Skip to main content
Search
Ch. 1 KD 1.162
Full Chapter
KD • Chapter 1: Complete Text

KD 162

Canonical Ref: KD 162
Sanskrit (Devanāgarī)
अथ ताम्बूलकरङ्कवाहिनी मदीया तरलिका नाम मयैव सह गता स्नातुमासीत्। सा च पश्चाच्चिरादिवागत्य, तथावस्थितां शनैर्मामवादीत् — “ भर्तृदारिके, यौ तौ तापसकुमारकौ दिव्याकारावस्माभिरच्छोदसरस्तीरे दृष्टौ, तयोरेकः, येन भर्तृदुहितुरियमवतंसीकृता सुरतरुकुसुममजुरी, स तस्माद्द्वितीयादात्मनो रक्षन् दर्शनम्, अतिनिभृतपदः, कुसुमितलतासंतानगहनान्तरेणापसृत्य मामागच्छन्तीं पृष्ठतः, भर्तृदारिकामुद्दिश्याप्राक्षीत् — ‘ बालिके, केयं कन्यका, कस्य वापत्यम्, किमभिधाना, क्व गच्छति ’ इति । मयोक्तम् — ‘ एषा खलु गन्धर्वाधिपतेर्हंसस्य दुहिता महाश्वेता नाम गन्धर्वाधिवासं हेमकूटाचलमभिप्रस्थिता ’ इति कथिते च मया, किमपि चिन्तयन्मुहूर्तमिव तृष्णीं स्थित्वा, विगतनिमषेण चक्षुषा चिरमभिवीक्षमाणो माम्, सानुनयमर्थितामिव दर्शयन्पुनराह — ‘ बालिके, कल्याणिनी तवाविसंवादिन्यचपला बालभावेऽप्याकृतिरियम्। तत्करोषि मे वचनमेकमभ्यर्थ्यमाना ’ इति । ततो मया सविनयमुपरचिताञ्जलिपुटया दर्शितादरमभिहितः — ‘ भगवन्, कस्मादेवमाभिधत्से । काहम् । महात्मानः सकलत्रिभुवनपूजनीयास्त्वादृशाः पुण्यैर्विना निखिलकल्मषापहारिणीमस्मद्विधेषु दृष्टिमपि न पातयन्ति, किं पुनराज्ञाम् । तद्विस्रब्धमादिश्यतां कर्तव्यम् । अनुगृह्यतामयं जनः ’ इत्येवमुक्तश्च मया सस्नेहया, सखीमिवोपकारिणीमिव प्राणप्रदामिव दृष्ट्या मामभिनन्द्य, निकटवर्तिनस्तमालपादपात् पल्लवमादाय, निष्पीड्य शिलातले, तेन रसेनोत्तरीयवल्कलैकदेशाद्विपाट्य पट्टिकां स्वहस्तकमलकनिष्ठिकानखशिखरेणाभिलिख्य, ‘ इयं पत्रिका त्वया तस्यै कन्यकायै प्रच्छन्नमेकाकिन्यै देया ’ इत्यभिधायार्पितवान् ” इत्युक्त्वा च सा, ताम्बूलभाजनादाकृष्य तामदर्शयत् ।
Canonical CTS URN Reference
Kādambarīsaṅgraha, KD 162. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KD 161) All Verses in Chapter 1 Next Verse (KD 163) →