Skip to main content
Search
Full Chapter
RV • Chapter 2: Canto 2

RV 2.4

Canonical Ref: RV 2.4
Metrical Form: उपेन्द्रवज्रा
Sanskrit (Devanāgarī)
व्रताय तेनानुचरेण धेनोर्न्यषेधि शेषोऽप्यनुयायिवर्गः । न चान्यतस्तस्य शरीररक्षा स्ववीर्यगुप्ता हि मनोः प्रसूतिः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): व्रतायेति॥ व्रताय धेरोरनुचरेण। न तु जीवनायेति भावः। तेन दिलीपेन शेषोऽवशिष्टोऽप्यनुयायिवर्गोऽनुचरवर्गो न्यषेधि निवर्तितः। शेषत्वं सुदक्षिणापेक्षया। कथं तर्ह्यात्मरक्षणमत आह-न चेति। तस्य दिलीपस्य शरीररक्षा चान्यतः पुरुषान्तरान्न। कुतः? हि यस्मात्कारणान्मनोः। प्रसूयत इति प्रसूतिः संततिः स्ववीर्यगुप्ता स्ववीर्येणैव रक्षिता। न हि स्वनिर्वाहकस्य परापेक्षेति भावः ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 2.4. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 2.3) All Verses in Chapter 2 Next Verse (RV 2.5) →