Skip to main content
Search
Ch. 3 RV 3.33
Full Chapter
RV • Chapter 3: Canto 3

RV 3.33

Canonical Ref: RV 3.33
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
अथास्य गोदानविधेरनन्तरं विवाहदीक्षां निरवर्तयद्गुरुः । नरेन्द्रकन्यास्तमवाप्य सत्पतिं तमोनुदं दक्षसुता इवाबभुः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ `गौर्नादित्ये बलीवर्दे क्रतुभेदर्षिभेदयोः। स्त्त्री तु स्याद्दिशि भारत्यां भूमौ च सुरभावपि॥ पुंस्त्त्रियोः स्वर्गवज्राम्बुरश्मिदृग्बाणलोमसु॥` इति केशवः। गावो लोमानि केशा दीयन्ते खण्ड्यन्तेऽस्मिन्निति व्युत्पत्त्या गोदानं नाम ब्राह्मणादीनां षोडशादिषु वर्षेषु कर्तव्यं केशान्ताख्यं कर्मोच्यते। तदुक्तं मनुना(2।65)-`केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते। राजन्यबन्धोर्द्वाविंशे वैश्यस्य द्व्यधिके ततः॥` इति। अथ गुरुः पिता। `गुरू गीष्पतिपित्राद्यौ` इत्यमरः। अस्य गोदानविधेरनन्तरं विवाहदीक्षां निरवर्तयत्। कृतवानित्यर्थः। अथ नरेन्द्रकन्यास्तं रघुम्। दक्षस्य सुता रोहिण्यादयस्तमोनुदं चन्द्रमिव। `तमोनुदोऽग्निचन्द्रार्काः` इति विश्वः। सत्पतिमवाप्त्याबभुः। रघुरपि तमोनुत्। अत्र मनुः(3।2)-`वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम्। अविप्लुतब्रह्मचर्ये गृहस्थाश्रममाविशेत्॥` इति॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 3.33. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 3.32) All Verses in Chapter 3 Next Verse (RV 3.34) →