वाच्यमानविविधपुस्तकम्, विचार्यमाणसकलशास्त्रार्थम्, अदृष्टपूर्वं कलिकालस्य, अपरिचितम् अनृतस्य, अश्रुतपूर्वम् अनङ्गस्य, अतिरमणीयमपरमिव ब्रह्मलोकमाश्रममपश्यम् ॥
यत्र च मलिनता हविर्धूमेषु न चरितेषु, मुखरागः शुकेषु न कोपेषु, तीक्ष्णता कुशाग्रेषु न स्वभावेचु, चञ्चलता कदलीदलेषु न मनःसु ॥
तस्य चैवंविधस्य मध्यभागमण्डलमलङ्कुर्वाणस्य रक्ताशोकतरोरधश्छायायाम् उपविष्टम्, आयामिनीभिः पलितपाण्डुराभिरमरलोकमारोढुं पुण्यरज्जुभिरिवोपसंगृहीताभिर्जटाभिरुपशोभमानम्, अतिचपलानामिन्द्रियाश्वानामन्तःसंयमनरज्जुभिरिवातताभिः कण्ठनाडीभिः निरन्तरसंबद्धकंधरम्, स्थैर्येणाचलानां गाम्भीर्येण सागराणां तेजसा सवितुः संविभागमिव कुर्वाणम्, वैनतेयमिव स्वप्रभावोपात्तद्विजाधिपत्यम्, शंतनुमिव प्रियसत्यव्रतम्, भगवन्तं जाबालिमपश्यम् ॥
अवलोक्य चाहमचिन्तयम् - " अहो प्रभावस्तपसाम् । इयमस्य शान्तापि मूर्तिरुत्तप्तकनकावदाता परिस्फुरन्ती सौदामनीव चक्षुषः प्रतिहन्ति तेजांसि । सततमुदासीनापि महाप्रभावतया भयमिवोपजनयति प्रथमोपगतस्य । नित्यमसहिष्णु तपस्विनां तनुतपसामपि तेजः प्रकृत्या भवति। किमुत सकलभुवनतलवन्दितचरणानाम् अनवरततपःक्षपितमलानां करतलामलकफलवदखिलं जगदालोकयतां दिव्येन चक्षुषा भगवतामेवंविधानाम् अघक्षयकारिणाम् । पुण्यानि हि नामग्रहणान्यपि महामुनीनाम्, किं पुनदर्शनानि । धन्यमिदमाश्रमपदम्, अयमधिपतिर्यत्र । अथवा भुवनतलमेव धन्यमखिलमनेनाधिष्ठितमवनितलकमलयोनिना । पुण्यभाजः खल्वमी मुनयः, यदहर्निशमेनमपरमिव नलिनासनमपगतान्यव्यापारा मुखावलोकननिश्चलदृष्टयः पुण्याः कथाः शृण्वन्तः समुपासते । चतुर्मुखमुखकमलवासिभिश्चतुर्भिर्वेदैः सुचिरादिव द्वितीयमिदमपरम् उचितमासादितं स्थानम् । नियतमिह सर्वात्मना कृतावस्थितिना भगवता परिभूतकलिकालविलसितेन धर्मेण न स्मर्यते कृतयुगस्य । धरणितलमनेनाधिष्ठितमालोक्य न वहति नूनमिदानीं सप्तर्षिमण्डलनिवासाभिमानम् अम्बरतलम् । प्रायो महाभूतानामपि दुरभिभवानि भवन्ति तेजांसि । सर्वतेजस्विनामयं चाग्रणीः । द्विसूर्यमिवाभाति जगदनेनाधिष्ठितं महात्मना। एष प्रवाहः करुणारसस्य, संतरणसेतुः संसारसिन्धोः, आधारः क्षमाम्भसाम्, परशुस्तृष्णालतागहनस्य, दिवसकरो मोहान्धकारस्य, कुलभवनम् आचाराणाम्, आयतनं मङ्गलानाम्, प्रतिपक्षः कलिकालस्य, कोशस्तपसः, सखा सत्यस्य, क्षेत्रमार्जवस्य, प्रभवः पुण्यसंचयस्य, अवशो विषयाणाम्, अनभिमुखः सुखानाम् । अस्य भगवतः प्रसादादेवोपशान्तवैरमपगतमत्सरं तपोवनम् । अहो प्रभावो महात्मनाम् । अत्र हि शाश्वतिकमपहाय विरोधम्, उपशान्तात्मानस्तिर्यञ्चोऽपि तपोवनवसतिसुखमनुभवन्ति । तथा हि - एष विशति शिखिनः कलापमातपाहतो निःशङ्कमहिः । अयमुत्सृज्य मातरमजातकेसरैः केसरिशिशुभिः सहोपजातपरिचयः प्रक्षरत्क्षीरधारमापिबति कुरङ्गशाबकः सिंहीस्तनम् " इति ॥
