Skip to main content
Search
RV
Raghuvaṁśam • Chapter 02

Canto 2

द्वितीयः सर्गः (नन्दिनीवरप्रदानम्)

Canto 2 of Raghuvaṁśam.

Total: 75 Verses • Citations: RV 2.1–75 • 1 Lexicon Terms • Page 3 of 3 (Verses 15 shown)
RV 2.61 उपजातिः
उत्तिष्ठ वत्सेत्यमृतायमानं वचो निशम्योत्थितमुत्थितः सन् । ददर्श राजा जननीमिव स्वां गामग्रतः प्रस्रविणीं न सिंहम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): उत्तिष्ठेति॥ राजा। अमृतमिवाचरतीत्यमृतायमानम्। `उपमानादाचारे` (पा.3।1।10)इति क्यच्। ततः शानच्। उत्थितमुत्पन्नम्, `हे वत्स! उत्तिष्ठ` इति वचो निशम्य श्रुत्वा। उत्थितः सन्। अस्तेः शतृप्रत्ययः। अग्रतोऽग्रे प्रस्रवः क्षीरस्रावोऽस्ति यस्याः सा तां प्रस्रविणीं गां स्वां जननीमिव ददर्श। सिंहं न ददर्श ॥
RV 2.62 उपजातिः
तं विस्मितं धेनुरुवाच साधो! मायां मयोद्भाव्य परीक्षितोऽसि । ऋषिप्रभावान्मयि नान्तकोऽपि प्रभुः प्रहर्तुं किमुतान्यहिंस्राः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ विस्मितमाश्चर्यं गतम्। कर्तरि क्तः। तं दिलीपं धेनुरुवाच । किमित्यत्राह-हे साधो! मया मायामुद्भाव्य कल्पयित्वा परीक्षितोऽसि। ऋषिप्रभावान्मय्यन्तको यमोऽपि प्रहर्तुं न प्रभुर्न समर्थः। अन्ये हिंस्ना घातुकाः। `शरारुर्घातुको हिंस्रः` इत्यमरः (अ.को.3|1|28)। `नमिकम्पि-` (पा.3।1।167)इत्यादिना रप्रत्ययः। किमुत सुष्ठु, न प्रभव इति योज्यम्। `बलवत्सुष्टु किमुत स्वत्यतीव च निर्भरे` इत्यमरः (अ.को.3|1|28) ॥
RV 2.63 उपजातिः
भक्त्या गुरौ मय्यनुकम्पया च प्रीतास्मि ते पुत्र! वरं वृणीष्व । न केवलानां पयसां प्रसूतिमवेहि मां कामदुघां प्रसन्नाम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): भक्त्येति॥ हे पुत्र! गुरौ। भक्त्या। मय्यनुकम्पया च। ते तुभ्यं प्रीताऽस्मि। `क्रियाग्रहणमपि कर्तव्यम्` इति चतुर्थी। वरं देवेभ्यो वरणीयमर्थम्। `देवाद्धृते वरः श्रेष्ठे त्रिषु क्लीबं मनाक्प्रिये` इत्यमरः। वृणीष्व स्वीकुरु। तथा हि-मां केवलानां पयसां प्रसूतिं कारणं नावेहि न विद्धिः। किंतु प्रसन्नां माम्। कामान्दोग्धीति कामदुघा। तामवेहि। `दुहः कब्थश्च` (पा.3।2।70) इति कप्प्रत्ययः ॥
RV 2.64 उपजातिः
ततः समानीय स मानितार्थी हस्तौ स्वहस्तार्जितवीरशब्दः । वंशस्य कर्तारमनन्तकीर्तिं सुदक्षिणायां तनयं ययाचे ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तत इति॥ ततो मानितार्थी। स्वहस्तार्जितो वीर इति शब्दो येन सः। एतेनास्य दातृत्वं दैन्यराहित्यं चोक्तम्। स राजा हस्तौ समानीय संधाय। अञ्जलिं बद्ध्वेत्यर्थः। वंशस्य कर्तारं प्रवर्तयितारम्। अत एव रघुकुलमिति प्रसिद्धिः। अनन्तकीर्तिं स्थिरयशसं तनयं सुदक्षिणायां ययाचे ॥
RV 2.65 इन्द्रवज्रा
