Skip to main content
Search
Ch. 1 KD 1.178
Full Chapter
KD • Chapter 1: Complete Text

KD 178

Canonical Ref: KD 178
Sanskrit (Devanāgarī)
अहं तु तदाकर्ण्य, सुखामृतमये ह्रद इव निमग्ना, सर्वानन्दानामुपरि वर्तमाना, सर्वमनोरथानामग्रमिवाधिरूढा, तत्कालोपजातया लज्जया किञ्चिदवनम्यमानवदनत्वादस्पृष्टकपोलोदरैः आनन्दबाष्पजलबिन्दुभिः स्रवद्भिरावेद्यमानप्रहर्षप्रसङ्गा तत्क्षणमचिन्तयम् — ‘ दिष्ट्या तावदयमनङ्गो मामिव तमप्यनुबध्नाति । यत्मत्यमतेन मे सन्तापयताप्यंशेन दर्शितानुकूलता । यदि च सत्यमेव तस्येदृशी दशा वर्तते, ततः किमिव नोपकृतमनेन । किं वा नोपपादितम् । को वानेनापरः समानो बन्धुः । कथं वा कपिञ्जलस्य स्वप्नेऽपि वितथा भारती प्रशान्ताकृतेरस्माद्वदनान्निष्क्रामति । इत्थंभूते किं मयापि प्रतिपत्तव्यम् । तस्य वा पुरः किमभिधातव्यम् ’ इत्येवं विचारयन्तीमेव प्रविश्य ससंभ्रमा प्रतीहारी मामकथयत् — ‘ भर्तृदारिके, त्वमस्वस्थशरीरेति परिजनादुपलभ्य महादेवी प्राप्ता ’ इति । तच्च श्रुत्वा कपिञ्जलो महाजनसमर्दभीरुः सत्वरमुत्थाय, ‘ राजपुत्रि, महानयमुपस्थितः कालातिपातः । भगवांश्च भुवनत्रयचूडामणिरस्तमयमुपगच्छति दिवसकरः । तद्गच्छामि । सर्वधाभिमतसुहृत्प्राणरक्षादक्षिणार्थमयमुपरचितोऽञ्जलिः । एष मे परमो विभवः ’ इत्यभिधाय, प्रतिवचनकालमप्रतीक्ष्यैव, पुरोयायिनाम्बायाः परिजनेन सर्वतः संरुद्धे द्वारदेशे कथमप्यवाप्तनिर्गमः प्रययौ । अम्बा तु मत्समीपमागत्य सुचिरं स्थित्वा स्वभवनमयासीत्। तया तु तत्रागत्य किं कृतम्, किमभिहितम् किमाचेष्टितम्, इति शून्यहृदया सर्वं नालक्षयम् ॥
Canonical CTS URN Reference
Kādambarīsaṅgraha, KD 178. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KD 177) All Verses in Chapter 1 Next Verse (KD 179) →