एवं चिन्तयन्तमेव मां तस्यामेवाशोकतरोरधश्छायायामेकदेशे स्थापयित्वा, हारीतः पादावुपगृह्य कृताभिवादनः पितुरनतिसमीपवर्तिनि कुशासने समुपाविशन् । आलोक्य तु माम्, ते सर्व एव मुनयः ‘कुतोऽयमासादितः शुकशिशुः’ इति तमासीनमपृच्छन् । असौ तु तानब्रवीत् - ‘अयं मया स्नातुमितो गतेन कमलिनीसरस्तीरतरुनीडपतितः शुकशिशुर्दूरनिपतनविह्वलतनुरल्पावशेषायुरासादितः । तपस्विदुरारोहतया च तस्य वनस्पतेर्न शक्यते स्वनीडमारोपयितुमिति जातदयेनानीतः। तद्यावदयमप्ररूढपक्षतिरक्षमो अन्तरिक्षमुत्पतितुम्, तावदत्रैव कस्मिंश्चिदाश्रमतरुकोटरे मुनिकुमारकैरस्माभिश्चोपनीतेन नीवारकणनिकरेण फलरसेन च संवर्ध्यमानो धारयतु जीवितम् । अनाथपरिपालनं हि धर्मोऽस्मद्विधानाम् । उद्भिन्नपक्षतिस्तु गगनतलसञ्चरणसमर्थो यास्यति, यत्रास्मै रोचिष्यते । इहैव वोपजातपरिचयः स्थास्यति ’ इत्येवमादिकम् अस्मत्संबद्धमालापमाकर्ण्य किञ्चिदुपजातकुतूहलो भगवाञ्जाबालिरीषदावलिचकन्धरो मामतिप्रशान्तया दृष्ट्या दृष्ट्वा, सुचिरमुपजातप्रत्यभिज्ञान इव पुन: पुनर्विलोक्य ‘ स्वस्यैवाविनयस्य फलमनेनानुभूयते ’ इत्यवोचत् ।
स हि भगवान् कालत्रयदर्शी तपःप्रभावाद्दिव्येन चक्षुषा सर्वमेव करतलगतमिव जगदवलोकयति । वेत्ति जन्मान्तराण्यतीतानि । कथयत्यागामिनमत्यर्थम् । यतः सर्वैव तापसपरिषच्छ्रुत्वा विदिततत्प्रभावा ‘ कीदृशोऽनेनाविनयः कृतः, किमर्थं वा कृतः, जन्मान्तरे वा कोऽयमासीत् ’ इति कौतूहलिन्यभवत् । उपनाथितवती च तं भगवन्तम् — " आवेदय, प्रसीद, भगवन्, कीदृशस्याविनयस्य फलमनेनानुभूयते । कश्चायमासीज्जन्मान्तरे । विहगजातौ कथमस्य संभवः । किमभिधानो वायम् । अपनयतु नः कुतूहलम् । आश्चर्याणां हि सर्वेषां भगवान् प्रभवः ” इति ॥
एवमुपयाच्यमानस्तु तपोधनपरिषदा स महामुनिः प्रत्यवदत् — “अतिमहदिदमाश्चर्यमाख्यातव्यम् । अल्पशेषमहः । प्रत्यासीदति च नः स्नानसमयः । भवतामप्यतिक्रामति देवार्चनविधिवेला । तदुत्तिष्ठन्तु भवन्तः । सर्व एव तावदाचरन्तु यथोचितं दिवसव्यापारम् । अपराह्णसमये भवतां पुनः कृतमूलफलाशनानां विस्रब्धोपविष्टानामादितः प्रभृति सर्वमावेदयिष्यामि — योऽयम्, यच्चानेन कृतमपरस्मिञ्जन्मनि, इह लोके यथास्य संभूतिः। अयं च तावदपगतक्लमः क्रियतामाहारेण । नियतमयमप्यात्मनो जन्मान्तरोदन्तं स्वप्नोपलब्धमिव मयि कथयति सर्वमशेषतः स्मरिष्यति” इत्यभिदधदेवोत्थाय सह मुनिभिः स्नानादिकमुचितं दिवसव्यापारमकरोत् ॥
