Skip to main content
Search
Ch. 1 KD 1.219
Full Chapter
KD • Chapter 1: Complete Text

KD 219

Canonical Ref: KD 219
Sanskrit (Devanāgarī)
कुतूहलाच्चालोकानुसारप्रहितचक्षुः, अद्राक्षीत् अनल्पकन्यकाकदम्बपरिवृताम्, ध्रियमाणधवलातपत्राम्, उद्धूयमानचामरद्वयाम्, कादम्बरीप्रतीहार्या वामपाणिना वेत्रलतागर्भेणार्द्रवस्त्रशकलावच्छन्नमुखं चन्दनानुलेपनसनाथं नालिकेरसमुद्गकमुद्वहन्त्या दक्षिणकरेण दत्तहस्तावलम्बाम्, केयूरकेण च निश्वासहार्ये निर्मोकशुचिनी धौतकल्पलतादुकूले दधता निवेद्यमानमार्गाम्, मालतीकुसुमदामाधिष्ठितकरतलया च तमालिकया अनुगम्यमानामागच्छन्तीं मदलेखाम् ; तस्याश्च समीपे तरलिकाम् ; तया च सितांशुकोपच्छदे पटलके गृहीतम्, सहभुवमिव चन्द्रमसः, हासमिव श्रियः, प्रतिमातारागणमिव जलनिधिजलादुद्धृतम्, यशोराशिमिवैकत्र घटितं सर्वसागराणाम्, शरच्छशिनमिव घनमुक्तांशुनिवहधवलितदिङ्मुखम्, प्रभावर्षिणमतितारं हारम् ॥
Canonical CTS URN Reference
Kādambarīsaṅgraha, KD 219. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KD 218) All Verses in Chapter 1 Next Verse (KD 220) →