Skip to main content
Search
RV
Raghuvaṁśam • Chapter 03

Canto 3

तृतीयः सर्गः (रघुराज्याभिषेकः)

Canto 3 of Raghuvaṁśam.

Total: 70 Verses • Citations: RV 3.1–70 • 1 Lexicon Terms • Page 3 of 3 (Verses 10 shown)
RV 3.61 वंशस्थम्
रघुर्भृशं वक्षसि तेन ताडितः पपात भूमौ सह सैनिकाश्रुभिः । निमेषमात्रादवधूय च व्यथां सहोत्थितः सैनिकहर्षनिस्वनैः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): रघुरिति॥ रघुस्तेन वज्रेण भृशमत्यर्थं वक्षसि ताडितो हतः सन् । सैनिकानामश्रुभिः सह भूमौ पपात। तस्मिन्पतिते ते रुरुदुरित्यर्थः। निमेषमात्राद्व्यथां दुःखमवधूय तिरस्कृत्य सैनिकानां हर्षेण ये निस्वनाः क्ष्वेडास्तैः सहोत्थितश्च। तस्मिन्नुत्थिते हर्षात्सिंहनादांश्चक्रुरित्यर्थः॥
RV 3.62 वंशस्थम्
तथापि शस्त्त्रव्यवहारनिष्ठुरे विपक्षभावे चिरमस्य तस्थुषः । तुतोष वीर्यातिशयेन वृत्रघहा पदं हि सर्वत्र गुणैर्निधीयते ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तथापीति॥ तथापि वज्रघातेऽपि शस्त्त्राणामायुधानां व्यवहारेण व्यापारेण निष्ठुरे क्रूरे विपक्षभावे शात्रवे चिरं तस्थुषः स्थितवतोऽस्य रघोर्वीर्यातिशयेन। वृत्रं हतवानिति वृत्रहा। `ब्रह्मभ्रूणवृत्रेषु क्विप्`। (पा.3।2।87) तुतोष। स्वयं वीर एव वीरं जानातीति भावः। कथं शत्रोः संतोषोऽत आह-गुणैः सर्वत्र शत्रुमित्रोदासीनेषु पदमङ्ग्रिर्निधीयते। गुणैः सर्वत्र संक्रम्यत इत्यर्थः। गुणाः शत्रूनप्यावर्जयन्तीति भावः ॥
RV 3.63 वंशस्थम्
असङ्गमद्रिष्वपि सारवत्तया न मे त्वदन्येन विसोढमायुधम् । अवेहि मां प्रीतमृते तुरंगमात्किमिच्छसीति स्फुटमाह वासवः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): असङ्गमिति॥ सारवत्तयाऽद्रिष्वसङ्गमप्रतिबन्धं मे आयुधं वज्रं त्वदन्येन न विसोढम्। अतो मां प्रीतं संतुष्टमवेहि। तुरंगमादृते दुरंगं वर्जयित्वा। `अन्यारादितरर्ते-` (पा.2।3।29) इति पञ्चमी। किमिच्छसीति स्फुटं वासव आह। तुरंगमादन्यददेयं नास्तीति भावः॥
RV 3.64 वंशस्थम्
ततो निषङ्गादमसमग्रमुद्धृतं सुवर्णपुङ्खद्युतिरञ्जिताङ्गुलिम् । नरेन्द्रसूनुः प्रतिसंहरन्निषुं प्रियंवदः प्रत्यवदत्सुरेश्वरम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तत इति॥ ततो निषङ्गात्तूणीरादसमग्रं यथा तथोद्धृतं सुवर्णपुङ्खद्युतिभी रञ्जिता अङ्गुलयो येन तमिषुं प्रतिसंहरन्निवर्तयन्। `नाप्रहरन्तं प्रहरेत्` इति निषेधादिति भावः। प्रियं वदतीति प्रियंवदः। `प्रियवशे वदः खच्` (पा.3।2।38) इति खच्प्रत्ययः। `अरुर्द्विषट्-` (पा.6।3।67) इत्यादिना मुमागमः। नरेन्द्रसूनू रघुः सुरेश्वरं प्रत्यवदत्। न तु प्राहरदिति भावः॥
RV 3.65 वंशस्थम्
अमोच्यमश्वं यदि मन्यसे प्रभो! ततः समाप्ते विधिनैव कर्मणि । अजस्रदीक्षाप्रयतः स मद्गुरुः क्रतोरशेषेण फलेन युज्यताम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अमोच्यमिति॥ हे प्रभो इन्द्र! अश्वममोच्यं मन्यसे यदि ततस्तर्ह्यजस्रदीक्षायां प्रयतः स मद्गुरुर्मम पिता विधिनैव कर्मणि समाप्ते सति क्रतोर्यत्फलं तेन फलेनाशेषेण कृत्स्नेन युज्यतां युक्तोऽस्तु । अश्वमेधफललाभे किमश्वेनेति भावः॥