अनेन च समयेन परिणतो दिवसः । अपरसागराम्भासि पतिते दिनकरे पतनवेगोस्थितमम्भःशीकरनिकरमिव तारागणमम्बरमधारयत् । क्षयमुपगतायां संध्यायां तद्विनाशदुःखिता कृष्णाजिनमिव विभावरी तिमिरोद्गममभिनवमवहत् । अपहाय मुनिजनहृदयानि सर्वमन्यदन्धकारतां तिमिरमनयत् । विगलितसकलोदयरागं रजनिकरबिम्बम् अम्बरापगावगाहधौतसिन्दूरम् ऐरावतकुम्भस्थलमिव तत्क्षणमलक्ष्यत । शनैः शनैश्च दूरोदिते भगवति हिमततिस्रुति, सुधाधूलिपटलेनेव धवलीकृते चन्द्रातपेन जगति, अर्धयाममात्रावखण्डितायां विभावर्याम्, हारीतः कृताहारं मामादाय सर्वैस्तैः सह मुनिभिरुपसृत्य, चन्द्रातपोद्भासिनि तपोवनैकदेशे वेत्रासनोपविष्टं पितरमवोचत् — “ हे तात, सकलेयमाश्चर्यश्रवणकुतूहलाकलितहृदया समुपस्थिता तापसपरिषदाबद्धमण्डला प्रतीक्षते । व्यपनीतश्रमश्च कृतोऽयं पतत्रिपोतः । तदावेद्यताम्, यदनेन कृतमपरस्मिञ्जन्मनि, कोऽयमभूत्, भविष्यति च ” इति । एवमुक्तस्तु स महामुनिरग्रतः स्थितं मामवलोक्य, तांश्च सर्वानेकाग्राञ्छ्रवणपरान् मुनीन् बुद्ध्वा, शनैः शनैरब्रवीत् । “ श्रूयतां यदि कुतूहलम् ” ॥
अस्ति सकलत्रिभुवनललामभूता, आत्मनिवासोचिता भगवता महाकालाभिधानेन प्रमथनाथेनापरेव पृथिवी समुत्पादिता, द्वितीयपृथिवीशङ्कया च जलनिधिनेव रसातलगम्भीरेण जलपरिखावलयेन परिवृता, पशुपतिनिवासप्रीत्या गगनपरिसरोल्लेखिशिखरमालेन कैलासगिरिणेव सुधासितेन प्राकारमण्डलेन परिगता, प्रकट-शङ्ख-शुक्ति-मुक्ता-प्रवाल-मरकत-मणि-राशिभिः चामीकर-चूर्ण-वालुका-निकर-चितैः आयामिभिरगस्त्यपरिपीतसलिलैः सागरैरिव महाविपणिपथैरुपशोभिता, सततप्रवृत्ताध्ययनध्वनिधौतकल्मषा, भगवतो महाकालस्य शिरसि सुरसरितमालोक्य समुपजातेर्ष्ययेव सततसमाबद्धतरङ्गभ्रुकुटिलेखया सिप्रया परिक्षिप्ता, सकुलभुवनख्यातयशसा हरजटाचन्द्रेणेव कोटिसारेण मैनाकेनेवाविदितपक्षपातेन जिनधर्मेणेव जीवानुकम्पिना वदान्येन दक्षेण स्मितपूर्वाभिभाषिणा शिक्षिताशेषदेशभाषेण महाभारतपुराणरामायणानुरागिणा बृहत्कथाकुशलेन श्रुतरागिणा सुभाषितव्यसनिना विलासिजनेनाधिष्ठिता, सशैलेव प्रासादैः, सशाखानगरेव महाभवनैः, गरुडमूर्तिरिवाच्युतस्थितिरमणीया, विजितामरलोकद्युतिरवन्तिषूज्जयिनी नाम नगरी ॥
यस्यां च निशि निशि पवनविलोलैर्दुकूलपल्लवैरुल्लसद्भिः मालवीमुखकमलकान्तिलज्जितस्येन्दोः कलङ्कमिवापनयन्तो दूरप्रसारितोर्ध्वध्वजभुजाः प्रासादा लक्ष्यन्ते । यस्यां सुरासुरचूडामणि मरीचिचुम्बितचरणनखमयूखो अन्धकारातिः भगवानुत्सृष्टकैलासवासप्रीतिर्महाकालाभिधानः स्वयं निवसति ॥
