Skip to main content
Search
Ch. 1 KD 1.152
Full Chapter
KD • Chapter 1: Complete Text

KD 152

Canonical Ref: KD 152
Sanskrit (Devanāgarī)
आसीच्च मम मनसि — “ शान्तात्मनि दूरीकृतविषयव्यतिकरेऽस्मिञ्जने मां निक्षिपता किमिदमनार्येणासदृशमारब्धं मनसिजेन । एवं च नामातिमूढं हृदयमङ्गनाजनस्य । यदनुरागविषययोग्यतामपि विचारयितुं नालम् । क्वेदमतिभास्वरं धाम तेजसां तपसां च । क्व च प्राकृतजनाभिनन्दितानि मन्मथपरिस्पन्दितानि । नियतमयं मामेवं मकरलाञ्छनेन विडम्ब्यमानामुपहसति मनसा । चित्रं चेदम्यदहमेवमवगच्छन्त्यपि न शक्नोम्यात्मनो विकारमुपसंहर्तुम् । कथमनेन क्षणेनाकारमात्रालोकन आकुलीभूतमेवम् अस्वतन्त्रतामुपैत्यन्तःकरणम् । यावदेव सचेतनास्मि, यावदेव च न परिस्फुटमनेन विभाव्यते मे मदनदुश्चेष्टितलाघवमेतत्, तावदेवास्मात् प्रदेशादपसर्पणं श्रेयः । कदाचिदनभिमतस्मरविकारदर्शनकुपितोऽयं शापाभिज्ञां करोति माम् । अदूरकोपा हि मुनिजनप्रकृतिः ” इत्यवधार्य, अपसर्पणाभिलाषिण्यहमभवम् । अशेषजनपूजनीया चेयं जातिरिति कृत्वा तस्मै प्रणाममकरवम् ॥
Canonical CTS URN Reference
Kādambarīsaṅgraha, KD 152. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KD 151) All Verses in Chapter 1 Next Verse (KD 153) →