Skip to main content
Search
RV
Raghuvaṁśam • Chapter 01

Canto 1

प्रथमः सर्गः (वसिष्ठाश्रमाभिगमनम्)

Canto 1 of Raghuvaṁśam.

Total: 95 Verses • Citations: RV 1.1–95 • 1 Lexicon Terms • Page 1 of 4 (Verses 30 shown)
RV 1.1 अनुष्टुप्
वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये । जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): वागर्थाविति॥ `वागर्थाविव` इत्येकं पदम् । इवेन सह नित्यसमासो विभक्त्यलोपश्च पूर्वपदप्रकृतिस्वरत्वं चेति वक्तव्यम्, एवमन्यत्रापि द्रष्टव्यम्। वागर्थाविव शब्दार्थाविव, संपृक्तौ । नित्यसंबद्धावित्यर्थथः। नित्यसंबद्धयोरुपमानत्वेनोपादानात् `नित्यः शब्दार्थसंबन्धः` इति मीमांसकाः। जगतो लोकस्य पितरौ। माता च पिता च पितरौ, `पिता मात्रा` (पा.1।2।70) इति द्वन्द्वैकशेषः। `मातापितरौ पितरौ मातरपितरौ प्रसू जनयितारौ` इत्यमरः। एतेन शर्वशिवयोः सर्वजगज्जनकतया वैशिष्ट्यमिष्टार्छप्रदानशक्तिः परमकारुणिकत्वं च सूच्यते। पर्वतस्यापत्यं स्त्री पार्वती। `तस्यापत्यम्` (पा.4।1।92) इच्यण्, `टिङ्ढाणञ्-` (पा.4।1।15)इत्यादिना ङीप्। पार्वती च परमेश्वरश्च पार्वतीपरमेश्वरौ। `परम` शब्दः सर्वोत्तमत्वद्योतनार्थः। मातुरभ्यर्हितत्वादल्पाक्षरत्वाञ्च `पार्वती`शब्दस्य पूर्वनिपातः। वागर्थप्रतिपत्तये शब्दार्थयोः सम्यग्ज्ञानार्थं वन्देऽभिवादये। अत्रोपमालंकारः स्फुट एव। तथोक्तम्- `स्वतः सिद्धेन भिन्नेन संपन्नेन च धर्मतः। साम्यमन्येन वर्ण्यस्य वाच्यं चेदेकगोपमा ॥` इति। प्रायिकश्चोपमालंकारः कालिदासोक्तकाव्यादौ भूदेवताकस्य सर्वगुरोर्मगणस्य प्रयोगाच्छुभलाभः सूच्यते। तदुक्तम्-`शुभदो मो भूमिमयः` इति। वकारस्यामृतबीजत्वात्प्रचयगमनादिसिद्धिः ॥
RV 1.2 अनुष्टुप्
क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः । तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): क्व सूर्येति॥ प्रभवत्यस्मादिति प्रभवः कारणम्। `ॠदोरप्` (पा.3।3।57)। `अकर्तरि च कारके संज्ञायाम्` (पा.3।3।19) इति साधुः। सूर्यः प्रभवो यस्य स सूर्यप्रभवो वंशः क्व? अल्पो विषयो ज्ञेयोऽर्थो यस्याः सा मे मतिः प्रज्ञा च क्व? द्वौ `क्व`शब्दौ महदन्तरं सूचयतः। सूर्यवंशमाकलयितुं न शक्नोमीत्यर्थः। तथा च तद्विषयप्रबन्धनिरूपणं तु दूरापास्तमिति भावः। तथा हि-दुस्तरं तरितुमशक्यम्। `ईषद्दुःसुषु-` (पा.3।3।126) इत्यादिना खल्प्रत्ययः। सागरं मोहादज्ञानात् उडुपेन प्लवेन। `उडुपं तु प्लवः कोलः` इत्यमरः (अ.को.1|10|11)। अथवा, -चर्मावनद्धेन पानपात्रेण। `चर्मावनद्धमुडुपं प्लवः काष्ठं करण्डवत्` इति सज्जनः। तितीर्षुस्तरितुमिच्छुः। अस्मि भवामि। तरतेः सन्नन्तादुप्रत्ययः। अल्पसाधनैरधिकारम्भोन सुकर इति भावः। इदं च वंशोत्कर्षकथं स्वप्रबन्धमहत्त्वार्थमेव। तदुक्तम्-`प्रतिपाद्यमहिम्ना च प्रबन्धो हि महत्तरः` इति ॥
