Skip to main content
Search
RV
Raghuvaṁśam • Chapter 02

Canto 2

द्वितीयः सर्गः (नन्दिनीवरप्रदानम्)

Canto 2 of Raghuvaṁśam.

Total: 75 Verses • Citations: RV 2.1–75 • 1 Lexicon Terms • Page 1 of 3 (Verses 30 shown)
RV 2.1 उपजातिः
अथ प्रजानामधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्याम् । वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुमृषेर्मुमोच ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ निशानयनानन्तरं यशोधनः प्रजानामधिपः प्रजेश्वरः प्रभाते प्रातःकाले जायया सुदक्षिणया प्रतिग्राहयित्र्या। प्रतिग्राहिते स्वीकारिते गन्धमाल्ये यया सा जायाप्रतिग्राहितगन्धमाल्या। तां तथोक्तम्। पीतं पानमस्यास्तीति पीतः। पीतवानित्यर्थः। `अर्शआदिभ्योऽच्` (पा.5।2।127) इत्यच्प्रत्ययः। `पीता गावो भुक्ता ब्राह्मणाः` इति महाभाष्ये दर्शनात्। पीतः प्रतिबद्धो वत्सो यस्यास्तामृषेर्धेनुं वनाय वनं गन्तुम्। `क्रियार्थोपपद-` (पा.2।3।14) इत्यादिना चतुर्थी। मुमोच मुक्तवान्। `जायां` पदसामर्थ्यात्सुदक्षिणायाः पुत्रजननयोग्यत्वमनुसंधेयम्। तथा हि श्रुतिः-`पतिर्जायां प्रविशति गर्भो भूत्वेह मातरम्। तस्यां पुनर्नवो भूत्वा दशमे मासि जायते। तज्जाया जाया भवति यदस्यां जायते पुनः।` इति। `यशोधन` इत्यनेन पुत्रवत्ताकीर्तिलोभाद्राजानर्हे गोरक्षणे प्रवृत्त इति गम्यते। अस्मिन्सर्गे वृत्तमुपजातिः-`अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः`इति ॥
RV 2.2 उपजातिः
तस्याः खुरन्यासपवित्रपुंसुमपांसुलानां धुरि कीर्तनीया । मार्गं मनुष्येश्वरधर्मपत्नी श्रुतेरिवार्थं स्मृतिरन्वगच्छत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तस्या इति॥ पांसवो दोषा आसां सन्तीति पांसुलाः स्वैरिण्यः। `स्वैरिणी पांसुला` इत्यमरः (अ.को.2|6|11)। `सिध्मादिभ्यश्च` (पा.5।2।97) इति लच्प्रत्ययः। अपांसुलानां पतिव्रतानां धुर्यग्रे कीर्तनीया परिगणनीया मनुष्येश्वरधर्मपत्नी। खुरन्यासैः पवित्राः पांसवो यस्य तम्। `रेणुर्द्वयोः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः` इत्यमरः (अ.को.2|8|98)। तस्या धेनोर्मार्गम्। स्मृतिर्मन्वादिवाक्यं श्रुतेर्वेदवाक्यस्यार्थमभिधेयमिव। अन्वगच्छदनुसृतवती च। यथा स्मृतिः श्रुतिक्षुण्णमेवार्थमनुसरति तथा सापि गोखुरक्षुण्णमेव मार्गमनुससारेत्यर्थः। धर्मपत्नीत्यत्राश्वघासादिवत्तादर्थ्ये षष्ठीसमासः, प्रकृतिविकाराभावात्। पांसुलपथप्रवृत्तावप्यपांसुलानामिति विरोधालंकारो ध्वन्यते॥
RV 2.3 उपजातिः
