त्वचं स मेध्यां परिधाय रौरवीमशिक्षतास्त्त्रं पितुरेव मन्त्रवत् । न केवलं तद्गुरुरेकपार्थिवः क्षितावभूदेकधनुर्धरोऽपि सः ॥
महोक्षतां वत्सतरः स्पृशन्निव द्विपेन्द्रभावं कलभः श्रयन्निव । रघुः क्रमाद्यौवनभिन्नशैशवः पुपोप गाम्भीर्यमनोहरं वपुः ॥
अथास्य गोदानविधेरनन्तरं विवाहदीक्षां निरवर्तयद्गुरुः । नरेन्द्रकन्यास्तमवाप्य सत्पतिं तमोनुदं दक्षसुता इवाबभुः ॥
युवा युगव्यायतबाहुरंसलः कपाटवक्षाः परिणद्धकंधरः । वपुः प्रकर्षादजयद्गुरुं रघुस्तथापि नीचौर्विनयाददृश्यत ॥
ततः प्रजानां चिरमात्मना धृतां नितान्तगुर्वीं लघयिष्यता धुरम् । निसर्गसंस्कारविनीत इत्यसौ नृपेण चक्रे युवराजशब्दभाक् ॥
नरेन्द्रमूलायतनादनन्तरं तदास्पदं श्रीर्युवराजसंज्ञितम् । अगच्छदंशेन गुणाभिलाषिणी नवावतारं कमलादिवोत्पलम् ॥
विभावसुः सारथिनेव वायुना घनव्यपायेन गभस्तिमानिव । बभूव तेनातितरां सुदुःसहः कटप्रभेदेन करीव पार्थिवः ॥
नियुज्य तं होमतुरंगरक्षणे धनुर्धरं राजसुतैरनुद्रुतम् । अपूर्णमेकेन शतक्रतूपमः शतं क्रतूनामपविघ्नमाप सः ॥
ततः परं तेन मखाय यज्वना तुरंगमुत्सृष्टमनर्गलं पुनः । धनुर्भृतामग्रत एव रक्षिणां जहार शक्रः किल गूढविग्रहः ॥
विषादलुप्तप्रतिपत्ति विस्मितं कुमारसैन्यं सपदि स्थितं च तत् । वसिष्ठधेनुश्च यदृच्छयागता श्रुतप्रभावा ददृशेऽथ नन्दिनी ॥
तदङ्गनिस्यन्दजलेन लोचने प्रमृज्य पुण्येन पुरस्कृतः सत्ताम् । अतीन्द्रियेष्वप्युपपन्नदर्शनो बभूव भावेषु दिलीपनन्दनः ॥
स पूर्वतः पर्वतपक्षशातनं ददर्श देवं नरदेवसंभवः । पुनः पुनः सूतनिषिद्धचापलं हरन्तमश्वं रथरश्मिसंयतम् ॥
शतैस्तमक्ष्णामनिमेषवृत्तिभिर्हरिं विदित्वा हरिभिश्च वाजिभिः । अवोचदेनं गगनस्पृशा रघुः स्वरेण धीरेण निवर्तयन्निव ॥
मखांशभाजां प्रथमो मनीषिभिस्त्वमेव देवेन्द्र! सदा निगद्यसे । अजस्रदीक्षाप्रयतस्य मद्गुरोः क्रियाविथाताय कथं प्रवर्तसे ? ॥
त्रिलोकनाथेन सदा मखद्विषस्त्वया नियम्या ननु दिव्यचक्षुषा । स चेत्स्वयं कर्मसु धर्मचारिणां त्वमन्तरायो भवसिच्युतोविधिः ॥
तदङ्गमग्र्यं मघवन्महाक्रतोरमुं तुरंगं प्रतिमोक्तुमर्हसि । पथः श्रुतेर्दर्शयितार ईश्वरा मलीमसामाददते न पद्धतिम् ॥
इति प्रगल्भं रघुणा समीरितं वचो निशम्याधिपतिर्दिवौकसाम् । निवर्तयामास रथं सविस्मयः प्रचक्रमे च प्रतिवक्तुमुत्तरम् ॥
यदात्थ राजन्यकुमार! तत्तथा यशस्तु रक्ष्यं परतो यशोधनैः । जगत्प्रकाशं तदशेषमिज्यया भवद्गुरुर्लङ्घयितुं ममोद्यतः ॥
हरिर्यथैकः पुरुषोत्तमः स्मृतो महेश्वरस्त्त्र्यम्बक एव नापरः । तथा विदुर्मां मुनयः शतक्रतुं द्वितीयगामी न हि शब्द एष नः ॥
अतोऽयमश्वः कपिलानुकारिणा पितुस्त्वदीयस्य मयापहारितः । अलं प्रयत्नेन तवात्र मा निधाः पदं पदव्यां सगरस्य संततेः ॥
ततः प्रहस्यापभयः पुरंदरं पुनर्बभाषे तुरगस्य रक्षिता । गृहाण शस्त्त्रं यदि सर्ग एष ते न खल्वनिर्जित्य रघुं कृती भवान् ॥
स एवमुक्त्वा मघवन्तमुन्मुखः करिष्यमाणः सशरं शरासनम् । अतिष्ठदालीढविशेषशोभिना वपुःप्रकर्षेण विडम्बितेश्वरः ॥
रघोरवष्टम्भमयेन पत्रिणा हृदि क्षतो गोत्रभिदप्यमर्षणः । नवाम्बुदानीकमुहूर्तलाञ्छने धनुष्यमोघं समधत्त सायकम् ॥
दिलीपसूनोः स बृहद्भुजान्तरं प्रविश्य भीमासुरशोणितोचितः । पपावनास्वादितपूर्वमाशुगः कुतूहलेनेव मनुष्यशोणितम् ॥
हरेः कुमारोऽपि कुमारविक्रमः सुरद्विपास्फालनकर्कशाङ्गुलौ । भुजे शचीपत्रविशेषकाङ्किते स्वनामचिह्नं निचखान सायकम् ॥
जहार चान्येन मयूरपत्रिणा शरेण शक्रस्य महाशनिध्वजम् । चुकोप तस्मै स भृशं सुरश्रियः प्रसह्य केशव्यपरोपणादिव ॥
तयोरुपान्तस्थितसिद्धसैनिकं गरुत्मदाशीविषभीमदर्शनैः । बभूव युद्धं तुमुलं जयैषिणोरधोमुखैरूर्ध्वमुखैश्च पत्रिभिः ॥
अतिप्रबन्धप्रहितास्त्त्रवृष्टिभिस्तमाश्रयं दुष्प्रसहस्य तेजसः । शशाक निर्वापयितुं न वासवः स्वतश्च्युतं वह्निमिवाद्भिरम्बुदः ॥
ततः प्रकोष्ठे हरिचन्दनाङ्किते प्रमथ्यमानार्णवधीरनादिनीम् । रघुः शशाङ्कार्धमुखेन पत्रिणा शरासनज्यामलुनाद्बिडौजसः ॥
स चापमुत्सृज्य विवृद्धमत्सरः प्रणाशनाय प्रबलस्य विद्विषः । महीध्रपक्षव्यपरोपणोचितं स्फुरत्प्रभामण्डलमस्त्त्रमाददे ॥