Skip to main content
Search
Full Chapter
KD • Chapter 1: Complete Text

KD 5

Canonical Ref: KD 5
Sanskrit (Devanāgarī)
एकदा तु नातिदूरोदिते भगवति सहस्रमरीचिमालिनि राजानम् आस्थानमण्डपगतम् अङ्गनाजनविरुद्धेन वामपार्श्व-अवलम्बिना कौक्षेयकेण भीषणरमणीयाकृतिः प्रतीहारी समुपसृत्य क्षितितल-निहित-जानु-कर-कमला सविनयम् अब्रवीत्‌ — “ देव, द्वारस्थिता सुरलोकम् आरोहतः त्रिशङ्कुरिव कुपित-शतमख-हुंकार-निपातिता राजलक्ष्मीः दक्षिणापथादागता चाण्डालकन्यका पञ्जरस्थं शुकमादाय देवं विज्ञापयति — ‘ सकल-भुवनतल-सर्वरत्नानाम् उदधिरिव एकभाजनं देवः । विहङ्गमश्चायम् आश्चर्यभूतो निखिलभुवनतलरत्नम् इति कृत्वा देवपादमूलम् आदाय आगताहम् इच्छामि देवदर्शनसुखम् अनुभवितुम्‌ ’ इति । एतदाकर्ण्य देवः प्रमाणम्‌ ” इत्युक्त्वा विरराम । उपजातकुतूहलस्तु राजा समीपवर्तिनां राज्ञामालोक्य मुखानि ‘ को दोषः । प्रवेश्यताम् ’ इत्यादिदेश ॥
Canonical CTS URN Reference
Kādambarīsaṅgraha, KD 5. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KD 4) All Verses in Chapter 1 Next Verse (KD 6) →