Skip to main content
Search
RV
Raghuvaṁśam • Chapter 03

Canto 3

तृतीयः सर्गः (रघुराज्याभिषेकः)

Canto 3 of Raghuvaṁśam.

Total: 70 Verses • Citations: RV 3.1–70 • 1 Lexicon Terms • Page 1 of 3 (Verses 30 shown)
RV 3.1 वंशस्थम्
अथेप्सितं भर्तुरुपस्थितोदयं सखीजनोद्वीक्षणकौमुदीमुखम् । निदानमिक्ष्वाकुकुलस्य संततेः सुदक्षिणा दौर्हृदलक्षणं दधौ ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ गर्भधारणानन्तरम्। सुदक्षिणा। उपस्थितोदयं प्राप्तकालं भर्तुर्दिलीपस्येप्सितं मनोरथम्। भावे क्तः। पुनः सखीजनस्योद्वीक्षणानां दृष्टीनां कौमुदीमुखं चन्द्रिकाप्रादुर्भावम्। यद्वा, -कौमुदी नाम दीपोत्सपतिथिः। तदुक्तं भविष्योत्तरे-`कौ मोदन्ते जना यस्यां तेनासौ कौमुदी मता` इति। तस्या मुखं प्रारम्भम्। अत एव केचित्-`सखीजनोद्वीक्षणकौमुदीमहम्` इति पाठं पठन्ति। इक्ष्वाकुकुलस्य संतते रविच्छेदस्य निदानं मूलकारणम्। `निदानं त्वादिकारणम्` इत्यमरः (अ.को.1|4|30)। एवंविधं दौर्हृदलक्षणं गम्भचिह्नं वक्ष्यमाणं दधौ। स्वहृदयेन गर्भहृदयेन च द्विहृदया गर्भिणी। यथाह वाग्भटः(अ.हृ.शा.1।52)-`मातृजं ह्यस्य हृदयं मातुश्च हृदयं तु तत्। संबद्धं तेन गर्भिण्याः श्रेष्ठं श्रद्धाभिमाननम्॥` इति। तत्संबन्धित्वाद्गर्भो दौर्हृदमित्युच्यते। सा च तद्योगाद्दौहृदिनीति। तदुक्तं संग्रहे(अ.2)-`द्विहृदयां नारीं दौर्हृदिनीमाचक्षते` इति। अत्र दौर्हृदलक्षणस्येप्सितत्वेन कौमुदीमुखत्वेन च निरूपणाद्रूपकालंकारः। अस्मिन्सर्गे वंशस्थं वृत्तम्-`जतौ तु वंशस्थमुदीरितं जरौ` इति लक्षणात् ॥
RV 3.2 वंशस्थम्
शरीरसादादसमग्रभूषणा मुखेन सालक्ष्यत लोध्रपाण्डुना । तनुप्रकाशेन विचेयतारका प्रभातकल्पा शशिनेव शर्वरी ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): शरीरेति॥ शरीरस्य सादात् काश्यादसमग्रभूषणा परिमिताभरणा लोध्रपुष्पवत् पाण्डुना मुखेनोपलक्षिता सा सुदक्षिणा। विचेया मृग्यास्तारका यस्यां सा तथोक्ता। विरलनक्षत्रेत्यर्थः। तनुप्रकाशेनाल्पकान्तिना शशिनोपलक्षितेषदसमाप्तप्रभाता प्रभातकल्पा। प्रभातादीषदूनेत्यर्थः। `तसिलादिष्वा कृत्वसुचः` (पा.6।3।35) इति `प्रभात`शब्दस्य पुंवद्भावः। शर्वरी रात्रिरिव। अलक्ष्यत। शरीरसादादिगर्भलक्षणमाह वाग्भटः(अ.हृ.शा1।50)-`क्षामता गरिमा कुक्षेमूर्च्छा छर्दिररोचकम्। जृम्भा प्रसेकः सदनं रोमराज्याः प्रकाशनम्॥` इति ॥
RV 3.3 वंशस्थम्
तदाननं मृत्सुरभि क्षितीश्वरो रहस्युपाघ्राय न तृप्तिमाययौ । करीव सिक्तं पृषतैः पयोमुचां शुचिव्यपाये वनराजिपल्वलम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तदिति॥ क्षितीश्वरो रहसि मृत्सुरभि मृदा सुगन्धि तस्या आननं तदाननं सुदक्षिणामुखमुपाघ्राय तृप्तिं नाययौ। कः कमिव? शुचिव्यपाये प्रीष्मावसाने। `शुचि शुद्धेऽनुपहते शृङ्गाराषाढयोः सिते। ग्रीष्मे हुतवहेऽपि स्यादुपधाशुद्धमन्त्त्रिणी॥` इति विश्वः। पयोमुचां मेघानां पृषतैर्बिन्दुभिः। `पृषन्ति बिन्दुपृषताः` इत्यमरः (अ.को.1|10|6)। सिक्तमुक्षितं वनराज्याः पल्वलमुपाघ्राय करी गज इव । अत्र करिवनराजिपल्वलानां कान्तकामिनीवदनसमाधिरनुसंधेयः। गर्भिणीनां मृद्भक्षणं लोकप्रसिद्धमेव। एतेन दोहदाख्यं गर्भलक्षणमुच्यते ॥