निवर्त्य राजा दयितां दयालुस्तां सौरभेयीं सुरभिर्यशोभिः । पयोधरीभूतचतुःसमुद्रां जुगोप गोरूपधरामिवोर्वीम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): निवर्त्येति॥ दयालुः कारुणिकः। `स्याद्दयालुः कारुणिकः` इत्यमरः (अ.को.3|1|15)। `स्पृहिगृहि-` (पा.3।2।158)इत्यादिनालुच्प्रत्ययः। यशोभिः सुरभिर्मनोज्ञः। `सुरभिः स्यान्मनोज्ञेऽपि` इति विश्वः। स राजा तां दयितां निवर्त्य सौरभेयीं कामधेनुसुतां नन्दिनीम्। धरन्तीति धराः। पचाद्यच्। पयसां धराः पयोधराः स्तनाः। `स्त्रीस्तनाब्दौ पयोधरौ` इत्यमरः (अ.को.3|3|172)। अपयोधराः पयोधराः संपद्यमानाः पयोधरीभूताः। अभूततद्भावे च्विः। `कुगतिप्रादयः` (पा.2।2।18) इति समासः। पयोधरीभूताश्चत्वारः समुद्रा यस्यास्ताम्। `अनेकमन्यपदार्थे` (पा.2।2।24) इत्यनेकपदार्थग्रहणसामर्थ्यात्त्रिपदो बहुव्रीहिः। गोरूपधरामुर्वीमिव। जुगोप ररक्ष। भूरक्षणप्रयत्नेनेव ररक्षेति भावः। धेनुपक्षे, -पयसा दुग्धेनाधरीभूताश्चत्वारः समुद्रा यस्याः सा तथोक्ता ताम्। दुग्धतिरस्कृतसागरामित्यर्थः॥
RV 2.4 उपेन्द्रवज्रा
व्रताय तेनानुचरेण धेनोर्न्यषेधि शेषोऽप्यनुयायिवर्गः । न चान्यतस्तस्य शरीररक्षा स्ववीर्यगुप्ता हि मनोः प्रसूतिः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): व्रतायेति॥ व्रताय धेरोरनुचरेण। न तु जीवनायेति भावः। तेन दिलीपेन शेषोऽवशिष्टोऽप्यनुयायिवर्गोऽनुचरवर्गो न्यषेधि निवर्तितः। शेषत्वं सुदक्षिणापेक्षया। कथं तर्ह्यात्मरक्षणमत आह-न चेति। तस्य दिलीपस्य शरीररक्षा चान्यतः पुरुषान्तरान्न। कुतः? हि यस्मात्कारणान्मनोः। प्रसूयत इति प्रसूतिः संततिः स्ववीर्यगुप्ता स्ववीर्येणैव रक्षिता। न हि स्वनिर्वाहकस्य परापेक्षेति भावः ॥
RV 2.5 इन्द्रवज्रा
आस्वादवद्भिः कवलस्तृणानां कण्डूयनैर्दंशनिवारणैश्च । अव्याहतैः स्वैरगतैः स तस्याः सम्राट् समाराधनतत्परोऽभूत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): आस्वादवद्भिरिति॥ सम्राट् मण्डलेश्वरः। `येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः। शास्ति यश्चाज्ञया राज्ञः स सम्राट्` इत्यमरः (अ.को.2|5|29)। स राजा। आस्वादवद्भी रसवद्भिः। स्वादयुक्तैरित्यर्थः। तृणानां कवलैर्ग्रासैः `ग्रासस्तु कवलार्थकः` इत्यमरः (अ.को.2|5|29)। कण्डूयनैः खर्जनैः। दंशानां वनमक्षिकाणां निवारणैः। `दंशस्तु वनमक्षिका` इत्यमरः (अ.को.2|5|29)। अव्याहतैरप्रतिहतैः स्वैरगतैः स्वच्छन्दगमनैश्च तस्या धेन्वाः समाराधनतत्परः शुश्रूषासक्तोऽभूत्। तदेव परं प्रधानं यस्येति तत्परः। `तत्परे प्रसितासक्तौ` इत्यमरः (अ.को.2|5|29)॥
RV 2.6 उपजातिः
स्थितः स्थितामुञ्चलितः प्रयातां निषेदुषीमासनबन्धधीरः । जलाभिलाषी जलमाददानां छायेव तां भूपतिरन्वगच्छत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स्थित इति॥ भूपतिस्तां गां स्तितां सतीं स्थितः सन्। स्थितिरूर्ध्वावस्थानम्। प्रयातां प्रस्थितामुञ्चलितः प्रस्थितः। निषेदुषीं निषण्णाम्। उपविष्टामित्यर्थः। `भाषायां सदवसश्रुवः` (पा.3।2।108) इति क्वसुप्रत्ययः। `उगितश्च` (पा.4।1।6) इति ङीप्। आसनबन्ध उपवेशने धीरः स्थितः। उपविष्टः सन्नित्यर्थः। जलमाददानां पिबन्तीं जलाभिलाषी। पिबन्नित्यर्थः। इत्थं छायेवान्वगच्छदनुसृतवान् ॥
