Skip to main content
Search
Ch. 1 KD 1.47
Full Chapter
KD • Chapter 1: Complete Text

KD 47

Canonical Ref: KD 47
Sanskrit (Devanāgarī)
स हि भगवान् कालत्रयदर्शी तपःप्रभावाद्दिव्येन चक्षुषा सर्वमेव करतलगतमिव जगदवलोकयति । वेत्ति जन्मान्तराण्यतीतानि । कथयत्यागामिनमत्यर्थम् । यतः सर्वैव तापसपरिषच्छ्रुत्वा विदिततत्प्रभावा ‘ कीदृशोऽनेनाविनयः कृतः, किमर्थं वा कृतः, जन्मान्तरे वा कोऽयमासीत् ’ इति कौतूहलिन्यभवत् । उपनाथितवती च तं भगवन्तम् — " आवेदय, प्रसीद, भगवन्, कीदृशस्याविनयस्य फलमनेनानुभूयते । कश्चायमासीज्जन्मान्तरे । विहगजातौ कथमस्य संभवः । किमभिधानो वायम् । अपनयतु नः कुतूहलम् । आश्चर्याणां हि सर्वेषां भगवान् प्रभवः ” इति ॥
Canonical CTS URN Reference
Kādambarīsaṅgraha, KD 47. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KD 46) All Verses in Chapter 1 Next Verse (KD 48) →