Skip to main content
Search
Ch. 1 KD 1.37
Full Chapter
KD • Chapter 1: Complete Text

KD 37

Canonical Ref: KD 37
Sanskrit (Devanāgarī)
तातस्तु तं महान्तमकाण्ड एव प्राणहरमप्रतीकारमुपप्लवमुपनतमालोक्य द्विगुणतरोपजातवेपथुर्मरणभयादुद्भ्रान्ततरलतारकां दशमितस्ततो दिक्षु विक्षिपन्, पक्षसंपुटेनाच्छाद्य मां तत्कालोचितं प्रतीकारं तदेव मन्यमानः, स्नेहपरवशो मद्रक्षणाकुलः किंकर्तव्यताविमूढः क्रोडविभागेन मामवष्टभ्य तस्थौ । असावपि पापः क्रमेण शाखान्तरैः संचरमाणः, कोटरद्वारमागत्य जीर्णासितभुजङ्गभोगभीषणं प्रसार्य वामबाहुम्, अतिनृशंसो मुहुर्मुहुर्दत्तचञ्चुप्रहारमुत्कूजन्तमाकृष्य तातमपगतासुमकरोत् । मां तु स्वल्पत्वाद्भयसंपिण्डिताङ्गत्वात्सावशेषत्वादायुषः कथमपि पक्षसंपुटान्तरगतं नालक्षयत् । उपरतं च तमवनितले शिथिलशिरोधरमधोमुखममुञ्चत् । अहमपि तच्चरणान्तराले प्रवेशितशिरोधरो निभृतमङ्कनिलीनस्तेनैव सहापतम् । अवशिष्टपुण्यतया तु पवनवशसंपुञ्जितस्य महतः शुष्कपत्रराशेरुपरि पतितमात्मानमपश्यम् । अङ्गानि येन मे नाशीर्यन्त । यावच्चासौ तस्मात् तरुशिखरान्नावतरति, तावदहमवशीर्णपर्णसवर्णत्वादस्फुटोपलक्ष्यमाणमूर्तिः, पितरमुपरतमुत्सृज्य, नृशंस इव प्राणपरित्यागयोग्येऽपि काले बालतया कालान्तरभुवः स्नेहरसस्यानभिज्ञः, जन्मसहभुवा भयेनैव केवलमभिभूयमानः, किंचिदुपजाताभ्यां पक्षाभ्यामीषत्कृतावष्टम्भो लुठन्नितस्ततः, कृतान्तमुखकुहरादिव विनिर्गतमात्मानं मन्यमानः, नातिदूरवर्तिनस्तमालविटपिनो मूलदेशमविशम् ॥
Canonical CTS URN Reference
Kādambarīsaṅgraha, KD 37. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KD 36) All Verses in Chapter 1 Next Verse (KD 38) →