RV 2.7 इन्द्रवज्रा
स न्यस्तचिह्नामपि राजलक्ष्मीं तेजोविशेषानुमितां तधानः । आसीदनाविष्कृतदानराजिरन्तर्मदावस्थ इव द्विपेन्द्रः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ न्यस्तानि परिहृतानि चिह्नानि छत्रचामरादीनि यस्यास्तां तथाभूतामपि तेजोविशेषेण प्रभावातिशयेन। अनुमितां सर्वथा राजैवायं भवेदित्यूहितां राजलक्ष्मीं दधानः स राजा। अनाविष्कृतदानराजिर्वहिरप्रकटितमदरेखः। अन्तर्गता मदावस्था यस्य सोऽन्तर्मदावस्थः। तथाभूतो द्विपेन्द्र इव। आसीत्॥
RV 2.8 उपजातिः
लताप्रतानोद्ग्रथितैः स कैशैरधिज्यधन्वा विचचार दावम् । रक्षापदेशान्मुनिहोमधेनोर्वन्यान्विनेष्यन्निव दुष्टसत्त्वान् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): लतेति॥ लतानां वल्लीनां प्रतानैः कुटिलतन्तुभिरुद्ग्रथिता उन्नमय्य ग्रथिता ये केशास्तैरुपलक्षितः। `इत्थंभूतलक्षणे` (पा.2।3।21) इति तृतीया। स राजा। अधिज्यमारोपितमौर्वीकं धनुर्यस्य सोऽधिज्यधन्वा सन्। `धनुषश्च` (पा.5।4।132) इत्यनङादेशः। मुनिहोमधेनो रक्षापदेशाद्रक्षणव्याजात्। वन्यान् वने भवान् दुष्टसत्त्वान् दुष्टजन्तून्। `द्रव्यासुव्यवसायेषु सत्त्वमस्त्त्री तु जन्तुषु` इत्यमरः। विनेष्यञ्छिक्षयिष्यन्निव। दावं वनम्। `वने च वनवह्नौ च दवो दाव इहेष्यते` इति यादवः। विचचार। वने चचारेत्यर्थः। `देशकालाघ्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्`इति दावस्य कर्मत्वम्॥
RV 2.9 उपजातिः
विसृष्टपार्श्वानुचरस्य तस्य पार्श्वद्रुमाः पाशभृता समस्य । उदीरयामासुरिवोन्मदानामालोकशब्दं वयसां विरावैः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): विसृष्टेति॥ विसृष्टाः पार्श्वानुचराः पार्श्ववर्तिनो जना येन तस्य। पाशभृता वरुणेन समस्य तुल्यस्य। `प्रचेता वरुणः पाशी` इत्यमरः (अ.को.1|1|73)। अनुभावोऽनेन सूचितः। तस्य राज्ञः पार्श्वयोर्द्रुमाः। उन्मदानामुत्कटमदानां वयसां खगानाम्। `खगबाल्यादिनोर्वयः` इत्यमरः (अ.को.3|3|245)। विरावैः शब्दैः। आलोकस्य शब्दं वाचकमालोकयेति शब्दम्। जयशब्दमित्यर्थः। `आलोको जयशब्दः स्यात्`इति विश्वः। उदीरयामासुरिवावदन्निव। इत्युत्प्रेक्षा॥
RV 2.10 उपजातिः
मरुत्प्रयुक्ताश्च मरुत्सखाभं तमर्च्यमारादभिवर्तमानम् । अवाकिरन्बाललताः प्रसूनैराचारलाजैरिव पौरकन्याः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): मरुदिति॥ मरुत्प्रयुक्ता वायुना प्रेरिता बाललता आरात् समीपेऽभिवर्तमानम्। `आराद्दूरसमीपयोः` इत्यमरः (अ.को.3|3|257)। मरुतो वायोः सखा मरुत्सखोऽग्निः। स इवाभातीति मरुत्सखाभः। `आतश्चोपसर्गे` (पा.3।1।136) इति कप्रत्ययः। तम्, अर्च्यं पूज्यं तं दिलीपं प्रसूनैः पुष्पैः। पौरकन्याः पौराश्च ताः कन्या आचारार्थैर्लाजैराचारलाजैरिव। अवाकिरन्। तस्योपरि निक्षिप्तवत्य इत्यर्थः। सखा हि सखायमागतमुपचरतीति भावः ॥
