Skip to main content
Search
Ch. 1 KD 1.235
Full Chapter
KD • Chapter 1: Complete Text

KD 235

Canonical Ref: KD 235
Sanskrit (Devanāgarī)
अथ सा यथादर्शनमागत्यागत्य चन्द्रापीडागमनमावेदयन्तं परिजनमत्तरलतारकेण चक्षुषा — ‘ कथय, किं सत्यमागतः ? दृष्टस्त्वया ? कियत्यध्वनि ? क्वासौ ' इति प्रतिमुखं निक्षिप्तेनानक्षरं पप्रच्छ । प्रवर्धमानधवलिम्ना चक्षुषा दृष्ट्वा च संमुखमापतन्तं तम्, दूरादेव वरारोहा संभ्रमच्युतोत्तरीयका, मणिकुट्टिमनिहितेन वामकरतलेन हस्तावलम्बनं निजप्रतिमामिव याचमाना, स्रस्तकेशकलापसंयमनश्रमितेन गलत्स्वेदसलिलेन दक्षिणकरेण समभ्युक्ष्येवात्मानमर्पयन्ती, चक्षुषा क्षरन्ती शिशिरमानन्दजलम्, किञ्चिदधोमुखी, तत्क्षणमपाङ्गभागपुञ्जिततारकया तन्मुखलग्नयेव दीर्घया दृष्टयाकृष्यमाणा, कुसुमशयनादुत्तस्थौ । चन्द्रापीडस्तु समुपसृत्य पूर्ववदेव तां महाश्वेताप्रणामपुरःसरं दर्शितविनयः प्रणनाम । कृतप्रतिप्रणामायां च तस्यां पुनस्तस्मिन्नेव कुसुमशयने समुपविष्टायाम्, प्रतीहार्या समुपनीतां जाम्बूनदमयीमासन्दिकां पादेनैवोत्सार्य, क्षितावेवोपाविशत् ॥
Canonical CTS URN Reference
Kādambarīsaṅgraha, KD 235. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KD 234) All Verses in Chapter 1 Next Verse (KD 236) →