RV 3.4 वंशस्थम्
दिवं मरुत्वानिव भोक्ष्यते भुवं दिग विश्रान्तरथो हि तत्सुतः । अतोऽभिलाषे प्रथमं तथाविधे मनो बवन्धान्यरसान्विलङ्घ्य सा ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): दिवमिति॥ हि यस्माद्दिगन्तविश्रान्तरथश्चक्रवर्ती तस्याः सुतस्तत्सुतः। मरुत्वानिन्द्रः। `इन्द्रो मरुत्वान्मघवा` इत्यमरः (अ.को.1|1|51)। दिवं स्वर्गमिव। भुवं भोक्ष्यते। `भुजोऽनवने` (पा.1।3।36)इत्यात्मनेपदम्। अतः प्रथमं सा सुदक्षिणा तथा मृद्रूपे। अभिलष्यत इत्यभिलाषो भोग्यवस्तु। कर्मणि घञ्प्रत्ययः। रस्यन्ते स्वाद्यन्तविधे भूविकारे इति रसा भोग्यार्थाः। अन्ये च ते रसाश्च तान्विलङ्घ्य विहाय मनो बबन्ध। विदधावित्यर्थः। दोहदहेतुकस्य मृद्भक्षणस्य पुत्रभूभोगसूचनार्थत्वमुत्प्रेक्षते ॥
RV 3.5 वंशस्थम्
न मे ह्रिया शंसति किंचिदीप्सितं स्पृहावती वस्तुषु केषु मागधी । इति स्म पृच्छत्यनुवेलमादृतः प्रियासखीरुत्तरकोसलेश्वरः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): नेति॥ मगधस्य राज्ञोऽपत्यं स्त्त्री मागधी सुदक्षिणा। `व्द्यञ्मगधकलिङ्गसूरमसादण्` (पा.4।1।170)इत्यण्प्रत्ययः। ह्रिया किंचित्किमपीप्सितमिष्टं मे मह्यं न शंसति नाचष्टे। केषु वस्तुषु स्पृहावतीत्यनुवेलमनुक्षणमादृत आदृतवान्। कर्तरि क्तः। `आदृतौ सादरार्चितौ` इत्यमरः (अ.को.3|3|92)। प्रियायाः सखीः सहचरीरुत्तरकोसलेश्वरो दिलीपः पृच्छति स्म पप्रच्छ। `लट् स्मे` (पा.3।2।118) इत्यनेन भूतार्थे लट्। सखीनां विश्रम्भभूमित्वादिति भावः ॥
RV 3.6 वंशस्थम्
उपेत्य सा दोहददुःखशीलतां यदेव वव्रे तदपश्यदाहृतम् । न हीष्टमस्य त्रिदिवेऽपि भूपतेरभूदनासाद्यमधिज्यधन्वनः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): उपत्येति॥ दोहदं गर्भिणीमनोरथः। `दोहदं दौर्हृदं श्रद्धा लालसं च समं स्मृतम्` इति हलायुधः। सा सुदक्षिणा दोहदेन गर्भिणीमनोरथेन दुःखशीलतां दुःखस्वभावतामुपेत्य प्राप्य यद्वस्तु वव्र आचकाङ्क्ष तदाहृतमानीतम्। भर्त्रेति शेषः। अपश्यदेव। अलभतेत्यर्थः। कुतः? हि यस्मादस्य भूपतेस्त्त्रिदिवेऽपि स्वर्गेऽपीष्टं वस्त्वनासाद्यमनवाप्यं नाभूत्। किं याञ्चया? नेत्याह-अधिज्यधन्वन इति। न हि वीरपत्नीनामलभ्यां नाम किंचिदस्तीति भावः। अत्र वाग्भटः (अ.हृ.शा।1।52)`पादशोफो विदाहोऽन्ते श्रद्धा च विवधात्मिका`इति। एतञ्च पत्मीमनोरथपूरणाकरणे दृष्टदोषसंभवात्, न तु राज्ञः प्रीतिलौल्यात्। तदुक्तम्(अ.हृ.शा.1।53)-`देयमप्यहितं तस्यै हिताय हितमल्पकम्। श्रद्धाविघाते गर्भस्य विकृतिश्च्युतिरेव वा`॥ अन्यत्र च-`दोहदस्याप्रदानेन गर्भो दोषमवाप्नुयात्` इति ॥
RV 3.7 वंशस्थम्
क्रमेण निस्तीर्य च दोहदव्यथां प्रचीयमानावयवा रराज सा । पुराणपत्रापगमादनन्तरं लतेव संनद्धमनोज्ञपल्लवा ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): क्रमेणेति॥ सा सुदक्षिणा क्रमेण दोहदव्यथां च निस्तीर्य प्रचीयमानावयवा पुष्यमाणावयवा सती। पुराणपत्राणामपगमान्नाशादनन्तरं संनद्धाः संजाताः प्रत्यग्रत्बान्मनोज्ञाः पल्लवा यस्याः सा लतेव। रराज ॥
RV 3.8 वंशस्थम्