RV 2.11 उपजातिः
धनुर्भृतोऽप्यस्य दयार्द्रभावमाख्यातमन्तःकरणैर्विशङ्कैः । विलोकयन्त्यो वपुरापुरक्ष्णां प्रकामविस्तारफलं हरिण्यः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): धनुर्भृत इति॥ धनुर्भृतोऽप्यस्य राज्ञः। एतेन भयसंभावना दर्शिता। तथापि विशङ्कैर्निर्भीकैरन्तः करणैः कर्तृभिः। दयया कृपारसेनार्द्रो भावोऽभिप्रायो यस्य तद्दयार्द्रभावं तदाख्यातम्। दयार्द्रभावमेतदित्याख्यातमित्यर्थः। `भावः सत्त्वस्वभावाभिप्रायचेष्टात्मजन्मसु` इत्यमरः। तथाविधं वपुर्विलोकयन्त्यो हरिण्योऽक्ष्णां प्रकामविस्तारस्यात्यन्तविशालतायाः फलमापुः। `विमलं कलुषीभवञ्च चेतः कथयत्येव हितैषिणं रिपुं च` इति न्यायेन स्वान्तःकरणवृत्तिप्रामाण्यादेव विश्रब्धं ददृशुरित्यर्थः॥
RV 2.12 उपजातिः
स कीचकैर्मारुतपूर्णरन्ध्रैः कूजद्भिरापादितवंशकृत्यम् । शुश्राव कुञ्जेषु यशः स्वमुञ्चैरुद्गीयमानं वनदेवताभिः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स दिलीपो मारुतपूर्णरन्ध्रैः। अत एव कूजद्भिः स्वनद्भिः कीचकैर्वेणुविशेषैः। `वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः` इत्यमरः (अ.को.2|4|161)। वंशः सुषिरवाद्यावशेषः। `वंशादिकं तु सुषिरम्` इत्यमरः (अ.को.2|4|161)। आपादितं संपादितं वंशस्य कृत्यं कार्यं यस्मिन्कर्मणि तत्तथा। कुञ्जेषु लतागृहेषु। `निकुञ्जकुञ्जौ वा क्लिबे लतादिपिहितोदरे` इत्यमरः (अ.को.2|4|161)। वनदेवताभिरुद्गीयमानमुञ्चैर्गीयमानं स्वं यशः शुश्राव श्रुतवान्॥
RV 2.13 उपजातिः
पृक्तस्तुषारैर्गिरिनिर्झराणामनोकहाकम्पितपुष्पगन्धी । तमातपक्लान्तमनातपत्रमाचारपूतं पवनः सिषेवे ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): पृक्त इति॥ गिरिषु निर्झराणां वारिप्रवाहाणाम्। `वारिप्रवाहो निर्झरो झरः` इत्यमरः (अ.को.2|3|5)। तुषारः सीकरैः। `तुषारौ ह्रिमसीकरौ` इति शाश्वतः। पृक्तः संपृक्तोऽनोकहानां वृक्षाणामाकम्पितानीषत्कम्पितानि पुष्पाणि तेषां यो गन्धः सोऽस्यास्तीत्याकम्पितपुष्पगन्धी ईषत्कम्पितपुष्पगन्धवान्। एवं शीतो मन्दः सुरभिः पवनो वायुरनातपत्रं व्रतार्थं परिहृतच्छत्रम्। अत एव, आतपक्लान्तमाचारेण पूतं शुद्धं तं नृपं सिषेवे। आचारपूतत्वात्स राजा जगत्पावनस्यापि सेव्य आसीदिति भावः ॥
RV 2.14 उपजातिः
शशाम वृष्ट्यापि विना दवाग्निरासीद्विशेषो फलपुष्पवृद्धिः । ऊनं न सत्त्वेष्वधिको बबाधे तस्मिन्वनं गोप्तरि गाहमाने ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): शशामेति॥ गोप्तरि तस्मिन् राज्ञि वनं गाहमाने प्रविशति सति वृष्ट्या विनापि। दवाग्निर्वनाग्निः। `दवदावौ वनानले`इति हैमः। शशाम। फलानां पुष्पाणां च वृद्धिः। विशेष्यत इति विशेषा। अतिशयिताऽऽसीत्। कर्मार्थे धञ्प्रत्ययः। सत्त्वेषु जन्तुषु मध्ये। `यतश्च निर्धारणम्` (पा.2।3।41) इति सप्तमी। अधिकः प्रबलो व्याघ्रादिरूनं दुर्बलं हरिणादिकं न बबाधे ॥
