Skip to main content
Search
KD
Kādambarīsaṅgraha • Chapter 01

Complete Text

सर्गः 1

Complete Text of Kādambarīsaṅgraha.

Total: 268 Verses • Citations: KD 1.1–268 • 1 Lexicon Terms • Page 6 of 9 (Verses 30 shown)
उच्छ्वसितैः सह विस्मृतनिमेषेण किञ्चिदामुकुलितपक्ष्मणा दक्षिणेन चक्षुषा सस्पृहमापिबन्तीव, किमपि याचमानेव, हा हा किमिदमसांप्रतमतिह्रेपणमकुलकुमारीजनोचितमिदं मया प्रस्तुतमिति जानानाप्यप्रभवन्ती करणानाम्, स्तम्भितेव, लिखितेव, केनापि विधृतेव, निस्पन्दसकलावयवा तमतिचिरं व्यलोकयम् । अनन्तरं च मेऽन्तर्मदनावकाशमिव दातुमाहितसंतानां निरीयुः श्वासमरुतः । स्वेदसलिललवलेखाक्षालितेवागलल्लज्जा ॥
आसीच्च मम मनसि — “ शान्तात्मनि दूरीकृतविषयव्यतिकरेऽस्मिञ्जने मां निक्षिपता किमिदमनार्येणासदृशमारब्धं मनसिजेन । एवं च नामातिमूढं हृदयमङ्गनाजनस्य । यदनुरागविषययोग्यतामपि विचारयितुं नालम् । क्वेदमतिभास्वरं धाम तेजसां तपसां च । क्व च प्राकृतजनाभिनन्दितानि मन्मथपरिस्पन्दितानि । नियतमयं मामेवं मकरलाञ्छनेन विडम्ब्यमानामुपहसति मनसा । चित्रं चेदम्यदहमेवमवगच्छन्त्यपि न शक्नोम्यात्मनो विकारमुपसंहर्तुम् । कथमनेन क्षणेनाकारमात्रालोकन आकुलीभूतमेवम् अस्वतन्त्रतामुपैत्यन्तःकरणम् । यावदेव सचेतनास्मि, यावदेव च न परिस्फुटमनेन विभाव्यते मे मदनदुश्चेष्टितलाघवमेतत्, तावदेवास्मात् प्रदेशादपसर्पणं श्रेयः । कदाचिदनभिमतस्मरविकारदर्शनकुपितोऽयं शापाभिज्ञां करोति माम् । अदूरकोपा हि मुनिजनप्रकृतिः ” इत्यवधार्य, अपसर्पणाभिलाषिण्यहमभवम् । अशेषजनपूजनीया चेयं जातिरिति कृत्वा तस्मै प्रणाममकरवम् ॥
अथ कृतप्रणामायां मयि, दुर्लङ्घशासनतया भगवतो मनोभुवः, अविनयबहुलतया चाभिनवयौवनस्य, चपलतया च मनोवृत्तेः, तथाभवितव्यतया च तस्य तस्य वस्तुनः, किं बहुना, मम मन्दभाग्यदौरात्म्यात्, अस्य चेदृशस्य क्लेशस्य विहितत्वात्, तमपि मद्विकारदर्शनापहृतधैर्यं प्रदीपमिव पवनस्तरलतामनयदनङ्गः । तया तु तस्यातिप्रकटया विकृत्या द्विगुणीकृतमदनावेशा, तत्क्षणमहमवर्णनयोग्यां कामप्यवस्थामन्वभवम् ॥
प्राप्तप्रसरा चोपसृत्य तं द्वितीयमस्य सहचरं मुनिबालकं प्रणामपूर्वकमपृच्छम् — ‘ भगवन्, किमभिधानः ? कस्य चायं तपोधनयुवा ? किंनाम्नस्तरोरियमनेनावतंसीकृता कुसुममञ्जरी ? जनयति हि मे मनसि महत्कौतुकमस्याः समुत्सर्पन्नसाधारणसौरभोऽयमनाघ्रातपूर्वो गन्धः ’ इति । स तु मामीषद्विहस्याब्रवीत् — “ बाले, किमनेन पृष्ठेन प्रयोजनम् । अथ कौतुकमावदयामि । श्रयताम् —
अस्ति खलु सकलत्रिभुवनप्रख्यातकीर्तिः, महामुनिर्दिव्यलोकनिवासी श्वेतकेतुर्नाम । तस्य च कदाचिद्देवतार्चनकमलान्युद्धर्तुं मन्दाकिनीमवतरतस्त्रिभुवनसुन्दरं रूपमास्वादयन्त्या मन्मथविकृताया विकचपुण्डरीकोपविष्टाया देव्या लक्ष्म्याः सद्य एव कुमार एष समुदपादि । ततस्तमुत्सङ्गेनादाय सा ‘ भगवन्, गृहाण, तवायमात्मजः ’ इत्युक्त्वा तस्मै श्वेतकेतवे ददौ । असावपि बालजनोचिताः सर्वाः क्रियाः कृत्वा, तस्य पुण्डरीकसंभवतया तदेव पुण्डरीक इति नाम चक्रे । प्रतिपादितव्रतं च तमागृहीतसकलविद्याकलापमकार्षीत् । सोऽयम् ॥
