Skip to main content
Search
Ch. 1 KD 1.44
Full Chapter
KD • Chapter 1: Complete Text

KD 44

Canonical Ref: KD 44
Sanskrit (Devanāgarī)
तस्य चैवंविधस्य मध्यभागमण्डलमलङ्कुर्वाणस्य रक्ताशोकतरोरधश्छायायाम् उपविष्टम्, आयामिनीभिः पलितपाण्डुराभिरमरलोकमारोढुं पुण्यरज्जुभिरिवोपसंगृहीताभिर्जटाभिरुपशोभमानम्, अतिचपलानामिन्द्रियाश्वानामन्तःसंयमनरज्जुभिरिवातताभिः कण्ठनाडीभिः निरन्तरसंबद्धकंधरम्, स्थैर्येणाचलानां गाम्भीर्येण सागराणां तेजसा सवितुः संविभागमिव कुर्वाणम्, वैनतेयमिव स्वप्रभावोपात्तद्विजाधिपत्यम्, शंतनुमिव प्रियसत्यव्रतम्, भगवन्तं जाबालिमपश्यम् ॥
Canonical CTS URN Reference
Kādambarīsaṅgraha, KD 44. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KD 43) All Verses in Chapter 1 Next Verse (KD 45) →