Skip to main content
Search
Ch. 1 KD 1.222
Full Chapter
KD • Chapter 1: Complete Text

KD 222

Canonical Ref: KD 222
Sanskrit (Devanāgarī)
चन्द्रापीडस्तु विस्मयमानः प्रत्यवादीत् — “ मदलेखे, किमुच्यते । निपुणासि । जानासि ग्राहयितुम् । उत्तरावकाशमपहरन्त्या कृतं वचसि कौशलम् । अयि मुग्धे, के वयमात्मनः । के वा वयं ग्रहणस्याग्रहणस्य वा । गता खल्वियमस्तं कथा। सौजन्यशालिनीभिः भवतीभिः उपकरणीकृतोऽयं जनो यथेष्टमिष्टेष्वनिष्टेषु वा व्यापारेषु विनियुज्यताम् । अतिदक्षिणायाः खलु देव्याः कादम्बर्याः निर्दाक्षिण्यमपि गुणा न कंचिन्न दासीकुर्वन्ति ” इत्युक्त्वा च, कादम्बरीसंबद्धाभिरेव कथाभिः सुचिरं स्थित्वा, विसर्जयाम्बभूव मदलेखाम् । अनतिदूरं गतायां च तस्याम्, क्रीडापर्वतकगतमुदयगिरिगतमिव चन्द्रमसं चन्दनदुकूलहारधवलं चन्द्रापीडं द्रष्टुमुत्सारितवेत्रच्छत्रचामरचिह्ना निषिद्धाशेषपरिजनानुगमना, तमालिकाद्वितीया, चित्ररथसुता पुनरपि तदेव सौधशिखरमारुरोह । तत्रस्था च पुनस्तथैव विविधविलासतरङ्गितैर्विकारिविलोकितैः जहारास्य मनः॥
Canonical CTS URN Reference
Kādambarīsaṅgraha, KD 222. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KD 221) All Verses in Chapter 1 Next Verse (KD 223) →