तस्यां चैवंविधायां नगर्याम्, नलनहुषययातिधुन्धुमारभरतभगीरथदशरथप्रतिमः, फलितशक्तित्रयः, नीतिशास्त्राखिन्नबुद्धिः, अधीतधर्मशास्त्रः, तृतीय इव तेजसा कान्त्या च सूर्याचन्द्रमसोः, दशरथ इव सुमित्रोपेतः, पशुपतिरिव महासेनानुगतः, अवतार इव धर्मस्य, प्रतिनिधिरिव पुरुषोत्तमम्य, परिहृतप्रजापीडो राजा तारापीडो नामाभूत् ॥
यं च रतिप्रलापजनितदयार्द्रहृदयहरनिर्मितमपरं मकरकेतुममंस्त लोकः । यस्य च दिष्टवृद्धिमिव शुश्राव, उपदेशमिव जग्राह, मङ्गलमिव बहु मेने, मन्त्रमिव जजाप, आगमवचनमिव न विसस्मार चरितं जनः ॥
तस्य च राज्ञो निखिलशास्त्रकलावगाहगम्भीरबुद्धिः, आशैशवादुपारूढनिर्भरप्रेमरसः, नीतिशास्त्रप्रयोगकुशलः, महत्स्वपि कार्यसंकटेष्वविषण्णधीः, धाम धैर्यस्य, स्थानं स्थिते:, सेतुः सत्यस्य, धाता धर्मस्य, बृहस्पतिरिव सुनासीरस्य, वसिष्ठ इव दशरथस्य, सर्वकार्येष्वाहितमतिः, अमात्यो ब्राह्मणः शुकनासो नामासीत् ॥
यस्यानेकचारपुरुषसहस्रसंचारनिचिते चतुरुदधिवलयपरिक्षेपप्रमाणे धरणितले भवन इवाविदितमहरहः समुच्छ्वसितमपि राज्ञां नासीत् ॥
स राजा बाल एव सुरकुञ्जरकरपीवरेण राजलक्ष्मीलीलोपधानेन बाहुना विजित्य सप्तद्वीपवलयां वसुंधराम्, तस्मिञ्शुकनासनाम्नि मन्त्रिणि सुहृदीव राज्यभारमारोप्य, सुस्थिताः प्रजाः कृत्वा, शिथिलितपृथिवीव्यापारः, प्रायो विषयसुखान्यनुबभूव ॥
शुकनासोऽपि महान्तं तं राज्यभारमनायासेनैव प्रज्ञाबलेन बभार । यथैव राजा सर्वकार्याण्यकार्षीत्, तद्वदसावपि द्विगुणीकृतप्रजानुरागश्चक्रे ॥
एवं तस्य राज्ञो मन्त्रिविनिवेशिनराज्यभारस्य यौवनसुखमनुभवतः कालो जगाम । भूयसा च कालेनान्येषामपि जीवलोकसुखानां प्रायः सर्वेषामन्तं ययौ । एकं तु सुतमुखदर्शनसुखं न लेभे । यथा यथा च यौवनमतिचक्राम, तथा तथा विफलमनोरथस्यानपत्यताजन्मावर्धतास्य संतापः । नरपतिसहस्रपरिवृतमप्यसहायमिव, चक्षुष्मन्तमप्यन्धमिव, आत्मानममन्यत ॥
अथ तस्य, चन्द्रलेखेव हरजटाकलापस्य, कौस्तुभप्रभेव कैटभारातिवक्षःस्थलस्य, चन्दनवनराजिरिव मलयस्य, फणामणिशिखेव शेषस्य, भूषणमभूत् त्रिभुवनविस्मयजननी सकलान्तःपुरप्रधानभूता महिषी विलासवती नाम ॥
एकदा च स तदावासगतः, तां चिन्तास्तिमितदृष्टिना शोकमूकेन परिजनेन परिवृताम्, अनतिदूरवर्तिनीभिश्चान्तःपुरवृद्धाभिराश्वास्यमानाम्, अविरलाश्रुबिन्दुपातार्द्रीकृतदुकूलाम्, अनलंकृताम्, वामकरतलविनिहितमुखकमलाम्, असंयताकुलालकाम्, सुनिबिडपर्यङ्किकोपविष्टां रुदतीं ददर्श ॥
Full Table of Contents