संतानकामाय तथेति कामं राज्ञे प्रतिश्रुत्य पयस्विनी सा । दुग्ध्वा पयः पत्रपुटे मदीयं पुत्रोपभुङ्क्ष्वेति तमादिदेश ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): संतानेति॥ सा पयस्विनी गौः। संतानं कामयत इति ह्यंतानकामः। `कर्मण्यण्` (पा.3।2।1)तस्मै राज्ञे तथेति। काम्यत इति कामो वरः। कर्मार्थे घञप्रत्ययः। तं प्रतिश्रुत्य प्रतिज्ञाय, `हे पुत्र!मदीयं पयः पत्रपुटे पत्रनिर्मिते पात्रे दुग्ध्वोपभुङ्क्ष्व पिब` इति तमादिदेशाज्ञापितवती। `उपयुङ्क्ष्व` इति वा पाठः॥
RV 2.66 उपजातिः
वत्सस्य होमार्थविधेश्च शेषमृषेरनुज्ञामधिगम्य मातः । ऊधस्यमिच्छामि तवोपभोक्तुं षष्ठांशमुर्व्या इव रक्षितायाः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): वत्सस्येति॥ हे मातः!वत्सस्य वत्सपीतस्य शेषम्। वत्सपीतावशिष्टमित्यर्थथः। होम एवार्थः। तस्य विधिरनुष्ठानम्। तस्य च शेषम्। होमावशिष्टमित्यर्थः। तव। ऊधसि भवमूधस्यं क्षीरम्। `शरीरावयवाञ्च` (पा.4।3।55)इति यत्प्रत्ययः। पक्षिताया उर्व्याः षष्ठांशं षष्ठभागमिव। ऋषेरनुज्ञामधिगम्य उपभोक्तुमिच्छामि ॥
RV 2.67 उपजातिः
इत्थं क्षितीशेन वसिष्ठधेनुर्विज्ञापिता प्रीततरा बभूव । तदन्विता हैमवताञ्च कुक्षेः प्रत्याययावाश्रममश्रमेण ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): इत्थमिति॥ इत्थं क्षितीशेन विज्ञापिता वसिष्ठस्य धेनुः प्रीततरा पूर्वं शुश्रूषया प्रीता। संप्रत्यनया विज्ञापनया प्रीततराऽतिसंतुष्टा बभूव। तदन्विता तेन दिलीपेनान्विता हैमवताद्धिमवत्संबन्धिनः कुक्षेगुहायाः सकाशादश्रमेणानायासेनाश्रमं प्रत्याययावागता च ॥
RV 2.68 उपजातिः
तस्याः प्रसन्नेन्दुमुखः प्रसादं गुरुर्नृपाणां गुरवे निवेद्य । प्रहर्षचिह्नानुमितं प्रियायै शशंस वाचा पुनरुक्तयेव ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तस्या इति॥ प्रसन्नेन्दुरिव मुखं यस्य स नृपाणां गुरुर्दिलीपः प्रहर्षचिह्नैर्मुखरागादिभिरनुमितमभ्यूहितं तस्या धेनोः प्रसादमनुग्रहं प्रहर्षचिह्नैरेव ज्ञातत्वात्पुनरुक्तयेव वाचा गुरवे निवेद्य विज्ञाप्य पश्चात्प्रियायै शशंस । कथितस्यैव कथनं पुनरुक्तिः, न चेह तदस्ति। किंतु चिह्नैः कथितप्रायत्वात्पुनरुक्तयेव स्थितयेवेत्युत्प्रेक्षा ॥
RV 2.69 उपजातिः
स नन्दिनीस्तन्यमनिन्दितात्मा सद्वत्सलो वत्सहुतावशेषम् । पपौ वसिष्ठेन कृताभ्यनुज्ञः शुभ्रं यशो मूर्तमिवातितृष्णः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ अनिन्दितात्माऽगर्हितस्वभावः। सत्सु वत्सलः प्रेमवान् सद्वत्सलः। `वत्सांसाभ्यां कामबले` (पा.5।2।98)इति लच्प्रत्ययः। वसिष्ठेन कृताभ्यनुज्ञः कृतानुमतिः स राजा वत्सस्य हुतस्य चावशेषं पीतहुतावशिष्टं नन्दिन्याः स्तन्यं क्षीरम्। शुभ्रं मूर्तं परिच्छिन्नं यश इव। अतितृष्णः सन्पपौ ॥
RV 2.70 इन्द्रवज्रा