दिनेषु गच्छत्सु नितान्तपीवरं तदीयमानीलमुखं स्तनद्वयम् । तिरश्चकार भ्रमराभिलीनयोः सुजातयोः पङ्कजकोशयोः श्रियम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): दिनेष्विति॥ दिनेषु दोहददिवसेषु गच्छत्सु सत्सु नितान्तपीवरमतिस्थूलम्। आ समन्तान्नीले मुखे चूचुके यस्य तत्। तदीयं स्तनद्वयम्। भ्रमरैरभिलीनयोरभिव्याप्तयोः सुजातयोः सुन्दरयोः पङ्कजकोशयोः पद्ममुकुलयोः श्रियं तिरश्चकार। अत्र वाग्भटः(अ.हृ.शा 1।51)-`अम्लेष्टता स्तनौ पीनौ श्वेतान्तौ कृष्णचूचुकौ` इति ॥
RV 3.9 वंशस्थम्
निधानगर्भामिव सागराम्बरां शमीमिवाभ्यन्तरलीनपावकाम् । नदीमिवान्तःसलिलां सरस्वतीं नृपः ससत्त्वां महिषीममन्यत ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): निधानेति॥ नृपः ससत्त्वामापन्नसत्त्वाम्। गर्भिणीमित्यर्थः। `आपन्नसत्त्वा स्याद्गुर्विण्यन्तर्वत्नी च गर्भिणी` इत्यमरः (अ.को.2|6|22)। महिषीम्। निधानं निधिर्गर्भे यस्यास्तां सागराम्बरां समुद्रवसनाम्। भूमिमिवेत्यर्थः;`भूतधात्री रत्नगर्भा विपुला सागराम्बरा` इति कोशः। अभ्यन्तरे लीनः पावको यस्यास्तां शमीमिव। शमीतरौ वह्निरस्तीत्यत्र लिङ्गं-शमीगर्भादग्निं मथ्नन्तीति। अन्तः सलिलामन्तर्गतजलां सरस्वतीं नदीमिव। अमन्यत। एतेन गर्भस्य भाग्यवत्त्व-तेजस्वित्व-पावनत्वानि विवक्षितानि ॥
RV 3.10 वंशस्थम्
प्रियानुरागस्य मनः समुन्नतेर्भुजार्जितानां च दिगन्तसंपदाम् । यथाक्रमं पुंसवनादिकाः क्रिया धृतेश्च धीरः सदृशीर्व्यधत्त सः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): प्रियेति॥ धीरः स राजा प्रियायामनुरागस्य स्नेहस्य । मनसः समुन्नतेरौदार्यस्य। भुजेन भुजबलेन करेण वाऽर्जितानाम्, न तु वाणिज्यादिना। दिगन्तेषु संपदाम्। धृत्तेः पुत्रो मे भविष्यतीति संतोषस्य च, `धृतिर्योगान्तरे धैर्ये धारणाध्वरतुष्टिषु` इति विश्वः। सदृशीरनुरूपाः। पुमान् सूयतेऽनेनेति पुंसवनम्। तदादिर्यासां ताः क्रिया यथाक्रमं क्रममनतिक्रम्य व्यधत्त कृतवान्। `आदि`- शब्देनानवलोभनसीमन्तोन्नयने गृह्येते। अत्र मासि द्वितीये तृतीये वा पुंसवनम्। `यदहः पुंसा नक्षत्रेण चन्द्रमा युक्तः स्यात्` (1।16।3) इति पारस्करः। `चतुर्थेऽनवलोभनम्`(1।14) इत्याश्वलायनः । `षष्ठेऽष्टमे वा सीमन्तोन्नयनं` (आचार.11) इति याज्ञवल्क्यः ॥
RV 3.11 वंशस्थम्
सुरेन्द्रमात्राश्रितगर्भगौरवात्प्रयत्नमुक्तासनया गृहागतः । तयोपचाराञ्जलिखिन्नहस्तया ननन्द पारिप्लवनेत्रया नृपः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): सुरेन्द्रेति॥ गृहागतो नृपः सुरेन्द्राणां लोकपालानां मात्राभिरंशैराश्रितस्यानुप्रविष्टस्य गर्भस्य गौरवाद्भारात् प्रयत्नेन मुक्तासनया। आसनादुत्थितयेत्यर्थः। उपचारस्याञ्जलावञ्जलिकरणे खिन्नहस्तया पारिप्लवनेत्रया तरलाक्ष्या। `चञ्चलं तरलं चैव पारिप्लवपरिप्लवे` इत्यमरः। तया सुदक्षिणया ननन्द। `सुरेन्द्रमात्राश्रित-` इत्यत्र मनुः(5।96)- `अष्टाभिश्च सुरेन्द्राणां मात्राभिर्निर्मितो नृपः` इति ॥
RV 3.12 वंशस्थम्