RV 2.15 उपजातिः
संचारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् । प्रचक्रमे पल्लवरागताम्रा प्रभा पतङ्गस्य मुनेश्च धेनुः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): संचारपूतानीति॥ पल्लवस्य रागो वर्णः पल्लवरागः। `रागोऽनुरक्तौ मात्सर्ये क्लेशादौ लोहितादिषु` इति शाश्वतः। स इव ताम्रा पल्लवरागताम्रा पतङ्गस्य सूर्यस्य प्रभा कान्तिः। `पतङ्गः पक्षिसूर्ययोः` इति शाश्वतः। मुनेर्धेनुश्च। दिगन्तराणि दिशामवकाशान्। `अन्तरमवकाशावधिपरिधानान्तर्धिभादतादर्थ्ये` इत्यमरः। संचारेण पूतानि शुद्धानि कृत्वा दिनान्ते सायंकाले निलयायास्तमयाय;धेनुपक्षे, -आलयाय च। गन्तुं प्रचक्रमे॥
RV 2.16 उपजातिः
तां देवतापित्रतिथिक्रियार्थामन्वग्ययौ मध्यमलोकपालः । बभौ च सा मतेन सतां तेन श्रद्धेव साक्षाद्विधिनोपपन्ना ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तामिति॥ मध्यमलोकपालो भूपालः। देवतापित्रतिथीनां क्रिया यागश्राद्धदानानि ता एवार्थः प्रयोजनं यस्यास्तां तां धेनुमन्वगनुपदं ययौ। `अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम्` इत्यमरः (अ.को.3|1|77)। सतां मतेन सिद्धिर्मान्येन। `गतिबुद्धि-` (पा.1।4।52)इत्यादिना वर्तमाने क्तः। `क्तस्य च वर्तमाने` (पा.2।3।67)इति षष्ठी। तेन राज्ञोपपन्ना युक्ता सा धेनुः। सतां मतेन विधिनाऽनुष्ठानेनोपपन्ना युक्ता साक्षात् प्रत्यक्षा श्रद्धाऽऽस्तिक्यबुद्धिरिव। बभौ च ॥
RV 2.17 उपजातिः
स पल्वलोत्तीर्णवराहयूथान्यावासवृक्षोन्मुखबर्हिणानि । ययौ मृगाध्यासितशाद्वलानि श्यामायमानानि वनानि पश्यन् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स राजा। पल्वलेभ्योऽल्पजलाशयभ्य उत्तीर्णानि निर्गतानि वराहाणां यूथानि कुलानि येषु तानि। बर्हाण्येषां सन्तीति बर्हिणा मयूराः। `मयूरो बर्हिणो बर्ही` इत्यमरः (अ.को.2|5|32)। फलबर्हाभ्यामिनच्प्रत्ययो वक्तव्यः। आवासवृक्षा णामुन्मुखा बर्हिणा येषु तानि श्यामायमानानि वराहबर्हिणादिमलिनिम्ना श्यामानि। श्यामानि भवन्तीति श्यामायमानानि। `लोहितादिडाज्भ्यः क्यष्` (पा.3।1।13) इति क्यष्प्रत्ययः। `वा क्यषः` (पा.1।3।90) इत्यात्मनेपदे शानच्। मृगैरध्यासिता अधिष्ठिताः शाद्वला येषु तानि। शादाः शष्पाण्येषु देशेषु सन्तीति शाद्वलाः शष्पश्यामदेशाः। `शाद्वलः शादहरिते` इत्यमरः (अ.को.2|1|11)। `शादः कर्दमशष्पयोः` इति विश्वः। `नडशादादूङ्वलच्` (पा.4।2।88)इति ड्वलच्प्रत्ययः। वनानि पश्यन्ययौ ॥
RV 2.18 उपजातिः