प्रातर्यथोक्तव्रतपारमान्ते प्रास्थानिकं स्वस्त्ययनं प्रयुज्य । तौ दंपती स्वां प्रति राजधानीं प्रस्थापयामास वशी वसिष्ठः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): प्रातरिति॥ वशी वसिष्ठः प्रातः। यथोक्तस्य पूर्वोक्तस्य व्रतस्य गोसेवारूपस्याङ्गभूता या पारणा तस्या अन्ते प्रास्थानिकं प्रस्थानकाले भवम्। तत्कालोचितमित्यर्थथः। `कालाट्टञ्` (पा.4।3।11) इति ठञ्प्रत्ययः। `यथाकथंचिद्गुणवृत्त्यापि काले वर्तमानत्वात्तत्प्रत्यय इष्यते` इति वृत्तिकारः। ईयते प्राप्यतेऽनेनेत्ययनं स्वस्त्ययनं शुभावहमाशीर्वादं प्रयुज्य । तौ दंपती स्वां राजधानीं पुरीं प्रति प्रस्थापयामास ॥
RV 2.71 उपेन्द्रवज्रा
प्रदक्षिणीकृत्य हुतं हुताशमनन्तरं भर्तुररुन्धतीं च । धेनुं सवत्सां च नृपः प्रतस्थे सन्मङ्गलोदग्रतप्रभावः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): प्रदक्षिणीकृत्येति॥ नृपो हुतं तर्पितम्। हुतमश्नातीति हुताशोऽग्निः। `कर्मण्यण्` (पा.3।2।12)। तं भर्तुर्मुनेरनन्तरम्। प्रदक्षिणानन्तरमित्यर्थः। अरुन्धतीं च सवत्सां धेनुं च प्रदक्षिणीकृत्य । प्रगतो दक्षिणं प्रदक्षिणम्। `तिष्ठद्गुप्रभृतीनि च` (पा.2।1।17) इत्यव्ययीभावः। ततश्चिवः। अप्रदक्षिणं प्रदक्षिणं संपद्यमानं कृत्वा प्रदक्षिणीकृत्य। सद्भिर्मङ्गलैः प्रदक्षिणादिभिर्मङ्गलाचारैरुदग्रतरप्रभावः सन्। प्रतस्थे ॥
RV 2.72 उपजातिः
श्रोत्राभिरामध्वनिना रथेन स धर्मपत्नीसहितः सहिष्णुः । ययावनुद्धातसुखेन मार्गं स्वेनेव पूर्णेन मनोरथेन ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): श्रोत्रेति॥ धर्मपत्नीसहितः सहिष्णुर्व्रतादिदुःखसहनशीलः स नृपः श्रोत्राभिरामध्वनिना कर्णाह्लादकरस्वनेनानुद्धातः पाषाणादि प्रति घातरहितः। अत एव सुखयतीति सुखः, तेन रथेन। स्वेन पूर्णेन सफलेन मनोरथेनेव। मार्गमध्वानं ययौ। मनोरथपक्षे, -ध्वनिः श्रुतिः। अनुद्धातः प्रतिबन्धनिवृत्तिः॥
RV 2.73 उपजातिः
तमाहितौत्सुक्यमदर्शनेन प्रजाः प्रजार्थव्रतकर्शिताङ्गम् । नेत्रैः पपुस्तृप्तिमनाप्नुवद्भिर्नवोदयं नाथमिवौषधीनाम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ अदर्शनेन प्रवासनिमित्तेनाहितौत्सुक्यं जनितदर्शनोत्कण्ठम्। प्रजार्थेन संतानार्थेन व्रतेन नियमेन कर्शितं कृशीकृतमङ्गं यस्य तम्। नवोदयं नवाभ्युदयं प्रजास्तृप्तिमनाप्नुवद्भिरतिगृध्नुभिर्नेत्रैः। ओषधीनां नाथं सोममिव। तं राजानं पपुः । अत्यास्थया ददृशुरित्यर्थः। चन्द्रपक्षे, -अदर्शनं कलाक्षयनिमित्तम्। प्रजार्थे लोकहितार्थम्। व्रतं देवताभ्यः कलादाननियमः-`तं च सोमं पपुर्देवाः पर्यायेणानुपूर्वशः` इति व्यासः। उदय आविर्भावः । अन्यत्समानम्॥
RV 2.74 उपजातिः
