Skip to main content
Search
Ch. 1 KD 1.36
Full Chapter
KD • Chapter 1: Complete Text

KD 36

Canonical Ref: KD 36
Sanskrit (Devanāgarī)
एकतमस्तु जरच्छबरस्तस्मात् पुलिन्दवृन्दादनासादितहरिणपिशितः पिशितार्थी तस्मिन्नेव तरुतले मुहूर्तमिव व्यलम्बत। अन्तरिते च शबरसेनापतौ स जीर्णशबरः पिबन्निवास्माकमायूंषि सुचिरमारुरुक्षुस्तं वनस्पतिमा मूलादपश्यत् । उत्क्रान्तमिव तस्मिन्क्षणे तदालोकनभीतानां शुककुलानामसुभिः । किमिव हि दुष्करमकरुणानाम्? यतः स तमनेकसालतुङ्गमभ्रंकषशाखाशिखरमपि सोपानैरिवायत्नेनैव पादपमारुह्य ताननुपजातोत्पतनशक्तीन् कांश्चित् अल्पदिवसजातान् गर्भच्छविपाटलाञ्छाल्मलीकुसुमशङ्काम् उपजनयतः, कांश्चिदुद्भिद्यमानपक्षतया नलिनसंवर्तिकानुकारिणः, प्रतीकारासमर्थानेकैकतया फलानीव तस्य वनस्पतेः शाखान्तरेभ्यः कोटरेभ्यश्च शुकशावकानग्रहीत् । अपगतातूंश्च कृत्वा क्षितावपातयत् ॥
Canonical CTS URN Reference
Kādambarīsaṅgraha, KD 36. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KD 35) All Verses in Chapter 1 Next Verse (KD 37) →