Skip to main content
Search
Ch. 1 KD 1.177
Full Chapter
KD • Chapter 1: Complete Text

KD 177

Canonical Ref: KD 177
Sanskrit (Devanāgarī)
पुनश्चाचिन्तयम् — ‘ किमनया ध्यातया निष्प्रयोजनया चिन्तया । प्राणास्तावदस्य येन केनचिदुपायेन शुभेनाशुभेन वा रक्षणीयाः । तेषां च तत्समागममेकमपहाय नास्त्यपरः संरक्षणोपायः । बालभावादप्रगल्भतया च तपोविरुद्धमनुचितमुपहासमिवात्मनो मदनव्यतिकरं मन्यमानो नियतमेकोच्छ्वासावशेषजीवितोऽपि नायं तस्याः स्वयमभिगमनेन पूरयति मनोरथम् । अकालान्तरक्षमश्चायमस्य मदनविकारः। सततमतिगर्हितेनाकृत्येनापि रक्षणीयान्मन्यन्ते सुहृदसून् साधवः । तदतिह्रेपणमकर्तव्यमप्येतदसमाकम् अवश्यकर्तव्यतामापतितम् । किं चान्यत्क्रियते । का चान्या गतिः। सर्वथा प्रयामि तस्याः सकाशम् । आवेदयाम्येतामवस्थाम् ’ इति चिन्तयित्वा, कदाचिदनुचितव्यापारप्रवृत्तं मां विज्ञाय सञ्जातलज्जो निवारयेदित्यनिवेद्यैव तस्मै, तत्प्रदेशात्सव्याजमुत्थायागतोऽहम् । तदेवमवस्थिते यदत्रावसरप्राप्तम्, ईदृशस्य चानुरागस्य सदृशम्, अस्मदागमनस्य चानुरूपम्, आत्मनो वा समुचितम्, तत्र प्रभवति भवती ’ इत्यभिधाय, किमियं वक्ष्यतीति मन्मुखासक्तदृष्टिस्तूष्णीमासीत् ॥
Canonical CTS URN Reference
Kādambarīsaṅgraha, KD 177. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KD 176) All Verses in Chapter 1 Next Verse (KD 178) →