Skip to main content
Search
Ch. 1 KD 1.161
Full Chapter
KD • Chapter 1: Complete Text

KD 161

Canonical Ref: KD 161
Sanskrit (Devanāgarī)
गत्वा च प्रविश्य कन्यकान्तःपुरम्, ततः प्रभृति तद्विरहविधुरा, किमागतास्मि, किं तत्रैव स्थितास्मि, किमेकाकिन्यस्मि, किं परिवृतास्मि, किं तूष्णीमस्मि, किं प्रस्तुतालापास्मि, किं जागर्मि, किं सुप्तास्मि, कानि रम्याणि, कान्यरम्याणीति सर्वमेव नावागच्छम् । अविज्ञातमदनवृत्तान्ता च, क्व गच्छामि, किं करोमि, किं शृणोमि, किं पश्यामि, किमालपामि, कस्य कथयामि, कोऽस्य प्रतीकार इति सर्वं च नाज्ञासिषम् । केवलमारुह्य कुमारीपुरप्रासादम्, विसर्ज्य च सखीजनम्, द्वारि निवारिताशेषपरिजनप्रवेशा, सर्वव्यापारानुत्सृज्य, एकाकिनी मणिजालगवाक्षनिक्षिप्तमुखी, तामेव दिशं तत्सनाथतया प्रसाधितामिव पूर्णचन्द्रोदयालङ्कृतामिव दर्शनसुभगामीक्षमाणा, तस्माद्दिगन्तरादागच्छन्तमनिलमपि वनकुसुमपरिमलमपि शकुनिध्वनिमपि तद्वार्तां प्रष्टुमीहमाना, तद्वल्लभतया तपःक्लेशायापि स्पृहयन्ती, तत्परिग्रहान्मुनिवेषस्याग्राम्यतां तच्छ्रवणसंपर्कात् पारिजातकुसुमस्य मनोहरतां तन्निवासात् सुरलोकस्य रम्यतामध्यारोपयन्ती, दूरस्थस्यापि कमलिनीव सवितुस्तस्यैवाभिमुखी, तथैव तामक्षावलीं कण्ठेनोद्वहन्ती, तथैव च तया कर्णलग्नया पारिजातमञ्जर्या कण्टकितैककपोलफलका, निस्पन्दमतिष्ठम् ॥
Canonical CTS URN Reference
Kādambarīsaṅgraha, KD 161. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KD 160) All Verses in Chapter 1 Next Verse (KD 162) →