Skip to main content
Search
Ch. 1 KD 1.156
Full Chapter
KD • Chapter 1: Complete Text

KD 156

Canonical Ref: KD 156
Sanskrit (Devanāgarī)
‘ इयं च, सुरासुरैर्मथ्यमानात् क्षीरसागरादुद्गतो यः पारिजातनामा पादपः, तस्य मञ्जरी । यथा चैषा व्रतविरुद्धमस्य श्रवणसंसर्गमासादितवती, तदपि कथयामि । अद्य चतुर्दशीति भगवन्तमम्बिकापतिं कैलासगतमुपासितुममरलोकान्मया सह नन्दनवनसमीपेनायमनुसरन्, निर्गत्य साक्षान्नन्दनवनदेवतया पारिजातकुसुममञ्जरीमिमामादाय, प्रणम्याभिहितः — ‘ भगवन्, इयमवतंसविलासदुर्ललिता समारोप्यतां श्रवणशिखरम् । व्रजतु सफलतां जन्म पारिजातस्य ’ इत्येवमभिदधानां तामनुयान्तीमालोक्य, ‘ को दोषः सखे, क्रियतामस्याः प्रणयपरिग्रहः ’ इत्यभिधाय बलादियमनिच्छतोऽप्यस्य मया कर्णपूरीकृता । तदेतत्कार्त्स्न्येन, योऽयम्, या चेयम्, यथा चास्य श्रवणशिखरं समारूढा, तत्सर्वमावेदितम् ’ इत्युक्तवति तस्मिन्, स तपोधनयुवा किंचिदुपदर्शितस्मितो मामवादीत् — ‘ अयि कुतूहलिनि, किमनेन प्रश्नायासेन । यदि रुचितसुरभिपरिमला, गृह्यतामियम् ’ इत्युक्त्वा समुपसृत्य, आत्मीयाच्छ्रवणादपनीय मदीये श्रवणपुटे तामकरोत् । स च मत्कपोलस्पर्शतरलीकृताङ्गुलिजालकात् करतलादक्षमालां लज्जया सह गलितामपि नाज्ञासीत् । अथाहं तामसंप्राप्रामेव भूतलमक्षमालां गृहीत्वा, सलीलं कण्ठाभरणतामनयम् ॥
Canonical CTS URN Reference
Kādambarīsaṅgraha, KD 156. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KD 155) All Verses in Chapter 1 Next Verse (KD 157) →