कुमारभृत्याकुशलैरनुष्ठिते भिषग्भिराप्तैरथ गर्भभर्मणि । पतिः प्रतीतः प्रसवोन्मुखीं प्रियां ददर्श काले दिवमभ्रितामिव ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): कुमारेति॥ अथ । कुमारभृत्या बालचिकित्सा। `संज्ञायां समजनिषद-` (पा.3।3।99) इत्यादिना क्यप्। तस्यां कुशलैः कृतिभिः। `कृती कृशलः` इत्यमरः (अ.को.2|6|57)। आप्तैर्हितैर्भिषग्भिर्वैद्यैः। `भिषग्वैद्यौ चिकित्सकौ` इत्यमरः (अ.को.2|6|57)। गर्भस्य भर्मणि भरणे। `भरणे पोषणे भर्म` इति हैमः। `भृतिर्भर्म` इति शाश्वतः। मृञो मनिच्प्रत्ययः। `गर्भकर्मणि`इति पाठे गर्भाधानप्रतीतावौचित्यभङ्गः। अनुष्ठिते कृते सति। काले दशमे मासि। अन्यत्र, ग्रीष्मावसाने। प्रसवस्य गर्भमोवनस्योन्मुखीम्। आसन्नप्रसवामित्यर्थः। `स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने` इत्यमरः (अ.को.3|3|219)। प्रियां भार्याम्। अभ्राण्यस्याः संजातान्यभ्रिता ताम्। `तदस्य संजातं तारकादिभ्य इतच्` (पा.5।2।36)इतीतच्प्रत्ययः। दिवमिव। पतिर्भर्ता प्रतीतो हृष्टः सन्। `दिवः ख्याते हृष्टे प्रतीतः` इत्यमरः (अ.को.2|6|57)। ददर्श दृष्टवान्॥
RV 3.13 वंशस्थम्
ग्रहैस्ततः पञ्चभिरुञ्चसंश्रयैरसूर्यगैः सूचितभाग्यसंपदम् । असूत पुत्रं समये शचीसमा त्रिसाधना शक्तिरिवार्थमक्षयम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): ग्रहैरिति॥ ततः शच्येन्द्राण्या समा। `पुलोमजा शचीन्द्राणी` इत्यमरः (अ.को.1|1|55)। सा सुदक्षिणा समये प्रसूतिकाले सति। दशमे मासीत्यर्थः। `दशमे मासि जायते` इति श्रुतिः। उच्ञ्चसंश्रयैरुञ्चसंस्थैस्तुङ्गस्थानगैरसूर्यगैरनस्तमितैः कैश्चिद्यथासंभवं पञ्चभिर्ग्रहैः सूचिता भाग्यसंपद्यस्य तं पुत्रम्। त्रीणि प्रभावमन्त्रोत्साहात्मकानि साधनान्युत्पादकानि यस्याः सा त्रिसाधना शक्तिः। `शक्तयस्तिस्रः प्रभावोत्साहमन्त्त्रजाः` इत्यमरः (अ.को.1|1|55)। अक्षयमर्थमिव। असूत। `षूङ् प्राणिगर्भविमोचने` इत्यात्मनेपदिषु पठ्यते। तस्माद्धातोः कर्तरि लङ्। अत्रेदमनुसंधेयम्-`अजवृषभमृगाङ्गनाकुलीरा झषवणिजौ च दिवाकरादितुङ्गाः। दशशिखिमनुयुक्तिथीन्द्रियांशैस्त्त्रिनवकविंशतिभिश्च तेऽस्तनीचाः॥`(बृ.जा.) इति। सूर्यादीनां सप्तानां ग्रहाणां मेषवृषभादयो राशयः श्लोकोक्तक्रमविशिष्टा उञ्चस्थानानि। स्वस्वतुङ्गापेक्षया सप्तमस्थस्थानानि च नीचानि। तत्रोञ्चेष्वपि दशमादयो राशित्रिंशांशा यथाक्रममुञ्चेषु परमोञ्चा नीचेषु परमनीचा इति जातकश्लोकार्थः। अत्रांशस्त्त्रिंशो भागः। यथाह नारदः-`त्रिंशद्भागात्मकं लग्नम्` इति। सूर्यप्रत्यासत्तिर्ग्रहाणामस्तमयो नाम्। तदुक्तं लघुजातके-`रविणास्तमयो योगो वियोगस्तूदयो भवेत्` इति। ते च स्वोञ्चस्थाः फलान्ति नास्तगा नापि नीचगाः। तदुक्तं राजमृगाङ्के-`स्वोञ्चे पूर्णं स्वर्क्षकेऽर्धं सुहृद्भे पादं द्विङ्भेऽल्पं शुभं खेचरेन्द्रः। नीचस्थायी नास्तगो वा न किंचित्पादं नूनं स्वत्रिकोणे ददाति॥` इति। तदिदमाह कविः-`उञ्चसंश्रयैरसूर्यगैः` इति च। एवं सति यस्य जन्मकाले पञ्चप्रभृतयो ग्रहाः स्वोञ्चस्थाः स एव तुङ्गो भवति। तदुक्तं कूटस्थीये-`सुखिनः प्रकृष्टकार्या राजप्रतिरूपकाश्च राजानः। एकद्वित्रिचतुर्भिर्जायन्तेऽतः परं दिव्याः॥` इति। तदिदमाह-पञ्चभिरिति ॥
RV 3.14 वंशस्थम्
