Skip to main content
Search
Ch. 1 KD 1.174
Full Chapter
KD • Chapter 1: Complete Text

KD 174

Canonical Ref: KD 174
Sanskrit (Devanāgarī)
अथ सुचिरसंमीलनालग्नमिव कथमपि प्रयत्नेनानवरतरोदनवशात् उपजातारुणभावम् अश्रुजलपटलपूरप्लावितम् उत्कुपितमिव संवेदनमिव स्वच्छांशुकान्तरितरक्तकमलवनच्छायं चक्षुरुन्मील्य, मन्थरया दृष्ट्या सुचिरं विलोक्य माम्, आयततरं निश्वस्य लज्जाविशीर्यमाणविरलाक्षरम्, ‘ सखे कपिञ्जल, विदितवृत्तान्तोऽपि किं मां पृच्छसि ’ इति कृच्छ्रेण शनैः शनैरवदत् । अहं तु तदाकर्ण्य, तदवस्थयैव, ‘ अप्रतीकारविकारोऽयम्, तथापि सुहृदा सुहृदसन्मार्गप्रवृत्तो यावच्छक्ति सर्वात्मना निवारणीयः ’ इति मनसावधार्य, अब्रवम् ।
Canonical CTS URN Reference
Kādambarīsaṅgraha, KD 174. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KD 173) All Verses in Chapter 1 Next Verse (KD 175) →