‘ इयं च, सुरासुरैर्मथ्यमानात् क्षीरसागरादुद्गतो यः पारिजातनामा पादपः, तस्य मञ्जरी । यथा चैषा व्रतविरुद्धमस्य श्रवणसंसर्गमासादितवती, तदपि कथयामि । अद्य चतुर्दशीति भगवन्तमम्बिकापतिं कैलासगतमुपासितुममरलोकान्मया सह नन्दनवनसमीपेनायमनुसरन्, निर्गत्य साक्षान्नन्दनवनदेवतया पारिजातकुसुममञ्जरीमिमामादाय, प्रणम्याभिहितः — ‘ भगवन्, इयमवतंसविलासदुर्ललिता समारोप्यतां श्रवणशिखरम् । व्रजतु सफलतां जन्म पारिजातस्य ’ इत्येवमभिदधानां तामनुयान्तीमालोक्य, ‘ को दोषः सखे, क्रियतामस्याः प्रणयपरिग्रहः ’ इत्यभिधाय बलादियमनिच्छतोऽप्यस्य मया कर्णपूरीकृता । तदेतत्कार्त्स्न्येन, योऽयम्, या चेयम्, यथा चास्य श्रवणशिखरं समारूढा, तत्सर्वमावेदितम् ’ इत्युक्तवति तस्मिन्, स तपोधनयुवा किंचिदुपदर्शितस्मितो मामवादीत् — ‘ अयि कुतूहलिनि, किमनेन प्रश्नायासेन । यदि रुचितसुरभिपरिमला, गृह्यतामियम् ’ इत्युक्त्वा समुपसृत्य, आत्मीयाच्छ्रवणादपनीय मदीये श्रवणपुटे तामकरोत् । स च मत्कपोलस्पर्शतरलीकृताङ्गुलिजालकात् करतलादक्षमालां लज्जया सह गलितामपि नाज्ञासीत् । अथाहं तामसंप्राप्रामेव भूतलमक्षमालां गृहीत्वा, सलीलं कण्ठाभरणतामनयम् ॥
इत्थंभूते च व्यतिकरे छत्रप्राहिणी मामवोचत् — ‘ भर्तृदारिके, स्नाता देवी । प्रत्यासीदति गृहगमनकालः । तत्क्रियतां मज्जनविधिः ’ इति । अहं तु तेन तस्या वचनेन नवग्रहा करिणीव प्रथमाङ्कुशपातेनानिच्छया कथं कथमपि समाकृष्यमाणा, तन्मुखादतिकृच्छ्रेण दृष्टिमाकृष्य, स्नातुमुदचलम् ॥
उच्चलितायां च मयि द्वितीयो मुनिदारकस्तथाविधं तस्य धैर्यस्खलितमालोक्य किंचित्प्रकटितप्रणयकोप इवावादीत् — ‘ सखे पुण्डरीक, नैतदनुरूपं भवतः । क्षुद्रजनक्षुण्ण एष मार्गः । धैर्यधना हि साधवः। किं यः कश्चित्प्राकृत इव विक्लवीभवन्तमात्मानं न रुणत्सि। कुतस्तवापूर्वोऽयमद्येन्द्रियोपप्लवः, येनास्येवंकृतः । क्व ते तद्धैर्यम् । क्वासाविन्द्रियजयः। क्व सा प्रशान्तिः । क्व तत्कुलक्रमागतं ब्रह्मचर्यम् । क्व ते गुरूपदेशाः । क्व तानि श्रुतानि । क्व ता वैराग्यबुद्धयः । क्वासौ तपस्यभिनिवेशः । क्व तद्यौवनानुशासनम् । सर्वथा निष्फला प्रज्ञा । निर्गुणो धर्मशास्त्राभ्यासः । निरर्थकः संस्कारः । निरुपकारको गुरूपदेशविवेकः । निष्प्रयोजना प्रबुद्धता । निष्कारणं ज्ञानम् । यदत्र भवादृशा अपि रागाभिषङ्गैः कलुषीक्रियन्ते, प्रमादैश्चाभिभूयन्ते । कथं करतलाद्गलितामपहृतामक्षमालामपि न लक्षयसि । अहो विगतचेतनत्वम् । अपहृता नामेयम् । इदमपि तावदपह्रियमाणमनयानार्यया निवार्यतां हृदयम् ’ ॥
इत्येवमभिधीयमानश्च तेन किंचिदुपजातलज्ज इव प्रत्यवादीत् ‘ सखे कपिञ्जल, किं मामन्यथा संभावयसि । नाहमेवमस्या दुर्विनीतकन्यकाया मर्षयाम्यक्षमालाग्रहणापराधमिमम् ’ इत्यभिधाय, अलीककोपकान्तेन मुखेन्दुना मामवदत् ‘ चपले, प्रदेशादस्मादिमामाक्षमालामदत्वा पदात्पदमपि न गन्तव्यम् ’ इति। तच्च श्रुत्वा, अहमात्मकण्ठादुन्मुच्यैकावलीम्, ‘ भगवन्, गृह्यतामक्षमाला ’ इति
