Skip to main content
Search
Ch. 1 KD 1.29
Full Chapter
KD • Chapter 1: Complete Text

KD 29

Canonical Ref: KD 29
Sanskrit (Devanāgarī)
अनन्तरं च सरभसमितो गजयूथपतिलुलितकमलिनीपरिमलः, इतः क्रोडकुलदश्यमानभद्रमुस्तारसामोदः, इतो वनमहिषविषाण कोटिकुलिशभिद्यमानवल्मीकधूलिः, इतो वनगजकुलम्, इतो वनमहिषवृन्दम्, इतो मृगपतिनखभिद्यमानकुम्भकुञ्जररसितम्, इयमार्द्रपङ्कमलिना वराहपद्धतिः, इयमभिनवशष्पकबलरसश्यामला हरिणरोमन्थफेनसंहतिः, एषा निपतितरुधिरबिन्दुसिक्तशुष्कपत्रपाटला रुरुपदवी, एष नखकोटिविलिखितविकटपत्रलेखो रुधिरपाटलः करिमौक्तिकदलदन्तुरो मृगपतिमार्गः, इयमटवीवेणिकानुकारिणी पक्षचरस्य यूथपतेर्मदजलमलिना संचारवीथी, चमरीपङ्कतिरियमनुगम्यताम्, त्वरिततरमध्यास्यतामियं वनस्थली, तरुशिखरमारुह्यताम्, आलोक्यतां दिगियम्, आकर्ण्यतामयं शब्दः, गृह्यतां धनुः, अवहितैः स्थीयताम्, विमुच्यन्तां श्वानः, इत्यन्योन्यमभिवदतो मृगयासक्तस्य महतो जनसमूहस्य तरुगहनान्तरितविग्रहस्य क्षोभितकाननं कोलाहलमशृणवम् ॥
Canonical CTS URN Reference
Kādambarīsaṅgraha, KD 29. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KD 28) All Verses in Chapter 1 Next Verse (KD 30) →