RV 3.66 वंशस्थम्
यथा च वृत्तान्तमिमं सदोगतस्त्त्रिलोचनैकांशतया दुरासदः । तवैव संदेशहराद्विशांपतिः श्रृणोति लोकेश! तथाविधीयताम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): यथेति॥ सदोगतः सदो गृहं गतस्त्त्रिलोचनस्येश्वरस्यैकांशतया, अष्टानामन्यतममूर्तित्वात्। दुरासदो मादृशैर्दुष्प्राप्यो विशांपतिर्यथेमं वृत्तान्तं तव संदेशहराद्वार्ताहरादेव शृणोति च। हे लोकेशेन्द्र! तथा विधीयताम्॥
RV 3.67 वंशस्थम्
तथेति कामं प्रतिशुश्रुवान्रघोर्यथागतं मातलिसारथिर्ययौ । नृपस्य नातिप्रमनाः सदोगृहं सुदक्षिणासूनुरपि न्यवर्तत ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तथेति॥ मातलिसारथिरिन्द्रो रघोः संबन्धिनं कामं मनोरथं तथेति `तथास्तु` इति प्रतिशुश्रुवान्। `भाषायां सदवसश्रुवः` (पा.3।2।108) इति क्वसुप्रत्ययः। तथागतं ययौ सुदक्षिणासूनू रघुरपि नातिप्रमना विजयलाभेऽप्यश्वनाशान्नातीव तुष्टः सन्। नञर्थस्य नशब्दस्य सुप्सुपेति समासः। नृपस्य सदोगृहं प्रति न्यवर्तत ॥
RV 3.68 वंशस्थम्
तमभ्यनन्दत्प्रथमं प्रबोधितः प्रजेश्वरः शासनहारिणा हरेः । परामृशन्हर्षजडेन पाणिना तदीयमङ्गं कुलिशव्रणाङ्कितम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ हरेरिन्द्रस्य शासनहारिणा पुरुषेण प्रथमं प्रबोधितो ज्ञापितः। वृत्तान्तमिति शेषः। प्रजेश्वरो दिलीपो हर्षजडेन हर्षजडेन हर्षशिशिरेण पाणिना कुलिशव्रणाङ्कितम्। तस्य रघोरिदं तदीयम्। अङ्गं शरीरं परामृशन्, तं रघुमभ्यनन्दत् ॥
RV 3.69 वंशस्थम्
इति क्षितीशो नवतिं नवाधिकां महाक्रतूनां महनीयशासनः । समारुरुक्षुर्दिवमायुषः क्षये ततान सोपानपरम्परामिव ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): इतीति॥ महनीयशासनः पूजनीयाज्ञः क्षितीश इत्यनेन प्रकारेण। `इति हेतुप्रकरणप्रकर्षादिसमाप्तिषु` इत्यमरः`। महाक्रतूनामश्वमेधानां नवभिरधिकां नवतिमेकोनशतमायुषः क्षये सति दिवं स्वर्गं समारुरुक्षुरारोढुमिच्छुः सोपानानां परम्परां पङ्क्तिमिव ततान ॥
RV 3.70 हरिणी
अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे नृपतिककुदं दत्त्वा यूने सितातपवारणम् । मुनिवनतरुच्छायां देव्या तया सह शिश्रिये गलितवयसामिक्ष्वाकूणामिदं हि कुलव्रतम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ विषयेभ्यो व्यावृत्तात्मा निवृत्तचितः स दिलीपो यथाविधि यथाशास्त्त्रं यूने सूनवे नृपतिककुदं राजचिह्नम्। `ककुद्वत्ककुदं श्रेष्ठे वृषाङ्के राजलक्ष्मणि` इति विश्वः। सितातपवारणं श्वेतच्छत्रं दत्त्वा तया देव्या सुदक्षिणया सह मुनिवनतरोश्छायां शिश्रिये श्रितवान्। वानप्रस्थाश्रमं स्वीकृतवानित्यर्थः। तथा हि-गलितवयसां वृद्धानामिक्ष्वाकूणामिक्ष्वाकोर्गोत्रापत्यानाम्। तद्राजसंज्ञकत्वादणो लुक्। इदं वनगमनं कुलव्रतम्। `देव्या सह` इत्यनेन सपत्नीकवानप्रस्थाश्रमपक्ष उक्तः। तथा च याज्ञवल्क्यः(प्राय.3।45)- `सुतविन्यस्तपत्नीकस्तया वाऽनुगतो वनम्। वानप्रस्थो ब्रह्मचारी साग्निः सोपासनो व्रजेत्॥` इति। हरिणीवृत्तमेतत्। तदुक्तम्-`रसयुगहयैर्न्सौ म्रौ स्लौ गो यदा हरिणी तदा` इति॥
← Previous (Ch. 2) Full Table of Contents Next (Ch. 4) →