मन्मुखासक्तदृष्टेः शून्यहृदयस्यास्य प्रसारिते पाणौ निधाय, स्नातुमवातरम् । उत्थाय च कथमपि प्रयत्नेन निम्नगेव प्रतीपं नीयमाना सखीजनेन बलादम्बया सह तमेव चिन्तयन्ती स्वभवनमयासिषम् ॥
गत्वा च प्रविश्य कन्यकान्तःपुरम्, ततः प्रभृति तद्विरहविधुरा, किमागतास्मि, किं तत्रैव स्थितास्मि, किमेकाकिन्यस्मि, किं परिवृतास्मि, किं तूष्णीमस्मि, किं प्रस्तुतालापास्मि, किं जागर्मि, किं सुप्तास्मि, कानि रम्याणि, कान्यरम्याणीति सर्वमेव नावागच्छम् । अविज्ञातमदनवृत्तान्ता च, क्व गच्छामि, किं करोमि, किं शृणोमि, किं पश्यामि, किमालपामि, कस्य कथयामि, कोऽस्य प्रतीकार इति सर्वं च नाज्ञासिषम् । केवलमारुह्य कुमारीपुरप्रासादम्, विसर्ज्य च सखीजनम्, द्वारि निवारिताशेषपरिजनप्रवेशा, सर्वव्यापारानुत्सृज्य, एकाकिनी मणिजालगवाक्षनिक्षिप्तमुखी, तामेव दिशं तत्सनाथतया प्रसाधितामिव पूर्णचन्द्रोदयालङ्कृतामिव दर्शनसुभगामीक्षमाणा, तस्माद्दिगन्तरादागच्छन्तमनिलमपि वनकुसुमपरिमलमपि शकुनिध्वनिमपि तद्वार्तां प्रष्टुमीहमाना, तद्वल्लभतया तपःक्लेशायापि स्पृहयन्ती, तत्परिग्रहान्मुनिवेषस्याग्राम्यतां तच्छ्रवणसंपर्कात् पारिजातकुसुमस्य मनोहरतां तन्निवासात् सुरलोकस्य रम्यतामध्यारोपयन्ती, दूरस्थस्यापि कमलिनीव सवितुस्तस्यैवाभिमुखी, तथैव तामक्षावलीं कण्ठेनोद्वहन्ती, तथैव च तया कर्णलग्नया पारिजातमञ्जर्या कण्टकितैककपोलफलका, निस्पन्दमतिष्ठम् ॥
अथ ताम्बूलकरङ्कवाहिनी मदीया तरलिका नाम मयैव सह गता स्नातुमासीत्। सा च पश्चाच्चिरादिवागत्य, तथावस्थितां शनैर्मामवादीत् — “ भर्तृदारिके, यौ तौ तापसकुमारकौ दिव्याकारावस्माभिरच्छोदसरस्तीरे दृष्टौ, तयोरेकः, येन भर्तृदुहितुरियमवतंसीकृता सुरतरुकुसुममजुरी, स तस्माद्द्वितीयादात्मनो रक्षन् दर्शनम्, अतिनिभृतपदः, कुसुमितलतासंतानगहनान्तरेणापसृत्य मामागच्छन्तीं पृष्ठतः, भर्तृदारिकामुद्दिश्याप्राक्षीत् — ‘ बालिके, केयं कन्यका, कस्य वापत्यम्, किमभिधाना, क्व गच्छति ’ इति । मयोक्तम् — ‘ एषा खलु गन्धर्वाधिपतेर्हंसस्य दुहिता महाश्वेता नाम गन्धर्वाधिवासं हेमकूटाचलमभिप्रस्थिता ’ इति कथिते च मया, किमपि चिन्तयन्मुहूर्तमिव तृष्णीं स्थित्वा, विगतनिमषेण चक्षुषा चिरमभिवीक्षमाणो माम्, सानुनयमर्थितामिव दर्शयन्पुनराह — ‘ बालिके, कल्याणिनी तवाविसंवादिन्यचपला बालभावेऽप्याकृतिरियम्। तत्करोषि मे वचनमेकमभ्यर्थ्यमाना ’ इति । ततो मया सविनयमुपरचिताञ्जलिपुटया दर्शितादरमभिहितः — ‘ भगवन्, कस्मादेवमाभिधत्से । काहम् । महात्मानः सकलत्रिभुवनपूजनीयास्त्वादृशाः पुण्यैर्विना निखिलकल्मषापहारिणीमस्मद्विधेषु दृष्टिमपि न पातयन्ति, किं पुनराज्ञाम् । तद्विस्रब्धमादिश्यतां कर्तव्यम् । अनुगृह्यतामयं जनः ’ इत्येवमुक्तश्च मया सस्नेहया, सखीमिवोपकारिणीमिव प्राणप्रदामिव दृष्ट्या मामभिनन्द्य, निकटवर्तिनस्तमालपादपात् पल्लवमादाय, निष्पीड्य शिलातले, तेन रसेनोत्तरीयवल्कलैकदेशाद्विपाट्य पट्टिकां स्वहस्तकमलकनिष्ठिकानखशिखरेणाभिलिख्य, ‘ इयं पत्रिका त्वया तस्यै कन्यकायै प्रच्छन्नमेकाकिन्यै देया ’ इत्यभिधायार्पितवान् ” इत्युक्त्वा च सा, ताम्बूलभाजनादाकृष्य तामदर्शयत् ।
