Skip to main content
Search
Ch. 3 RV 3.34
Full Chapter
RV • Chapter 3: Canto 3

RV 3.34

Canonical Ref: RV 3.34
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
युवा युगव्यायतबाहुरंसलः कपाटवक्षाः परिणद्धकंधरः । वपुः प्रकर्षादजयद्गुरुं रघुस्तथापि नीचौर्विनयाददृश्यत ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): युवति॥ युवा। युगो नाम धुर्यस्कन्धगः सच्छिद्रप्रान्तो यानाङ्गभूतो दारुविशेषः। `यानाद्यङ्गे युगः पुंसि युगं युग्मे कृतादिषु` इत्यमरः (अ.को.3|3|30)। युगवद्व्यायतौ दीर्घौ बाहू यस्य सः। अंसावस्य स्त इत्यंसलो बलवान्। मांसलश्चेति वृत्तिकारः। `बलवान्मांसलोंऽसलः` इत्यमरः (अ.को.2|6|44)। `वत्सांसाभ्यां कामबले` (पा.5।2।98) इति लच्प्रत्ययः। कपाटवक्षाः परिणद्धकंधरो विशालग्रीवः। `परिणाहो विशालता` इत्यमरः (अ.को.2|6|115)। रघुर्वपुषः प्रकर्षादाधिक्याद्यौवनकृताद्गुरुं पितरमजयत्। तथापि विनयान्नम्रत्वेन नीचैरल्पकोऽदृश्यत॥ अनौद्धत्यं च विवक्षितम्॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 3.34. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 3.33) All Verses in Chapter 3 Next Verse (RV 3.35) →