आपीनभारोद्वहनप्रयत्नाद्धृष्टिर्गुरुत्वाद्वपुषो नरेन्द्रः । उभावलंचक्रतुरञ्चिताभ्यां तपोवनावृत्तिपथं गताभ्याम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): आपीनेति॥ गृष्टिः सकृत्प्रसूता गौः। `गृष्टिः सकृत्प्रसूता गौः` इति हलायुधः। नरेन्द्रश्च। उभौ यथाक्रमम्। आपीनमूधः। `ऊधस्तु क्लीबमापीनम्` इत्यमरः (अ.को.2|9|74)। आपीनस्य भारोद्वहने प्रयत्नात् प्रयासात् वपुषो गुरुत्वादाधिक्याञ्च। अञ्चिताभ्यां चारुभ्यां गताभ्यां गमनाभ्यां तपोवनादावृत्तेः पन्थास्तं तपोवनावृत्तिपथम्। `ऋक्पूः-` (पा.5।4।74)इत्यादिना समासान्तोऽप्रत्ययः। अलंचक्रतुर्भूषितवन्तौ ॥
RV 2.19 उपजातिः
वसिष्ठधेनोरनुयायिनं तमावर्तमानं वनिता वनान्तात् । पपौ निमेषालसपक्ष्मपङ्क्तिरुपोषिताभ्यामिव लोचनाभ्याम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): वसिष्ठेति॥ वसिष्ठधेनुयायिनमनुचरं वनान्तादावर्तमानं प्रत्यागतं तं दिलीपं वनिता सुदक्षिणा निमेषेष्वलसा मन्दा पक्ष्मणां पङ्क्तिर्यस्याः सा। अनिमेषा सतीत्यर्थः, लोचनाभ्यां करणाभ्याम्। उपोषिताभ्यामिव। उपवासो भोजननिवृत्तिः। तद्विद्भ्यामिव। वसतेः कर्तरि क्तः। पपौ। यथोपोषितोऽतितृष्णया जलमधिकं पिबति तद्वदतितृष्णयाधिकं व्यलोकयदित्यर्थः ॥
RV 2.20 उपजातिः
पुरस्कृता वर्त्मनि पार्थिवेन प्रत्युद्गता पार्थिवधर्मपत्न्या । तदन्तरे सा विरराज धेनुर्दिनक्षपामध्यगतेव संध्या ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): पुरस्कृतेति॥ वर्त्मनि पार्थिवेन पृथिव्या ईश्वरेण। `तस्येश्वरः` (पा.5।1।42)इत्यञ्प्रत्ययः। पुरस्कृताऽग्रतः कृता। धर्मस्य पत्नी धर्मपत्नी। धर्मार्थपत्नीत्यर्थः। अश्वघासादिवत्तादर्थ्ये षष्ठीसमासः। पार्थिवस्य धर्मपत्न्या सा धेनुस्तदन्तरे तयोर्दंपत्योर्मध्ये। दिनक्षपयोर्दिनरात्र्योर्मध्यगता संध्येव। रराज॥
RV 2.21 उपजातिः
प्रदक्षिणीकृत्य पयस्विनीं तां सुदक्षिणा साक्षतपात्रहस्ता । प्रणम्य चानर्च विशालमस्याः श्रृङ्गान्तरं द्वारमिवार्थसिद्धेः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): प्रदक्षिणीकृत्येति॥ अक्षतानां पात्रेण सह वर्तेते इति साक्षतपात्रौ ह्रस्तौ यस्याः सा सुदक्षिणा पयस्विनीं प्रशस्तक्षीरां तां धेनुं प्रदक्षिणीकृत्य प्रणम्य च। अस्याः धेन्वा विशालं शृङ्गमध्यम्। अर्थसिद्धेः कार्यसिद्धेर्द्वारं प्रवेशमार्गमिव। आनर्चार्चयामास, अर्चतेर्भौवादिकाल्लिट्॥
RV 2.22 उपजातिः
वत्सोत्सुकापि स्तिमिता सपर्यां प्रत्यग्रहीत्सेति ननन्दतुस्तौ । भक्त्योपपन्नेषु हि तद्विधानां प्रसादचिह्नानि पुरःफलानि ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): वत्सोत्सुकेति॥ सा धेनुर्वत्सोत्सुकापि वत्स उत्कण्ठितापि स्तिमिता निश्चला सती सपर्यां पूजां प्रत्यग्रहीदिति होतः, तौ दंपती ननन्दतुः। पूजास्वाकारस्यानन्दहेतुत्वमाह-भक्त्येति। पूज्येष्वनुरागो भक्तिः। तयोपपन्नेषु युक्त्वेषु विषये तद्विधानाम्। तस्या धेन्वा विधेव विधा प्रकारो येषां तेषाम्। महतामित्यर्थः। प्रसादस्य चिह्नानि लिङ्गानि पूजास्वीकारादीनि पुरःफलानि। पुरोगतानि प्रत्यासन्नानि फलानि येषां तानि हि। अविलम्बितफलसूचकलिङ्गदशनादानन्दो युज्यत इत्यर्थः॥