अहं तु तस्याः करतलादादाय तां वल्कलपट्टिकां तस्यामिमामभिलिखितामार्यामपश्यम् —
दूरं मुक्तालतया बिससितया विप्रलोभ्यमानो मे ।
हंस इव दर्शिताशो मानसजन्मा त्वया नीतः ॥
अनया च मे दृष्ट्या दोषविकारोपचयः सुतरामक्रियत मनसः, येनाकुलीक्रियमाणा सरिदिव पूरेण विह्वलतामभ्यागमम् । तां च द्वितीयदर्शनेन समासादितत्रैलोक्यराज्याभिषेकामिव मन्यमाना, कपोलयोरलकलताभङ्गेषु च सोपग्रहं स्पृशन्ती, विपरीतमिव परिजनस्वामिसंबन्धमुपदर्शयन्ती, ‘ तरलिके, कथय कथं स त्वया दृष्टः, किं किमभिहितासि तेन, कियन्तं कालमवस्थितासि तत्र, कियदनुसरन्नस्मानसावागतः ’ इति पुनः पुनः पर्यपृच्छम् । अनयैव च कथया तया सह तस्मिन्नेव प्रासादे तथैव प्रतिषिद्धाशेषपरिजनप्रवेशा दिवसमत्यवाहयम् ॥
अथ लोहितायति गगनतलोपान्तावलम्बिनि रविबिम्बे, मुकुलितरक्तपङ्कजपुटप्रविष्टमधुकरावलीषु रविविरहमूच्छान्धकारितहदयास्विव प्रारब्धनिमीलनासु पद्मिनीषु, सा छत्रग्राहिणी समागत्याकथयत् — ‘ भर्तृदारिके, तयोर्मुनिकुमारयोरन्यतरो द्वारि तिष्ठति, कथयति च अक्षमालाम् उपयाचितुमागतोऽस्मि ’ इति ॥
अहं तु मुनिकुमारनामग्रहणादेव स्थानस्थितापि गतेव द्वारदेशम्, समुपजाततदागमनाशङ्का समाहूयान्यतमं कञ्चुकिनम् ‘ गच्छ, प्रवेश्यताम् ’ इत्यादिश्य प्राहिणवम् ॥
अथ महूर्तादिव तं तस्य मकरकेतनस्येव वसन्तसमयम्, वसन्तसमयस्येव दक्षिणानिलम्, अनुरूपं सखायमृषिकुमारकं कपिञ्जलनामानमागच्छन्तमपश्यम् । अन्तिकमुपगतस्य चास्य पर्याकुलमिव शून्यमिवाकारमलक्षयम् । उत्थाय च कृतप्रणामा सादरं स्वयमासनमुपाहरम् । उपविष्टस्य च बलादनिच्छतोऽपि प्रक्षाल्य चरणौ उपमृज्योत्तरीयांशुकपल्लवेन, अव्यवधानायां भूमावेव तस्यान्तिके समुपाविशम् । अथ मुहूर्तमिव स्थित्वा किमपि विवक्षुरिव, स तस्यां मत्समीपोपविष्टायां तरलिकायां चक्षुरपातयत् । अहं तु विदिताभिप्राया दृष्ट्यैव ‘ भगवन्, अव्यतिरिक्तेयमस्मच्छरीरात् । अशङ्कितमभिधीयताम् ’ इत्यवोचम् ॥
एवमुक्तश्च मया कपिञ्जलः प्रत्यवादीत् — ‘ राजपुत्रि, किं ब्रवीमि । वागेव मे नाभिधेयविषयमवतरति त्रपया । क्व कन्दमूलफलाशी शान्तो वननिरतो मुनिजनः । क्वायमनुपशान्तजनोचितो विषयोपभोगाभिलाषकलुषो रागप्रायः प्रपञ्चः । सर्वमेवानुपपन्नम् । आलोकय, किमारब्धं दैवेन । अयत्नेनैव खलूपहासास्पदतामीश्वरो नयति जनम् । न जाने किमिदं वल्कलानां सदृशम् । उताहो जटानां समुचितम् । किं तपसोऽनुरूपम् । आहोस्विद्धर्मोपदेशाङ्गमिदम् । अपूर्वेयं विडम्बना । केवलमवश्यकथनीयमिदम् । अपर उपायो न दृश्यते । अन्या प्रतिक्रिया नोपलभ्यते । अन्यच्छरणं नालोक्यते । अन्या गतिर्नास्ति । अकथ्यमाने च, महाननर्थोपनिपातो जायते । प्राणपरित्यागेनापि रक्षणीयाः सुहृदसव इति कथयामि ।