दिशः प्रसेदुर्मरुतो ववुः सुखाः प्रदक्षिणार्चिर्हविरग्निराददे । बभूव सर्वं शुभशंसि तत्क्षणं भवो हि लोकाभ्युदयाय तादृशाम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): दिश इति॥ तत्क्षणं तस्मिन्क्षणे। `कालाध्वनोरत्यन्तसंयोगे द्वितीया` (पा.2।3।5)दिशः प्रसेदुः प्रसन्ना बभूवुः। मरुतो वाताः सुखा मनोहरा ववुः। अग्निः प्रदक्षिणार्चिः सन् हविराददे स्वीचकार । इत्थँ सर्वं शुभशंसि शुभसूचकं बभूव। तथा हि-तादृशां रघुप्रकाराणां भवो जन्म लोकाभ्युदयाय। भवतीति शेषः। ततो देवा अपि संतुष्टा इत्यर्थः॥
RV 3.15 वंशस्थम्
अरिष्टशय्यां परितो विसारिणा सुजन्मनस्तस्य निजेन तेजसा । निशीथदीपाः सहसा हतत्विषो बभूवुरालेख्यसमर्पिता इव ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अरिष्टेति॥ `अरिष्टं सूतिकागृहम्` इत्यमरः (अ.को.2|2|8)। अरिष्टे सूतिकागृहे शय्यां तल्पं परितः सर्वतः। `अभितः परितः समयानिकषाप्रतियोगेऽपि`(वा.1422) इति द्वितीया। विसारिणा। सुजन्मनः शोभनोत्पत्तेः। `जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः` इत्यमरः (अ.को.1|4|31)। तस्य शिशोर्निजेन नैसर्गिकेण तेजसा सहसा हतत्विषः क्षीणकान्तयो निशीथदीपा अर्धरात्रप्रदीपाः `अर्धरात्रनिशीथौद्वौ` इत्यमरः (अ.को.2|2|8)। आलेख्ये चित्रे समर्पिता इव बभूवुः। `निशीथ`शब्दो दीपानां प्रभाधिक्यसंभावनार्थः॥
RV 3.16 वंशस्थम्
जनाय शुद्धान्तचराय शंसते कुमारजन्मामृतसंमिताक्षरम् । अदेयमासीत्त्रयमेव भूपतेः शशिप्रभ छत्रमुभे च चामरे ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): जनायेति॥ भूपतेर्दिलीपस्यामृतसंमिताक्षरममृतसमानाक्षरम्। `सरूपसमसंमिताः` इत्याह दण्डी। कुमारजन्म पुत्रोत्पत्तिं शंसते कथयते शुद्धान्तचरायान्तःपुरचारिणे जनाय त्रयमेवादेयमासीत्। किं तत्? शशिप्रभमुज्ज्वलं छत्रम्। उभे चामरे च, छत्रादीनां राज्ञः प्रधानाङ्गत्वादिति भावः ॥
RV 3.17 वंशस्थम्
निवातपद्मस्तिमितेन चक्षुषा नृपस्य कान्तं पिबतः सुताननम् । महोदधेः पूर इवेन्दुदर्शनाद्गुरुः प्रहर्षः प्रबभूव नात्मनि ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): निवातेति॥ निवातो निर्वातप्रदेशः। `निवातावाश्रयावातौ` इत्यमरः (अ.को.3|3|91)। तत्र यत्पद्मं तद्वत्स्तिमितेन निष्पन्देन चक्षुषा नेत्रेण कान्तं सुन्दरं सुताननं पुत्रमुखं पिबतस्तृष्णया पश्यतो नृपस्य गुरुरुत्कटः प्रहर्षः कर्ता इन्दुदर्शनाद्गुरुर्महोदधेः पूरो जलौघ इव आत्माने शरीरे न प्रबभूव स्थातुं न शशाक। अन्तर्न माति स्मेति यावत्। न ह्यल्पाधारेऽधिकं मीयत इति भावः। यद्वा, -हर्ष आत्मनि स्वस्मिन्विषये न प्रबभूव। आत्मानं नियन्तुं न शशाक। किंतु बहिर्निर्जगामेत्यर्थः॥
RV 3.18 वंशस्थम्
स जातकर्मण्यखिले तपस्विना तपोवनादेत्य पुरोधसा कृते । दिलीपसूनुर्मणिराकरोद्भवः प्रयुक्तसंस्कार इवाधिकं बभौ ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स दिलीपसूनुः। सपस्विना पुरोधसा पुरोहितेन। `पुरोधास्तु पुरोहितः` इत्यमरः (अ.को.2|8|5)। वसिष्ठेन। तपस्वित्वात्तदनुष्ठितं कर्म सवीर्यं स्यादिति भावः। तपोवनादेत्यागत्य। अखिले समग्रे जातकर्मणि जातस्य कर्तव्यसंस्कारविशेषे कृते सति। प्रयुक्तः संस्कारः शाणोल्लेखनादिर्यस्य स तथोक्तः। आकरोद्भवः खनिप्रभवः। `खनिः स्त्त्रियामाकरः स्यात्` इत्यमरः (अ.को.2|8|5)। मणिरिव। अधिकं बभौ। वसिष्ठमन्त्त्रप्रभावात्तेजिष्ठोऽभूदित्यर्थः। अत्र मनुः (2।29)-`प्राङ्नाभिवर्धनात्पुंसो जातकर्म विधीयते` इति ॥