RV 2.23 उपजातिः
गुरोः सदारस्य निपीड्य पादौ समाप्य सांध्वं च विधिं दिलीपः । दोहावसाने पुनरेव दोग्ध्रीं भेजे भुजोच्छिन्नरिपुर्निषण्णाम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): गुरोरिति॥ भुजोच्छिन्नरिपुर्दिलीपः सदारस्य दारैररुन्धत्या सह वर्तमानस्य गुरोः, उभयोरपीत्यर्थः। `भार्या जायाथ पुं भूम्नि दाराः` इत्यमरः। पादौ निपीड्याभिवन्द्य। सांध्यं संध्यायां विहितं विधिननुष्ठानं च समाप्य। दोहावसाने निषण्णामासीनां दोग्ध्रीं दोहनशीलम्। `तृन्` (पा.3।2।135)इति तृन्प्रत्ययः। धेनुमेव पुनर्भेजे सेवितवान्। `दोग्ध्रीम्`इति निरुपपदप्रयोगात्कामधेनुत्वं गम्यते ॥
RV 2.24 उपजातिः
तामन्तिकन्यस्तबलिप्रदीपामन्वास्य गोप्ता गृहीणीसहायः । क्रमेण सुप्तामनु संविवेश सुप्तोत्थितां प्रातरनूदतिष्ठत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तामिति॥ गोप्ता रक्षको गृहिणीसहायः पत्नीद्वितीयः सन्। उभावपीत्यर्थः। अन्तिके न्यस्ता बलयः प्रदीपाश्च यस्यास्तां तथोक्तां तां पूर्वोक्तां निषण्णां धेनुमन्वास्यानूपविश्य क्रमेण सुप्तामन्वनन्तरं संविवेश सुष्वाप प्रातः सुप्तोत्थितामनूदष्ठिदुत्थितवान्। अत्र `अनु शब्देन धेनुगजव्यापारयोः पौर्वापर्यमुच्यते।` `क्रम`शब्देन धेनुव्यापाराणामेवेत्यपौनरुक्त्यम्। `कर्मप्रवचनीययुक्ते-` (पा.2।3।8)इति द्वितीया ॥
RV 2.25 उपजातिः
इत्थं व्रतं धारयतः प्रजार्थं समं महिण्या महनीयकीर्तेः । सप्त व्यतीयुस्त्त्रिगुणानि तस्य दिनानि दीनोद्धरणोचितस्य ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): इत्थमिति॥ इत्थमनेन प्रकारेण प्रजार्थं संतानाय महिष्या सममभिषिक्तपत्न्या सह। `कृताभिषेका महिषी` इत्यमरः (अ.को.2|6|5)। व्रतं धारयतः। महनीया पूज्या कीर्तिर्यस्य तस्य दीनानामुद्धरणं दैन्दविमोचनम्। तत्रोचितस्य परिचितस्य तस्य नृपस्य। त्रयो गुणा आवृत्तयो येषां तानि त्रिगुणानि त्रिरावृत्तानि सप्त दिनान्येकविंशतिदिनानि व्यतीयुः ॥
RV 2.26 इन्द्रवज्रा
अन्येद्युरात्मानुचरस्य भावं जिज्ञासमाना मुनिहोमधेनुः । गङ्गाप्रपातान्तविरूढशष्पं गौरीगुरोर्गह्वरमाविवेश ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अन्येद्युरिति॥ अन्येद्युरन्यस्मिन्दिने द्वाविंशे दिने। `सद्यः परुत्परारि- (पा.5।3।22)` इत्यादिना निपातनादव्ययम्। `अद्यात्राह्लाय पूर्वेऽह्रीत्यादौ पूर्वोत्तरापरात् । तथाधरान्यान्यतरेतरात्पूर्वेंद्युरादयः ॥` इत्यमरः। मुनिहोमधेनुः आत्मानुचरस्य भावमभिप्रायं दृढभक्तित्वम्। `भावोऽभिप्राय आशयः` इति यादवः। जिज्ञासमाना ज्ञातुमिच्छन्ती। `ज्ञाश्रुस्मृदृशां सनः` (पा.1।3।57)इत्यात्मनेपदे शानच्। प्रपतत्यस्मिन्निति प्रपातः पतनप्रदेशः गङ्गायाः प्रपातस्तस्यान्ते समीपे विरूढानि जातानि शष्पाणि बालतृणानि यस्मिंस्तत्। `शष्पं बालतृणं घासः` इत्यमरः। गौरीगुरोः पार्वतीपितुर्गह्वरं गुहामाविवेश ॥