अस्ति भवत्याः समक्षमेव स मया तथा निष्ठुरमुपदर्शितकोपेनाभिहितः । तथा चाभिधाय परित्यज्य तम्, तस्मात्प्रदेशादुपजातमन्युः, उत्सृष्टकुसुमावचयः, अन्यं प्रदेशमगमम् । अपयातायां भवत्यां मुहूर्तमिव स्थित्वा, ‘ एकाकी किमयमिदानीमाचरति ’ इति संजातवितर्कः, प्रतिनिवृत्य, विटपान्तरितविग्रहः, तं प्रदेशं व्यलोकयम् । यावत्तत्र तं नाद्राक्षम्, आसीञ्च मे मनस्येवम् — ‘ किंनु मदनपरायत्तचित्तवृत्तिस्तामेवनुसरन् गतो भवेत् ? गतायां च तस्यां लब्धचेतनो लज्जमानो न शक्नोति मे दर्शनपथमुपगन्तुम् ? आहोस्वित्कुपितः परित्यज्य मां गतः ? उतान्वेषयन्मामेव प्रदेशमन्यमितः समाश्रितः स्यात् ? ’ इत्येवं विकल्पयन्, कञ्चित्कालमतिष्ठम् । तेन तु जन्मनः प्रभृत्यनभ्यस्तेन तस्य क्षणमप्यदर्शनेन दूयमानः पुनरचिन्तयम् — ‘ स कदाचिद्धैर्यस्खलनविलक्षः किञ्चिदनिष्टमपि समाचरेत् । न हि किञ्चिन्न क्रियते ह्रिया । तन्न युक्तमेनमेकाकिनं कर्तुम् ’ इत्यवधार्य, अन्वेष्टुमादरमकरवम् । अन्वेषयंश्च यथा यथा नापश्यं तम्, तथा तथा सुहृत्स्नेहकातरेण मनसा तत्तदशोभनमाशङ्कमानः, तरुलतागहनानि चन्दनवीथिकालतामण्डपान् सरःकूलानि च वीक्षमाणः, निपुणमितस्ततो दत्तदृष्टिः, सुचिरं व्यचरम् ॥
अथैकस्मिन् सरःसमीपवर्तिनि निरन्तरतया कुसुममय इव मधुकरसमय इव परभृतमय इव मयूरमय इवातिमनोहरे वसन्तजन्मभूमिभूते लतागहने कृतावस्थानम्, उत्सृष्टसकलव्यापारतया लिखितमिव उत्कीर्णमिव स्तम्भितमिव उपरतमिव प्रसुप्तमिव योगसमाधिस्थमिव निश्चलमपि स्ववृत्ताच्चलितम्, शापप्रदानभयादिवादत्तदर्शनेन कुसुमायुधेन सन्ताप्यमानम्, अतिनिस्पन्दतया हृदयनिवासिनीप्रियां द्रष्टुमन्तःप्रविष्टैरिवासह्यसन्तापसंत्रासप्रलीनैरिव मनःक्षोभप्रकुपितैरिवोन्मुच्य गतैरिन्द्रियैः शून्यीकृतशरीरम्, निस्पन्दनिमीलितेनेक्षणयुगलेन बाष्पजलदुर्दिनमुत्सृजन्तम्, अलिनिवहनिपीयमानपरिमलैरुपरि पतद्भिश्चम्पककुड्मलैस्तप्तशरशल्यकैरिव सधूमैः कुसुमशरेण ताड्यमानम्, प्रभातचन्द्रमिव पाण्डुतया परिगृहीतम्, निदाघगङ्गाप्रवाहमिव क्रशिमानमागतम्, अन्तर्गतानलं चन्दनविटपमिव म्लायन्तम्, अन्यमिव, अदृष्टपूर्वमिव, अपरिचितमिव, जन्मान्तरमिवोपगतम्, परां कोटिमधिरूढं मन्मथावेशस्य, अनभिज्ञेयपूर्वाकारं तमहमद्राक्षम् ॥
अपगतनिमेषेण चक्षुषा तदवस्थं चिरमुद्वीक्ष्य समुपजातविषादो वेपमानेन हृदयेनाचिन्तयम् — ‘ एवं नामायमतिदुर्विषहवेगो मकरकेतुः । येनानेन क्षणेनायमीदृशमवस्थान्तरम् अप्रतीकारमुपनीतः । कथमेवमेकपदे व्यर्थीभवेदेवंविधो ज्ञानराशिः । अहो बत महच्चित्रम् । तथा नामायमाशैशवाद्धीरप्रकृतिरस्खलितवृत्तिर्मम चान्येषां च मुनिकुमारकाणां स्पृहणीयचरितः आसीत् । अद्य त्वितर इव परिभूय ज्ञानम्, अविगणय्य तपःप्रभावम्, उन्मूल्य गाम्भीर्यम्, मन्मथेन जडीकृतः । सर्वथा दुर्लभं यौवनमस्खलितम् ’ इति । उपसृत्य च तस्मिन्नेव शिलातलैकपार्श्वे समुपविश्य, अंसदेशावसक्तपाणिः, तमनुन्मीलितलोचनमेव ‘ सखे पुण्डरीक, कथय किमिदम् ’ इत्यपृच्छम् ।