RV 3.19 वंशस्थम्
सुखश्रवा मङ्गलतूर्यनिस्वनाः प्रमोदनृत्यैः सह वारयोषिताम् । न केवलं सद्मनि मागधीपतेः पथि व्यजृम्भन्त दिवौकसामपि ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): सुखश्रवा इति॥ सुखः सुखकरः श्रवः श्रवणं येषां ते सुखश्रवाः। श्रुतिसुखा इत्यर्थः। मङ्गलतूर्यनिस्वना मङ्गलवाद्यध्वनयो वारयोषितां वेश्यानाम्। `वारस्त्त्री गणिका वेश्या रूपाजीवा` इत्यमरः। प्रमोदनृत्यैर्हर्षनर्तनैः सह मागधीपतेर्दिलीपस्य सद्मनि केवलं गृह एव न व्यजृम्भन्त, किंतु द्यौरोको येषां ते दिवौकसो देवाः। पृषोदरादित्वात्साधुः, तेषां पथ्याऽऽकाशेऽपि व्यजृम्भन्त। तस्य देवांशत्वाद्देवोपकारित्वाञ्च देवदुन्दुभयोऽपि नेदुरिति भावः॥
RV 3.20 वंशस्थम्
न संयतस्तस्य बभूव रक्षितुर्विसर्जयेद्यं सुतजन्महर्षितः । ऋणाभिधानात्स्वयमेव केवलं तदा पितॄणां मुमुचे स बन्धनात् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): नेति॥ रक्षितुः सम्यक्पालनशीलस्य तस्य दिलीपस्य। अत एव चौराद्यभावात्। संयतो बद्धो न बभूव नास्ति स्म। किं तेनात आह-विसर्जयेदिति॥ सुतजन्म हर्षितस्तोषितः सन्। यं बद्धं विसर्जयेद्विमोचयेत्। किंतु स राजा तदा पितॄणामृणाभिधानाद्बान्धनात् केवलमेकं यथा तथा। स्वयमेव। एक एवेत्यर्थः। `केवलः कृत्स्न एकश्च केवलश्चावधीरितः` इति शाश्वतः। मुमुचे। कर्मकर्तरि लिट्। स्वयमेव मुक्त इत्यर्थः। अस्मिन्नर्थे-`एष वा अनृणो यः पुत्री` इति श्रुतिः प्रमाणम् ॥
RV 3.21 वंशस्थम्
श्रुतस्य यायादयमन्तमर्भकस्तथा परेषां युधि चेति पार्थिवः । अवेक्ष्य धातोर्गमनार्थमर्थविञ्चकार नाम्ना रघुमात्मसंभवम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): श्रुतस्येति॥ अर्थविच्छब्दार्थज्ञः पार्थिवः पृथिवीश्वरो दिलीपः। अयमर्भको बालकः श्रुतस्य शास्त्त्रस्यान्तं पारं यायात्। तथा युधि परेषां शत्रूणामन्तं पारं च यायात्। यातुं शक्नुयादित्यर्थः। `शकि लिङ् च` (पा.3।3।172)इति शक्यार्थे लिंङ्। इति होतोर्धातोः `अधिवधिलधि गत्यर्थाः` इति लधिधातोर्गमनाख्यमर्थमर्थवित्त्वादवेक्ष्यालोच्च। आत्मसंभवं पुत्रं नाम्ना रघुं चकार। `लङ्घिवं ह्योर्नलोपश्च`(वा.4798) इत्यप्रत्यये `बलमूललघ्वलमङ्गुलीनां वा लो रत्वमापद्यते`(उ.सू.29) इति वैकल्पिके रेफादेशे रघुरिति रूपं सिद्धम्। अत्र शङ्खः-`आशौचे तु व्यतिक्रान्ते नामकर्म विधीयते` इति ॥
RV 3.22 वंशस्थम्
पितुः प्रयत्नात्स समग्रसंपदः शुभैः शरीरावयवैर्दिने दिने । पुपोष वृद्धिं हरिदश्वदीधितेरनुप्रवेशादिव बालचन्द्रमाः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): पितुरिति॥ स रघुः समग्रसंपदः पूर्णलक्ष्मीकस्य पितुर्दिलीपस्य प्रयत्नाच्छुभैर्मनोहरैः शरीरावयवैः। हरिदश्वदीधितेः सूर्यस्य रश्मेः। `भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः` इत्यमरः (अ.को.1|3|31)। अनुप्रवेशाद्बालचन्द्रमा इव। दिने दिने प्रतिदिनम्। `नित्यवीप्सयोः` (पा.8।1।4) इति द्विर्वचनम्। वृद्धिं पुपोष। अत्र वराहसंहितावचनम्-`सलिलमये शशिनि रवेर्दीधितयो मूर्च्छितास्तमोनैशम्। क्षपयन्ति दर्पणोदरनिहिता इव मन्दिरस्यान्तः॥` इति ॥