RV 1.3 अनुष्टुप्
मन्दः कवियशःप्रार्थी गमिष्याम्युपहास्यताम् । प्रांशुलभ्ये फले लोभादुद्बाहुरिव वामनः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): मन्द इति॥ किं च मन्दो मूढः। `मूढाल्पापटुनिर्भाग्या मन्दाः स्युः` इत्यमरः (अ.को.3|3|102)। तथापि कवियशःप्रार्थी। कवीनां यशः काव्यनिर्माणेन जातं तत्प्रार्थनाशीलोऽहं प्रांशुनोन्नतपुरुषेण लभ्ये प्राप्ये फले फलविषये लोभादुद्बाहुः फलग्रहणायोच्छ्रितहस्तो वामनः ह्रस्व इव। `खर्वो ह्रस्वश्च वामनः` इत्यमरः (अ.को.2|6|46)। उपहास्यता-मुपहासविषयताम्। `ऋहलोर्ण्यत्` (पा.3।1।124) इति ण्यत्प्रत्ययः। गमिष्यामि प्राप्स्यामि ॥
RV 1.4 अनुष्टुप्
अथ वा कृतवाग्द्वारे वंशेऽस्मिन्पूर्वसूरिभिः । मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अथ वेति॥ अथ वा पक्षान्तरे। पूर्वैः सूरिभिः कविभिर्वाल्मीक्यादिभिः कृतवाग्द्वारे कृतं रामायणादिप्रबन्धरूपा या वाक् सैव द्वारं प्रवेशो यस्य तस्मिन्। अस्मिन् सूर्यप्रभवे वंशे कुले। जन्मनैकलक्षणः संतानो वंशः। वज्रेण मणिवेधकसूचीविशेषण। `वज्रं त्वस्त्त्री कुलिशशस्त्त्रयोः। मणिवेधे रत्नभेदे` इति केशवः। समुत्कीर्णे विद्धे मणौ रत्ने सूत्रस्येव मे मम गतिः संचारोऽस्ति। वर्णनीये रघुवंशे मम वाक्प्रसरोऽस्तीत्यर्थः ॥
RV 1.5 अनुष्टुप्
सोऽहमाजन्मशुद्धानामाफलोदयकर्मणाम् । आसमुद्रक्षितीशानामानाकरथवर्त्मनाम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): सोऽहमिति॥ सोऽहम्। `रघूणामन्वयं वक्ष्ये` (1।9) इत्युत्तरेण संबन्धः। किंविधानां रघूणामित्यत्रोत्तराणि विशेषणानि योज्यानि। आ जन्मनः। जन्माभ्येत्यर्थथः। `आङ् मर्यादाभिविध्योः` (पा.2।1।13) इत्यव्ययीभावः, तस्य शुद्धानामित्यनेन सुप्सुपेति समासः। एवमुत्तरत्रापि द्रष्टव्यम्। आजन्मशुद्धानाम्। निषेकादिसर्वसंस्कारसंपन्नानामित्यर्थथः। आफलोदयम्। आफलसिद्धेः कर्म येषां ते तथोक्तास्तेषाम्। प्रारब्धान्तगामिनामित्यर्थः। आसमुद्रं क्षितेरीशानाम्। सार्वभौमाणामित्यर्थः। आनाकं रथवर्त्म येषां तेषाम्। इन्द्रसहचारिणामित्यर्थः। अत्र सर्वत्राऽऽङोऽभिविध्यर्थत्वं द्रष्टव्यम्। अन्यथा मर्यादार्थत्वे जन्मादिषु शुध्द्यभावप्रसङ्गात् ॥
RV 1.6 अनुष्टुप्
यथाविधिहुताग्नीनां यथाकामार्चितार्थिनाम् । यथापराधदण्डानां यथाकालप्रबोधिनाम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): यथाविधीति॥ विधिमनतिक्रम्य यथाविधि। `यथासादृश्ये` (पा.2।1।7) इत्यव्ययीभावः। तथा `हुत`शब्देन सुप्सुपेति समासः। एवं `यथाकामार्जित-` इत्यादीनामपि द्रष्टव्यम्। यथाविधि हुता अग्नयो यैस्तेषाम्। यथाकाममभिलाषमनतिक्रम्यार्चितार्थिनाम्। यथापराधमपराधमनतिक्रम्य दण्ढो येषां तेषाम्। यथाकालं कालमनतिक्रम्य प्रबोधिनां प्रबोधनशीनलानाम्। चतुर्भिर्विशेषणैर्देवतायजनातिथिसत्कारदण्डधरत्वप्रजापालनसमयजागरूकत्वादीनि विवक्षितानि ॥