अथ सुचिरसंमीलनालग्नमिव कथमपि प्रयत्नेनानवरतरोदनवशात् उपजातारुणभावम् अश्रुजलपटलपूरप्लावितम् उत्कुपितमिव संवेदनमिव स्वच्छांशुकान्तरितरक्तकमलवनच्छायं चक्षुरुन्मील्य, मन्थरया दृष्ट्या सुचिरं विलोक्य माम्, आयततरं निश्वस्य लज्जाविशीर्यमाणविरलाक्षरम्, ‘ सखे कपिञ्जल, विदितवृत्तान्तोऽपि किं मां पृच्छसि ’ इति कृच्छ्रेण शनैः शनैरवदत् । अहं तु तदाकर्ण्य, तदवस्थयैव, ‘ अप्रतीकारविकारोऽयम्, तथापि सुहृदा सुहृदसन्मार्गप्रवृत्तो यावच्छक्ति सर्वात्मना निवारणीयः ’ इति मनसावधार्य, अब्रवम् ।
अहं तु तदाकर्ण्य, तदवस्थयैव, ‘ अप्रतीकारविकारोऽयम्, तथापि सुहृदा सुहृदसन्मार्गप्रवृत्तो यावच्छक्ति सर्वात्मना निवारणीयः ’ इति मनसावधार्य, अब्रवम् — “ सखे पुण्डरीक, सुविदितमेतन्मम । केवलमिदमेव पृच्छामि । यदेतदारब्धं भवता, किमिदं गुरुभिरुपदिष्टम् ? उत धर्मशास्त्रेषु पठितम् ? उत धर्मार्जनोपायोऽयम् ? उतापरस्तपसां प्रकारः ? उत स्वर्गगमनमार्गोऽयम् ? उत व्रतरहस्यमिदम् ? उत मोक्षप्राप्तियुक्तिरियम् ? आहोस्विदन्यो नियमप्रकारः ? कथमेतद्युक्तं भवतो मनसापि चिन्तयितुम्, किं पुनराख्यातुमीक्षितुं वा । किमप्रबुद्ध इवानेन मन्मथहतकेनोपहासास्पदतां नीयमानमात्मानं नावबुध्यसे । मूढो हि मदनेनायास्यते । को वा सुखाशा साधुजननिन्दितेष्वेवंविधेषु प्राकृतजनबहुमतेषु भवतः । स खलु धर्मबुद्ध्या विषलतावनं सिञ्चति, कुवलयमालेति निस्त्रिंशलतामालिङ्गति, कृष्णागरुधूमलेखेति कृष्णसर्पमवगूहते, रत्नमिति ज्वलन्तमङ्गारमभिस्पृशति, मूढो विषयोपभोगेष्वनिष्टानुबन्धिषु यः सुखबुद्धिमारोपयति । अधिगतविषयतत्त्वोऽपि कस्मात्खद्योत इव ज्योतिर्निर्वीर्यमिदं ज्ञानमुद्वहसि । यतो न निवारयसि प्रबलरजःप्रसरकलुषितानि स्रोतांसीवोन्मार्गप्रस्थितानीन्द्रियाणि, न नियमयसि च क्षुभितं मनः । कोऽयमनङ्गो नाम । धैर्यमवलम्ब्य निर्भर्त्स्यतामयं दुराचारः ’ इत्येवं वदत एव मे वचनमाक्षिप्य, प्रतिपक्ष्मान्तरालप्रवृत्तबाष्पवेणिकं प्रमृज्य चक्षुः, करतलेन पाणौ मामवलम्ब्य, अवोचन् — ‘ सखे किं वहुनोक्तन । सर्वथा स्वस्थोऽसि । आशीविषविषवेगविषमाणामेतेषां कुसुमचापसायकानां पतितोऽसि न गोचरे। सुखमुपदिश्यते परस्य । यस्य चेन्द्रियाणि सन्ति, मनो वा विद्यते, यः पश्यति वा, शृणोति वा, श्रुतमवधारयति वा, यो वा शुभमिदं न शुभमिदमिति विवेक्तुमलम्, स खलूपदेशमर्हति । मम तु सर्वमेवेदमतिदूरापेतम् । कथमप्येवमेवायत्नविधृतास्तिष्ठन्त्यसवः । दूरातीतः खलूपदेशकालः । समतिक्रान्तो धैर्यावसरः । गता प्रतिसङ्ख्यानवेला । अतीतो ज्ञानावष्टम्भसमयः । केन वान्येतास्मिन्समये भवन्तमपहायोपदेष्टव्यम्, उन्मार्गप्रवृत्तिनिवारणं वा करणीयम् । कस्य वान्यस्य वचसि मया स्थातव्यम् । को वापरस्त्वत्समो में जगति बन्धुः । किं करोमि, यन्न शक्नोमि निवारयितुमात्मानम् । इयमनेनैव क्षणेन भवता दृष्टा दुष्टावस्था । तद्गत इदानीमुपदेशकालः । यावत्प्राणिमि, तावदस्य मदनसन्तापस्य प्रतिक्रिया क्रियमाणामिच्छामि । पच्यन्त इव मेऽङ्गानि । उत्क्वथ्यत इव हृदयम् । प्लुष्यत इव दृष्टिः । ज्वलतीव शरीरम् । अत्र यत्प्राप्तकालम्, तत्करोतु भवान् ’ इत्यभिधाय तूष्णीमभवत् ॥
