Skip to main content
Search
Full Chapter
RV • Chapter 2: Canto 2

RV 2.3

Canonical Ref: RV 2.3
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
निवर्त्य राजा दयितां दयालुस्तां सौरभेयीं सुरभिर्यशोभिः । पयोधरीभूतचतुःसमुद्रां जुगोप गोरूपधरामिवोर्वीम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): निवर्त्येति॥ दयालुः कारुणिकः। `स्याद्दयालुः कारुणिकः` इत्यमरः (अ.को.3|1|15)। `स्पृहिगृहि-` (पा.3।2।158)इत्यादिनालुच्प्रत्ययः। यशोभिः सुरभिर्मनोज्ञः। `सुरभिः स्यान्मनोज्ञेऽपि` इति विश्वः। स राजा तां दयितां निवर्त्य सौरभेयीं कामधेनुसुतां नन्दिनीम्। धरन्तीति धराः। पचाद्यच्। पयसां धराः पयोधराः स्तनाः। `स्त्रीस्तनाब्दौ पयोधरौ` इत्यमरः (अ.को.3|3|172)। अपयोधराः पयोधराः संपद्यमानाः पयोधरीभूताः। अभूततद्भावे च्विः। `कुगतिप्रादयः` (पा.2।2।18) इति समासः। पयोधरीभूताश्चत्वारः समुद्रा यस्यास्ताम्। `अनेकमन्यपदार्थे` (पा.2।2।24) इत्यनेकपदार्थग्रहणसामर्थ्यात्त्रिपदो बहुव्रीहिः। गोरूपधरामुर्वीमिव। जुगोप ररक्ष। भूरक्षणप्रयत्नेनेव ररक्षेति भावः। धेनुपक्षे, -पयसा दुग्धेनाधरीभूताश्चत्वारः समुद्रा यस्याः सा तथोक्ता ताम्। दुग्धतिरस्कृतसागरामित्यर्थः॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 2.3. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 2.2) All Verses in Chapter 2 Next Verse (RV 2.4) →