RV 1.7 अनुष्टुप्
त्यागाय संभृतार्थानां सत्याय मितभाषिणाम् । यशसे विजिगीषूणां प्रजायै गृहमेधिनाम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): त्यागायेति॥ त्यागाय सत्पात्रे विनियोगस्त्यागः, तस्मै। `त्यागो विहापितं दानम्` इत्यमरः (अ.को.2|7|31)। संभृतार्थानां संचितधनानाम् । न तु दुर्व्यापाराय। सत्यायमितभाषिणां मितभाषणशीलानाम्, न तु पराभवाय। यशसे कीर्तये। `यशः कीर्तिः समज्ञा च` इत्यामरः। विजिगीषूणां विजेतुमिच्छूनाम्। न त्वर्थसंग्रहाय। प्रजायै संतानाय गृहमेधिनां दारपरिग्रहाणाम्, न तु कामोपभोगाय। अत्र `त्यागाय` इत्यादिषु `चतुर्थी तदर्थ-` (पा.2।1।36) इत्यादिना तादर्थ्ये चतुर्थी। गृहैर्दारैर्मेधन्ते संगच्छन्त इति गृहमेधिनः। `दारेष्वपि गृहाः` इत्यमरः (अ.को.2|7|31)। `जाया च गृहिणी गृहम्` इति हलायुधः। `मेधृ संगमे` इति धातोर्णिनिः। एभिर्विशेषणैः परोपकारित्वं सत्यवचनत्वं यसः परत्वं पितॄणां शुद्धत्वं च विवक्षितानि ॥
RV 1.8 अनुष्टुप्
शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम् । वार्धके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): शैशव इति॥ शिशोर्भावः शैशवं बाल्यम्। `प्राणभृज्जातिवयोवचनोद्गात्र-` (पा.5।1।129) इत्यञ्प्रत्ययः। `शिशुत्वं शैशवं बाल्यम्` इत्यमरः (अ.को.2|6|40)। तस्मिन्वयसि, अभ्यस्तविद्यानाम्। एतेन ब्रह्मचर्याश्रमो विवक्षितः। यूनो भावो यौवनं तारुण्यम्। युवादित्वादण्प्रत्ययः । `तारुण्यं यौवनं समे` इत्यमरः (अ.को.2|6|40)। तंस्मिन्वयसि विषयैषिणां भोगाभिलाषिणाम्। एतेन गृहस्थाश्रमो विवक्षितः। वृद्धस्य भावो वार्धकं वृद्धत्वम्। `द्वन्द्वमनोज्ञादिभ्यश्च` (पा.5।1।133) इति वुञ्प्रत्ययः। वृद्धस्य भावो वार्धकं वृद्धत्वम्। `वार्धकं वृद्धसंघाते वृद्धत्वे वृद्धकर्मणि` इति विश्वः। संघातार्थेऽत्र `वृद्धाञ्च` इति वक्तव्यात्सामूहिको वुञ्। तस्मिन् वार्धके वयसि मुनिनां वृत्तिरिव वृत्तिर्येषां तेषाम्। एतेन वानप्रस्थाश्रमो विवक्षितः। अन्ते शरीरत्यागकाले योगेन परमात्मध्यानेन। `योगः संनहनोपायध्यानसंगतियुक्तिषु` इत्यमरः (अ.को.2|6|40)। तनुं देहं त्यजन्तीति तनुत्यजः, `कायो देहः क्लीबपुंसोः स्त्त्रियां मूर्तिस्तनुस्तनूः` इत्यमरः (अ.को.2|6|40)। तनुत्यजां देहत्यागिनाम्। `अन्येभ्योऽपि दृश्यते` (पा.3।2।178) इति क्विप्। एतेन मोक्षभावो विवक्षितः ॥
RV 1.9 अनुष्टुप्
रघूणामन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन् । तद्गुणैः कर्णमागत्य चापलाय प्रचोदितः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): रघूणामिति॥ सोऽहं लब्धप्रवेशः। तनुवाग्विभवोऽपि स्वल्पवाणीप्रसारोऽपि सन्। तेषां रघूणां गुणैस्तद्गुणैः। आजन्मशुद्ध्यादिभिः कर्तृभिः कर्णं मम श्रोत्रमागत्य चापलाय चापलं चपलकर्माविमृश्यकरणरूपं कर्तुम्। युवादित्वात्कर्मण्यण । `क्रियार्थोपपदस्य-` (पा. 2।3।14) इत्यादिना चतुर्थीं। प्रचोदितः प्रेरितः सन्। रघूणामन्वयं तद्विषयप्रबन्धं वक्ष्ये। कुलकम् ॥