एवमुक्तोऽप्यहमेनं प्राबोधयं पुनः पुनः । यदा शास्त्रोपदेशविशदैः सनिदर्शनैः सेतिहासैश्च वचोभिः सानुनयं सोपग्रहं चाभिधीयमानोऽपि नाकरोत्कर्णे, तदाहमचिन्तयम् — ‘ अतिभूमिमयं गतो न शक्यते निवर्तयितुम् । इदानीं निरर्थकाः खलूपदेशाः । तत्प्राणपरिरक्षणेऽपि तावदस्य यत्नमाचरामि ’ इति कृतमतेः, मुहुर्मुहुरन्यदन्यन्नलिनदलशयनमुपकल्पयतः, मुहुर्मुहुश्चन्दनचर्चामारचयतः, मुहुर्मुहुश्च स्वेदप्रतिक्रियां कुर्वतः, कदलीदलेनानवरतं वीजयतः, समुदभून्मे मनसि चिन्ता — ‘ नास्ति खल्वसाध्यं नाम भगवतो मनोभुवः । क्वायं हरिण इव वनवासनिरतः स्वभावमुग्धो जनः । क्व च विविधविलासरसराशिर्गन्धर्वराजपुत्री महाश्वेता । सर्वथा न हि किञ्चिदस्य दुर्घटं दुष्करमनायत्तमकर्तव्यं वा जगति । दुरुपपादेष्वप्यर्थेष्वयमवज्ञया विचरति । नायं केनापि प्रतिकूलयितुं शक्यते । का वा गणना सचेतनेषु । अपगतचेतनान्यपि संघटयितुमलम् । यद्यस्मै रोचते, कुमुदिन्यपि दिनकरकरानुरागिणी भवति । कमलिन्यपि शशिकरद्वेषमुज्झति । निशापि वासरेण सह मिश्रतामेति । ज्योत्स्नाप्यन्धकारमनुवर्तते । किं वा तस्य दुःसाधमपरम् । एवंविधो येनायमगाधगाम्भीर्यसागरस्तृणवल्लघुतामुपनीतः । क्व तत्तपः । क्वेयमवस्था । सर्वथा निष्प्रतीकारेयमापदुपस्थिता । किमिदानीं कर्तव्यम् । किं वा चेष्टितव्यम् । कां दिशं गन्तव्यम् । किं शरणम् । को वोपायः । कः सहायः । कः प्रकारः । का युक्तिः। कः समाश्रयः । येनास्यासवः सन्धार्यन्ते । केन वा कौशलेन, कतमया वा युक्त्या, कतरेण वा प्रकारेण, केन वावष्टम्भेन, कया वा प्रज्ञया, कतमेन वा समाश्वासनेन, अयं जीवेत् ’ इत्येते चान्ये च मे विषण्णहृदयस्य संकल्पाः प्रादुरासन् ॥
पुनश्चाचिन्तयम् — ‘ किमनया ध्यातया निष्प्रयोजनया चिन्तया । प्राणास्तावदस्य येन केनचिदुपायेन शुभेनाशुभेन वा रक्षणीयाः । तेषां च तत्समागममेकमपहाय नास्त्यपरः संरक्षणोपायः । बालभावादप्रगल्भतया च तपोविरुद्धमनुचितमुपहासमिवात्मनो मदनव्यतिकरं मन्यमानो नियतमेकोच्छ्वासावशेषजीवितोऽपि नायं तस्याः स्वयमभिगमनेन पूरयति मनोरथम् । अकालान्तरक्षमश्चायमस्य मदनविकारः। सततमतिगर्हितेनाकृत्येनापि रक्षणीयान्मन्यन्ते सुहृदसून् साधवः । तदतिह्रेपणमकर्तव्यमप्येतदसमाकम् अवश्यकर्तव्यतामापतितम् । किं चान्यत्क्रियते । का चान्या गतिः। सर्वथा प्रयामि तस्याः सकाशम् । आवेदयाम्येतामवस्थाम् ’ इति चिन्तयित्वा, कदाचिदनुचितव्यापारप्रवृत्तं मां विज्ञाय सञ्जातलज्जो निवारयेदित्यनिवेद्यैव तस्मै, तत्प्रदेशात्सव्याजमुत्थायागतोऽहम् । तदेवमवस्थिते यदत्रावसरप्राप्तम्, ईदृशस्य चानुरागस्य सदृशम्, अस्मदागमनस्य चानुरूपम्, आत्मनो वा समुचितम्, तत्र प्रभवति भवती ’ इत्यभिधाय, किमियं वक्ष्यतीति मन्मुखासक्तदृष्टिस्तूष्णीमासीत् ॥