RV 3.23 वंशस्थम्
उमावृषाङ्कौ शरजन्मना यथा यथा जयन्तेन शचीपुरंदरौ । तथा नृपः सा च सुतेन मागधी ननन्दतुस्तत्सदृशेन तत्समौ ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): उमेति॥ उमावृषाङ्कौ पार्वती-वृषभध्वजौ शरजन्मना कार्तिकेयेन। `कार्तिकेयो महासेनः शरजन्मा षडाननः` इत्यमरः (अ.को.1|1|48)। यथा ननन्दतुः। शचीपुरंदरौ जयन्तेन जयन्ताख्येन सुतेन। `जयन्तः पाकशासनिः` इत्यमरः (अ.को.1|1|56)। यथा ननन्दतुः। तथा तत्समौ ताभ्यामुमान्वृषाङ्काभ्यां शची-पुरंदराभ्यां च समौ समानौ सा मागधी नृपश्च तत्सदृशेन ताभ्यां कुमार-जयन्ताभ्यां सदृशेन सुतेन ननन्दतुः। मागधी प्रग्व्याख्याता ॥
RV 3.24 वंशस्थम्
रथाङ्गनाम्नोरिव भावबन्धनं बभूव यत्प्रेम परस्पराश्रयम् । विभक्तमप्येकसुतेन तत्तयोः परस्परस्योपरि पयचीयत ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): रथाङ्गेति॥ रथाङ्गनाम्नी च रथाङ्गनामा च रथाङ्गनामानो चक्रवाकौ। `पुमान्स्त्रिया` (पा.1।2।67)इत्येकशेषः। तयोरिव तयोर्दपत्योर्भावबन्धनं हृदयाकर्षकं परस्पराश्रयमन्योन्यविषयं यत्प्रेम बभूव तदेकेन केवलेन ताभ्यामन्येन वा। `एके मुख्यान्यकेवलाः` इत्यमरः (अ.को.3|3|16)। सुतेन विभक्तमपि कृतविभागमपि परस्परस्योपरि पर्यचीयत ववृधे। कर्मकर्तरि लिट्। अकृत्रिमत्वात्स्वयमेवोपचितमित्यर्थः। यदेकाधारं वस्तु तदाधारद्वये विभज्यमानं हीयते। अत्र तु तयोः प्रागेकैककर्तृकमेकैकविषयं प्रेम संप्रति द्वितीयविषयलामेऽपि नाहीयत, प्रत्युतोपचितमेवाभूदिति भावः ॥
RV 3.25 वंशस्थम्
उवाच धात्र्या प्रथमोदितं वचो ययौ तदीयामवलम्ब्य चाङ्गुलिम् । अभूञ्च नम्रः प्रणिपातशिक्षया पितुर्मुदं तेन ततान सोऽर्भकः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): उवाचेति॥ सोऽर्भकः शिशुः। `पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः` इत्यमरः (अ.को.2|5|40)। धात्र्योपमात्रा। `छात्रीजनन्यामलकीवसुमत्युपमातृषु` इति विश्वः। प्रथममुदितमुपदिष्टं वच उवाच। तदीयामङ्गुलिमवलम्ब्य ययौ च। प्रणिपातस्य शिक्षयोपदेशेन नम्रोऽभूञ्च। इति यत्तेन पितुर्मुदं ततान ॥
RV 3.26 वंशस्थम्
तमङ्कमारोप्य शरीरयोगजैः सुखैर्निषिञ्चन्तमिवामृतं त्वचि । उपान्तसंमीलितलोचनो नृपश्चिरात्सुतस्पर्शरसज्ञतां ययौ ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ शरीरयोगजैः सुखैस्त्वचि त्वगिन्द्रियेऽमृतं निषिञ्चन्तं वर्षन्तमिव तं पुत्रमङ्कमारोप्य मुदाविर्भावादुपान्तयोः प्रान्तयोः संमीलितलोचनः सन्। नृपश्चिरात्सुतस्पर्शरसज्ञतां ययौ। रसः स्वादः॥
RV 3.27 वंशस्थम्
अमंस्त चानेन परार्ध्यजन्मना स्थितेरभेत्ता स्थितिमन्तमन्वयम् । स्वमूर्तिभेदेन गुणाग्र्यवर्तिना पतिः प्रजानामिव सर्गमात्मनः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अमंस्तेति॥ स्थितेरभेत्ता मर्यादापालकः स नृपः परार्ध्यजन्मनोत्कृष्टजन्मनाऽनेन रघुणाऽन्वयं वंशम्। प्रजानां पतिर्ब्रह्मा। गुणाः स्त्त्वादयः। तेष्वग्र्येण मुख्येन सत्त्वेन वर्तते व्याप्रियत इति गुणाग्र्यवर्ती। तेन स्वस्य मूर्तिभेदेनावतारविशेषेण विष्णुनाऽऽत्मनः सर्गं सृष्टिमिव। स्थितिमन्तं प्रतिष्ठावन्तममंस्त मन्यते स्म। मन्यतेरनुदात्तत्वादिट्प्रतिषेधः। अत्रोपमानोपमेययोरितरेतरविशेषणानीतरेतरत्र योज्यानि। तत्र रघुपक्षे, - गुणा विद्याविनयादयः। `गुणोऽप्रधाने रूपादौ मौर्व्या सूदे वृकोदरे। स्तम्बे सत्त्वादिसंध्यादिविद्यादिहरितादिषु॥` इति विश्वः। शेषं सुगमम् ॥