RV 1.10 अनुष्टुप्
तं सन्तः श्रोतुमर्हन्ति सदसद्व्यक्तिहेतवः । हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ तं रघुवंशाख्यं प्रबन्धं सदसतोर्गुणदोषयोर्व्यव्यक्तेर्हेतवः कर्तारः सन्तः श्रोतुमर्हन्ति। तथा हि-हेम्नो विशुद्धिर्निर्दोषस्वरूपं श्यामिकापि लोहान्तरसंगर्गात्मको दोषोऽपि वाऽग्नौ संलक्ष्यते, नान्यत्र। तद्वदत्रापि सन्त एव गुणदोषविवेकाधिकारिणः, नान्य इति भावः ॥
RV 1.11 अनुष्टुप्
वैवस्वतो मनुर्नाम माननीयो मनीषिणाम् । आसीन्महीक्षितामाद्यः प्रणवश्छन्दसामिव ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): वैवस्वत इति॥ मनस ईषिणो मनीषिणो धीराः, विद्वांस इति त्यावत्। पृषोदरादित्वात्साधुः। तेषां माननीयः पूज्यः। छन्दसां वेदानाम्। `छन्दः पद्मे च वेदे च`इति विश्वः। प्रणव ओंकार इव। महीं क्षियन्तीशत इति महीक्षितः क्षितीश्वराः। क्षिधातोरैश्वर्यार्थात्क्विप्, तुगागमश्च। तेषाम्, आद्य आदिभूतः। विवस्वतः सूर्यस्यापत्यं पुमान् वैवस्वतो नाम वैवस्वत इति प्रसिद्धो मनुरासीत् ॥
RV 1.12 अनुष्टुप्
तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः । दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तदन्वय इति॥ शुद्धिरस्यास्तीति शुद्धिमान्। तस्मिन् शुद्धिरस्यास्तीति शुद्धिमान्। तस्मिन् शुद्धिमति तदन्वये तस्य मनोरन्वये कुले । `अन्ववायोऽन्वयो वंशो गोत्रं चाभिजनं कुलम्` इति हलायुधः। अतिशयेन शुद्धिमान् शुद्धिमत्तरः। `द्विवचनविभज्योप-` (पा.5।3।57) इत्यादिना तरप्प्रत्ययः। दिलीप इति प्रसिद्धो राजा इन्दुरिव राजेन्दू राजश्रेष्ठः। उपमितं व्याघ्रादिना समासः। क्षीरनिधाविन्दुरिव प्रसूतो जातः॥
RV 1.13 अनुष्टुप्
व्यूढोरस्को वृषस्कन्धः शालप्रांशुर्महाभुजः । आत्मकर्मक्षमं देहं क्षात्रो धर्म इवाश्रितः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): व्यूढेति॥ व्यूढं विपुलमुरो यस्य स व्यूढोरस्कः। `उरःप्रभृतिभ्यः कप्‌` (पा.5।4।151)। `व्यूढं विपुलं भद्रं स्फारं समं वरिष्ठं च` इचि यादवः। वृषस्य स्कन्ध इव स्कन्धो यस्य स तथा। `सप्तम्युपमान-`इत्यादिनोत्तरपदलोपी बहुव्रीहिः। शालो वृक्ष इव प्रांशुरुन्नतः शालप्रांशुः। `प्राकारवृक्षयोः शालः शालः सर्जतरुः स्मृतः।` इति यादवः। `उञ्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गे` इत्यमरः। महाभुजो महाबाहुः। आत्मकर्मक्षमं स्वव्यापारानुरूपं देहमाश्रितः प्राप्तः, क्षात्रः क्षत्रसंबन्धी धर्म इव स्थितः, मूर्तिमान् पराक्रम इव स्थित इत्युत्प्रेक्षा ॥
RV 1.14 अनुष्टुप्