अहं तु तदाकर्ण्य, सुखामृतमये ह्रद इव निमग्ना, सर्वानन्दानामुपरि वर्तमाना, सर्वमनोरथानामग्रमिवाधिरूढा, तत्कालोपजातया लज्जया किञ्चिदवनम्यमानवदनत्वादस्पृष्टकपोलोदरैः आनन्दबाष्पजलबिन्दुभिः स्रवद्भिरावेद्यमानप्रहर्षप्रसङ्गा तत्क्षणमचिन्तयम् — ‘ दिष्ट्या तावदयमनङ्गो मामिव तमप्यनुबध्नाति । यत्मत्यमतेन मे सन्तापयताप्यंशेन दर्शितानुकूलता । यदि च सत्यमेव तस्येदृशी दशा वर्तते, ततः किमिव नोपकृतमनेन । किं वा नोपपादितम् । को वानेनापरः समानो बन्धुः । कथं वा कपिञ्जलस्य स्वप्नेऽपि वितथा भारती प्रशान्ताकृतेरस्माद्वदनान्निष्क्रामति । इत्थंभूते किं मयापि प्रतिपत्तव्यम् । तस्य वा पुरः किमभिधातव्यम् ’ इत्येवं विचारयन्तीमेव प्रविश्य ससंभ्रमा प्रतीहारी मामकथयत् — ‘ भर्तृदारिके, त्वमस्वस्थशरीरेति परिजनादुपलभ्य महादेवी प्राप्ता ’ इति । तच्च श्रुत्वा कपिञ्जलो महाजनसमर्दभीरुः सत्वरमुत्थाय, ‘ राजपुत्रि, महानयमुपस्थितः कालातिपातः । भगवांश्च भुवनत्रयचूडामणिरस्तमयमुपगच्छति दिवसकरः । तद्गच्छामि । सर्वधाभिमतसुहृत्प्राणरक्षादक्षिणार्थमयमुपरचितोऽञ्जलिः । एष मे परमो विभवः ’ इत्यभिधाय, प्रतिवचनकालमप्रतीक्ष्यैव, पुरोयायिनाम्बायाः परिजनेन सर्वतः संरुद्धे द्वारदेशे कथमप्यवाप्तनिर्गमः प्रययौ । अम्बा तु मत्समीपमागत्य सुचिरं स्थित्वा स्वभवनमयासीत्। तया तु तत्रागत्य किं कृतम्, किमभिहितम् किमाचेष्टितम्, इति शून्यहृदया सर्वं नालक्षयम् ॥
गतायां च तस्याम्, अस्तमुपगते भगवति सवितरि, तिमिरेणावष्टभ्यमाने जीवलोके, किंकर्तव्यतामूढा तामेव तरलिकामपृच्छम् — “ अयि तरलिके, कथं न पश्यसि — दृढमाकुलं मे हृदयम् । अप्रतिपत्तिविह्वलानि चेन्द्रियाणि । न स्वयमण्वपि कर्तव्यमलमस्मि ज्ञातुम् । उपदिशतु मे भवती, यदत्र साम्प्रतम् । अयमेवं त्वत्समक्षमेवाभिधाय गतः कपिञ्जलः । यदि तावदितरकन्यकेव विहाय लज्जाम्, उत्सृज्य धैर्यम्, अवमुच्य विनयम्, अचिन्तयित्वा जनापवादम्, अतिक्रम्य सदाचारम्, उल्लङ्घ्य शीलम्, अवगणय्य कुलम्, अङ्गीकृत्यायशः, रागान्धवृत्तिः, अननुज्ञाता पित्रा, अननुमोदिता मात्रा, स्वयमुपगम्य ग्राहयामि पाणिम् । एवं गुरुजनातिक्रमादधर्मो महान् । अथ धर्मानुरोधादितरपक्षावलम्बनद्वारेण मृत्युमङ्गीकरोमि, एवमपि प्रथमं तावत् — स्वयमागतस्य प्रथमप्रणयिनस्तत्रभवतः कपिञ्जलस्य प्रणयप्रसरभङ्गः । पुनरपरम् — यदि कदाचित्तस्य जनस्य मत्कृतादाशाभङ्गात् प्राणविपत्तिरुपजायते, तदपि मुनिजनवधजनितं महदेनो भवेत् ” इत्येवमुच्चारयन्त्यामेव मयि, आसन्नचन्द्रोदयजन्मना विरलविरलेनालोकेन धूसरतां वासवीदिगयासीत् ॥
ततः शशिकेसरिकरविदार्यमाणतमःकरिकुम्भसंभवेन मुक्ताफलक्षोदेनेव धवलतामुपनीयमानं पश्चिमेतरदिन्दुधाम्ना दिगन्तरमदृश्यत । शनैः शनैश्चन्द्रदर्शनान्मन्दमन्दस्मिताया दशनप्रभेव ज्योत्स्ना निष्पतन्ती निशाया मुखशोभामकरोत् । तदनु रसातलादवनीमवदार्योद्गच्छता शेषफणामण्डलेनेव रजनिकरबिम्बेनाराजत रजनी ॥
Full Table of Contents