Skip to main content
Search
Ch. 1 KD 1.58
Full Chapter
KD • Chapter 1: Complete Text

KD 58

Canonical Ref: KD 58
Sanskrit (Devanāgarī)
एवं तस्य राज्ञो मन्त्रिविनिवेशिनराज्यभारस्य यौवनसुखमनुभवतः कालो जगाम । भूयसा च कालेनान्येषामपि जीवलोकसुखानां प्रायः सर्वेषामन्तं ययौ । एकं तु सुतमुखदर्शनसुखं न लेभे । यथा यथा च यौवनमतिचक्राम, तथा तथा विफलमनोरथस्यानपत्यताजन्मावर्धतास्य संतापः । नरपतिसहस्रपरिवृतमप्यसहायमिव, चक्षुष्मन्तमप्यन्धमिव, आत्मानममन्यत ॥
Canonical CTS URN Reference
Kādambarīsaṅgraha, KD 58. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KD 57) All Verses in Chapter 1 Next Verse (KD 59) →