Skip to main content
Search
Ch. 1 KD 1.231
Full Chapter
KD • Chapter 1: Complete Text

KD 231

Canonical Ref: KD 231
Sanskrit (Devanāgarī)
अथ चन्द्रापीड: ‘महाश्वेताचरणाराधनतपःफलमिदम्, यदेवं परिजनेऽप्यनुस्मरणादिकं प्रसादभारमतिमहान्तमारोपयति देवी कादम्बरी ’ इत्युक्त्वा, तत्सर्वं शिरसि कृत्वा, स्वयमेव जग्राह । तेन च स्पर्शवता ह्लादिना सुरभिणा विलेपनेन विलिप्य, तमेव कण्ठे हारमकरोत् । आगृहीतताम्बूलश्च, मुहूर्तादिवोत्थाय, वामबाहुना स्कन्धदेशे समवलम्ब्य केयूरकम्, शनैः शनैर्गन्धमादनं करिणं द्रष्टुमयासीत् । तत्र च स्थित्वा क्षणमिव, तस्मै स्वयमेव शष्पकबलमवकीर्य, वल्लभतुरङ्गमन्दुराभिमुखः प्रतस्थे । गच्छंश्चोभयतः किंचित्किंचिदिव तिर्यग्वलितवदनः परिजनं विलोकयांबभूव ॥
Canonical CTS URN Reference
Kādambarīsaṅgraha, KD 231. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KD 230) All Verses in Chapter 1 Next Verse (KD 232) →