RV 2.27 उपजातिः
सा दुष्प्रधर्षा मनसापि हिंस्रैरित्यद्रिशोभाप्रहितेक्षणेन । अलक्षिताभ्युत्पतनो नृपेण प्रसह्य सिंहः किल तां चकर्ष ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): सेति॥ सा धेनुर्हिंस्रैर्व्याघ्रादिभिर्मनसाऽपि दुष्प्रधर्षा दुर्धर्षेति हेतोः, अद्रिशोभायां प्रहितेक्षणेन दत्तदृष्टिना नृपेणालक्षितमभ्युत्पतनमाभिमुख्येनोत्पतनं यस्य स सिंहस्तां धेनुं प्रसह्य हठात्। `प्रसह्य तु हठार्थकम्` इत्यमरः (अ.को.3|4|10)। चकर्ष। `किल` इत्यलीके ॥
RV 2.28 उपजातिः
तदीयमाक्रन्दितमार्तसाधोर्गुहानिबद्धप्रतिशब्ददीर्घम् । रश्मिष्ववादाय नगेन्द्रसक्तां निवर्तयामास नृपस्य दृष्टिम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तदीयमिति॥ गुहानिबद्धेन प्रतिशब्देन प्रतिध्वनिना दीर्घम्। तस्या इदं तदीयम्। आक्रन्दितमार्तघोषणम्। आर्तेष्वापन्नेषु साधोर्हितकारिणो नृपस्य नगेन्द्रसक्तां दृष्टिम्। रश्मिषु प्रग्रहेषु। `किरणप्रग्रहौ रश्मी` इत्यमरः (अ.को.3|3|146)। आदायेव गृहीत्वेव। निवर्तयामास॥
RV 2.29 उपजातिः
स पाटलायां गवि तस्थिवांसं धनुर्धरः केसरिणं ददर्श । अधित्यकायामिव धातुमय्यां लोध्रद्रुमं सानुमतः प्रफुल्लम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ धनुर्धरः स नृपः पाटलायां रक्तवर्णायां गवि तस्थिवांसं स्थितम्। `क्कसुश्च` (पा.3।2।102)इति क्वसुप्रत्ययः। केसरिणं सिंहम्। सानुमत्तोऽद्रेः। धातोर्गैरिकस्य विकारो धातुमयी। तस्यामधित्यकायामूर्ध्वभूमौ। `उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमाधित्यका` इत्यमरः। `उपाधिभ्यां त्यकन्नासन्नारूढयोः (पा.5।2।34) इति त्यकन्प्रत्ययः। प्रफुल्लो विकसितस्तम्। `फुल्ल विकसने` इति धातोः पचाद्यच्। `प्रफुल्तम्`इति तकारपाठे ञिफला विशरणे` इति धातोः कर्तरि क्तः। `उत्परस्यातः` (पा.7।4।88)इत्युकारादेशः। लोध्राख्यं द्रुममिव ददर्श॥
RV 2.30 उपजातिः
ततो मृगेन्द्रस्य मृगेन्द्रगामी वधाय वध्यस्य शरं शरण्यः । जाताभिषङ्गो नृपतिर्निषङ्गादुद्धर्तुमैच्छत्प्रसभोद्धृतारिः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तत इति॥ ततः सिंहदर्शनानन्तरं मृगेन्द्रगामी सिंहगामी। शरणं रक्षणम्। `शरणं गृहरक्षित्रोः` इत्यमरः (अ.को.3|3|59)। `शरणं रक्षणे गृहे`इति यादवः। शरणे साधुः शरण्यः, `तत्र साधुः` (पा.4।4।98) इति यत्प्रत्ययः। प्रसभेन बलात्कारेणोद्धृता अरयो येन स नृपती राजा जाताभिषङ्गो जातपराभवः सन्। `अभिषङ्गः पराभवे` इत्यमरः (अ.को.3|3|59)। वध्यस्य वधार्हस्य। `दण्डादिभ्यो यत्` (पा.5।1।66) इति यत्प्रत्ययः। मृगन्द्रस्य वधाय निषङ्गात्तूणीरात् `तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः` इत्यमरः (अ.को.2|8|88)। शरमुद्धर्तुमैच्छत् ॥
← Previous (Ch. 1) Full Table of Contents Next (Ch. 3) →