Skip to main content
Search
Ch. 1 KD 1.211
Full Chapter
KD • Chapter 1: Complete Text

KD 211

Canonical Ref: KD 211
Sanskrit (Devanāgarī)
परिहासस्तु तस्य नर्मभाषितमाकर्ण्य जगाद — “ धूर्त राजपुत्र, निपुणेयम् । न त्वयान्येन वा लोलापि प्रतारयितुं शक्यते । एषापि बुध्यत एवैतावतीर्वक्रोक्तीः । इयमपि जानात्येव परिहासजल्पितानि । अस्या अपि राजकुलसंपर्कचतुरा मतिः । विरम्यताम् । अभूमिरेषा भुजङ्गभङ्गिभाषितानाम् । इयमेव हि वेत्ति मञ्जुभाषिणी कालं च कारणं च प्रमाणं च विषयं च प्रस्तावं च कोपप्रसादयोः ” इति ॥
Canonical CTS URN Reference
Kādambarīsaṅgraha, KD 211. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KD 210) All Verses in Chapter 1 Next Verse (KD 212) →