पुरंदरश्रीः पुरमुत्पताकं प्रविश्य पौरैरभिनन्द्यमानः । भुजे भुजंगेन्द्रसमानसारे भूयः स भूमेर्धुरमाससञ्ज ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): पुरंदरेति॥ पुरः पुरीरसुराणां दारयतीति पुरंदरः शकः। `पूःसर्वयोर्दारिसहोः` (पा.3।2।41)इति खच्प्रत्ययः। `वाचंयमपुरंदरौ च` (पा.6।3।69)इति मुमागमो निपातितः। तस्य श्रीरिव श्रीर्यस्यसः। स नृपः पौरैरभिनन्द्यमानः। उत्पताकमुच्छ्रितध्वजम्। `पताका वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम्` इत्यमरः (अ.को.2|8|99)। पुरं प्रविश्य भुजंगेन्द्रेण समानसारे तुल्यबले। `सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रुषु` इत्यमरः (अ.को.2|8|99)। भुजे भूयो भूमेर्धुरमाससञ्ज अर्पितवान्॥
RV 2.75 मालिनी
अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौः सुरसरिदिव तेजो वह्निनिष्ठ्यूतमैशम् । नरपतिकुलभूत्यै गर्भमाधत्त राज्ञी गुरुभिरभिनिविष्टं लोकपालानुभावैः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ द्यौः सुरवर्त्म। `द्यौः स्वर्गसुरवर्त्मनोः` इति विश्वः। अत्रेर्महर्षेर्नयनयोः समुत्थमुत्पन्नं नयनसमुत्थम्। `आतश्चोपसर्गे` (पा.3।1।136)इति कप्रत्ययः। ज्योतिरिव। चन्द्रमिवेत्यर्थः। `ऋक्षेशः स्यादत्रिनेत्रप्रसूतः` इति हलायुधः। चन्द्रस्यात्रिनेत्रोद्भूतत्वमुक्तं हरिवंशे-`नेत्राभ्यां वारि सुस्नाव दशधा द्योतयद्दिशः। तद्गर्भविधिना हृष्टा दिशो देव्यो दधुस्तदा। समेत्य धारयामासुर्न चैताः समशक्नुवन्। स ताभ्यः सहसैवाथ दिग्भ्यो गर्भः प्रभान्वितः। पपात पावयँल्लोकाञ्छीतांशुः सुरभावनः॥` इति। सुरसरिद्गङ्गा वह्निना निष्ठ्यूतं विक्षिप्तम्। `च्छ्वोः शूडनुनासिके च` (पा.6।4।19)इत्यनेन निपूर्वात्ष्ठीवतेर्वकारस्य ऊठ्। `नुत्तनुन्नास्तनिष्ठ्यूताविद्धक्षिप्तेरिताः समाः` इत्यमरः (अ.को.3|1|86)। ऐशं तेजः स्कन्दमिव। अत्र रामायणम्(बाल.3।6।10)-`ते गत्वा पर्वतं राम! कैलासं धातुमण्डितम्। अग्निं नियोजयामासुः पुत्रार्थं सर्वदेवताः। देवकार्यमिदं देव समाधत्स्व हुताशन!। शैलपुत्र्यां महातेजो गङ्गायां तेज उत्सृज। देवतानां प्रतिज्ञाय गङ्गामभ्येत्य पावकः। गर्भँ धारय वै देवि! देवतानामिदं प्रियम्। इत्येतद्वचनं श्रुत्वा दिव्यं रूपमधारयत्। स तस्यामहिमां दृष्ट्वा समन्तादवशीर्यत। समन्ततस्तु तां देवीमभ्यषिञ्चत पावकः। सर्वस्नोतांसि पूर्णानि गङ्गाया रघुनन्दन!॥` इति। राज्ञी सुदक्षिणा नरपतेर्दिलीपस्य कुलभूत्यै संततिलक्षणायै गुरुभिर्महद्भिर्लोकपालानामनुभावैस्तेजोभिरभिनिविष्टमनुप्रविष्टं गर्भमाधत्त। दधावित्यर्थः। अत्र मनुः(5।96)-`अष्टानां लोकपालानां वपुर्धारयते नृपः` इति। अत्र `आधत्त` इत्यनेन स्त्रीकर्तृकधारणमात्रमुच्यते। तथा मन्त्रे च दृश्यते-`यथेयं पृथिवी मह्युत्ताना गर्भमादधे। एवं त्वं गर्भमाधेहि दशमे मासि सूतवे।` इत्याश्वलायनानां सीमन्तमन्त्रे स्त्रीव्यापारधारण आधानशब्दप्रयोगदर्शनादिति। मालिनीवृत्तमेतत्। तदुक्तम्-`ननमयययुतेयं मालिनी भोगिलोकैः` इति लक्षणात् ॥
← Previous (Ch. 1) Full Table of Contents Next (Ch. 3) →