RV 3.28 वंशस्थम्
स वृत्तचूलश्चलकाकपक्षकैरमात्यपुत्रैः सवयोभिरन्वितः । लिपेर्यथावद्ग्रहणेन वाङ्मयं नदीमुखेनेव समुद्रमाविशत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ `चूडाकर्म द्विजातीनां सर्वेषामेव धर्मतः। प्रथमेऽब्दे तृतीये वा कर्तव्यं श्रुतिचोदनात्॥` (2।34) इति मनुस्मरणात्तृतीये वर्षे वृत्तचूलो निष्पन्नचूडाकर्मा सन्। डलयोरभेदः। स रघुः। `प्राप्ते तु पञ्चमे वर्षे विद्यारम्भं च कारयेत्` इति वचनात्पञ्चमे वर्षे चलकाकपक्षकैश्चञ्चलशिखण्डकैः। `बालानां तु शिखा प्रोक्ता काकपक्षः शिखण्डकः` इति हलायुधः। सवयोभिः स्निग्धैः। `वयस्यः स्निग्धः सवयाः` इत्यमरः (अ.को.2|8|12)। अमात्यपुत्रैरन्वितः सन्। लिपेः पञ्चाशद्वर्णात्मिकाया मातृकाया यथावद्ग्रहणेन सम्यग्बोधेनोपायभूतेन वाङ्मयं शब्दजातम्। नद्यामुखं द्वारम्। `मुखं तु वदने मुख्यारम्भे द्वाराभ्युपाययोः` इति यादवः। तेन कश्चिन्मकरादिः समुद्रमिव। आविशत् प्रविष्टः। ज्ञातवानित्यर्थः॥
RV 3.29 वंशस्थम्
अथोपनीतं विधिवद्विपश्चितो विनिन्युरेनं गुरवो गुरुप्रियम् । अवन्ध्ययत्नाश्च बभूवुरत्र ते क्रिया हि वस्तूपहिता प्रसीदति ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ `गर्भाष्टमेऽब्दे कुर्वीत ब्राह्मणस्योपनायनम्। गर्भादेकादशे राज्ञो गर्भाञ्च द्वादशे विशः॥` (2।36) इति मनुस्मरणात्। अथ गर्भैकादशेऽब्दे विधिवदुपनीतं गुरुप्रियमेनं रघुं विपश्चितो विद्वांसो गुरवो विनिन्युः शिक्षितवन्तः। ते गुरवोऽत्रास्मिन्रघौ अवन्ध्ययत्नाश्च बभूवुः। तथा हि-क्रिया शिक्षा। `क्रिया तु निष्कृतौ शिक्षाचिकित्सोपायकर्मसु` इति यादवः। वस्तुनि पात्रभूत उपहिता प्रयुक्ता प्रसीदति फलति। `क्रिया हि द्रव्यं विनयति नाद्रव्यम्` इति कौटिल्यः ॥
RV 3.30 वंशस्थम्
धियः समग्रैः स गुणैरुदारधीः क्रमाञ्चतस्रश्चतुरर्णवोपमाः । ततार विद्याः पवनातिपातिभिर्दिशो हरिद्भिर्हरितामिवेश्वरः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): धिय इति॥ अत्र कामन्दकः-`शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा। ऊहापोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः॥` इति। `आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च शाश्वती। एता विद्याश्चतस्रस्तु लोकसंस्थितिहेतवः॥` इति च। उदारधीरुत्कृष्टबुद्धिः स रघुः समग्रैर्धियो गुणैः। चत्वारोऽर्णवा उपमा यासां ताश्चतुरर्णवोपमाः। `तद्धितार्थोत्तरपदसमाहारे च` (पा.2।1।41) इत्युत्तरपदसमासः। चतस्रो विद्याः। हरितां दिशामीश्वरः सूर्यः पवनातिपातिभिर्हरिद्भिर्निजाश्वैः। `हरित्ककुभि वर्णे च तृणवाजिविशेषयोः` इति विश्वः। चतस्रो दिश इव। क्रमात्ततार। चतुरर्णवोपमत्वं दिशामपि द्रष्टव्यम् ॥
← Previous (Ch. 2) Full Table of Contents Next (Ch. 4) →