Skip to main content
Search
Ch. 1 KD 1.221
Full Chapter
KD • Chapter 1: Complete Text

KD 221

Canonical Ref: KD 221
Sanskrit (Devanāgarī)
प्रणयिजनप्रत्याख्यानपराङ्मुखी च दाक्षिण्यपरवती महत्ता सताम् । न च तादृशी भवति याचमानानाम्, यादृशी ददतां लज्जा । यत्सत्यममुना व्यतिकरेण कृतापराधमिव त्वय्यात्मानमवगच्छति कादम्बरी । तदयममृतमथनसमुद्भूतानां सर्वरत्नानामेकः शेष इति शेषनामा हारोऽमुनैव हेतुना बहुमतो भगवताम्भसां पत्या गृहमुपगताय प्रचेतसे दत्तः, पाशभृतापि गन्धर्वराजाय, गन्धर्वराजेनापि कादम्बर्यै तयापि त्वद्वपुरस्यानुरूपमाभरणस्येति विभावयन्त्या, नभःस्थलमेवोचितं सुधासूतेर्धाम न धरेत्यवधार्यानुप्रेषितः । यद्यपि निजगुणगणाभरणभूषिताङ्गयष्टयो भवादृशाः क्लेशहेतुम् इतरजनबहुमतमाभरणभारमङ्गेषु नारोपयन्ति, तथापि कादम्बरीप्रीतिरत्र कारणम् । किं न कृतमुरसि शिलाशकलं कौस्तुभाभिधानं लक्ष्म्याः सहजमिति बहुमानमाविष्कुर्वता भगवता शार्ङ्गपाणिना । न च नारायणोऽत्रभवन्तमतिरिच्यते । नापि कौस्तुभमणिरणुनापि गुणलवेन शेषमतिशेते । न चापि कादम्बरीमाकारानुकृतिकलयाप्यल्पीयस्या लक्ष्मीरनुगन्तुमलम् । अतोऽर्हतीयमिमं बहुमानं त्वत्तः । न चाभूमिरेषा प्रीतिप्रसरस्य । नियतं च भवता भग्नप्रणया महाश्वेतामुपालम्भसहस्रैः खेदयित्वा स्वात्मानमुत्स्रक्ष्यति । अत एव महाश्वेता तरलिकामपीमं हारमादाय त्वत्सकाशं प्रेषितवती । तयापि कुमारस्य संदिष्टमेव — न खलु महाभागेन मनसापि कार्यः कादम्बर्याः प्रथमप्रणयप्रसरभङ्गः ” इत्युक्त्वा, तं तस्य वक्षःस्थले बबन्ध ॥
Canonical CTS URN Reference
Kādambarīsaṅgraha, KD 221. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KD 220) All Verses in Chapter 1 Next Verse (KD 222) →