सर्वातिरिक्तसारेण सर्वतेजोभिभाविना । स्थितः सर्वोन्नतेनोर्वीं क्रान्त्वा मेरुरिवात्मना ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): सर्वातिरिक्तेति॥ सर्वातिरिक्तसरेण सर्वेभ्यो भूतेभ्योऽधिकबलेन। `सारोबले स्थिरांशे च` इत्यमरः। सर्वाणि भूगतानि तेजसाऽभिभवतीति सर्वतेजोभिभावी तेन। सर्वेभ्य उन्नतेनात्मना शरीरेण। `आत्मा देहे धृतौ जीवे स्वभावे परमात्मनि` इति विश्वः। मेरुरिव। उर्वीं क्रान्त्वाऽऽक्रम्य स्थितः। मेरावपि विशेषणानि तुल्यानि। `अष्टाभिश्च सुरेन्द्राणां मात्राभिर्निर्मितो नृपः। तस्मादभिभवत्येष सर्वभूतानि तेजसा ॥` (मनु.7।5)इति मनुवचनाद्राज्ञः सर्वतेजोभिभावित्वं ज्ञेयम् ॥
RV 1.15 अनुष्टुप्
आकारसदृशप्रज्ञः प्रज्ञया सदृशागमः । आगमैः सदृशारम्भ आरम्भसदृशोदयः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): आकारेति॥ आकारेण मूर्त्या सदृशी प्रज्ञा यस्य सः। प्रज्ञया सदृशागमः प्रज्ञानुरूपशास्त्त्रपरिश्रमः। आगमैः सदृश आरम्भः कर्म यस्य स तथोक्तः। आरभ्यत इत्यारम्भः कर्म। तत्सदृश उदयः फलसिद्धिर्यस्य स तथोक्तः ॥
RV 1.16 अनुष्टुप्
भीमकान्तैर्नृपगुणैः स बभूवोपजीविनाम् । अधृष्यश्चाभिगम्यश्य यादोरत्नैरिवार्णवः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): भीमेति॥ भीमैश्च कान्तैश्च नृपगुणै राजगुणैस्तेजः प्रतापादिभिः कुलशीलदाक्षिण्यादिभिश्च स दिलीप उपजीविनामाश्रितानाम्। यादोभिर्जलजीवैः। `यादांसि जलजन्तवः` इत्यमरः (अ.को.1|10|20)। रत्नैश्चार्णव इव। अधृष्योऽनभिभवनीयश्चाभिगम्य आश्रयणीयश्च बभूव ॥
RV 1.17 अनुष्टुप्
रेखामात्रमपि क्षुण्णादा मनोर्वर्त्मनः परम् । न व्यतीयुः प्रजास्तस्य नियन्तुर्नेमिवृत्तयः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): रेखामात्रमिति॥ नियन्तुः शिक्षकस्य सारथेश्च तस्य दिलीपस्य संबन्धिन्यो नेमीनां चक्रधाराणां वृत्तिरिव वृत्तिर्व्यापारो यासां ताः। `चक्रधारा प्रधिर्नेमिः` इति यादवः। `चक्रं रथाङअगं तस्यान्ते नेमिः स्त्त्री स्यात्प्रधिः पुमान्` इत्यमरः। प्रजाः। आ मनोः, मनुमारभ्येत्यभिविधिः। पदद्वयं चैतत्। समासस्य विभाषितत्वात्। क्षुण्णादभ्यस्तात् प्रहताञ्च वर्त्मन आचारपद्धतेरध्वनश्च परमधिकम्। इतस्तत इत्यर्थः। रेखा प्रमाणमस्येति रेखामात्रं रेखाप्रमाणम्। ईषदपीत्यर्थः। `प्रमाणे द्वयसच्-` (पा.5।2।37) इत्यादिना मात्रच्प्रत्ययः। परशब्दविशेषणं चैतत्। न व्यतीयुर्नातिक्रान्तवत्यः। कुशलसारथिप्रेरिता रथनेमय इव तस्य प्रजाः पूर्वक्षुण्णमार्गं न जहुरिति भावः॥
RV 1.18 अनुष्टुप्
प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत् । सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): प्रजानामिति॥ स राजा प्रजानां भूत्या अर्थाय भूत्यर्थं वृध्द्यर्थमेव। अर्थेन सह नित्यसमासः सर्वलिङ्गता च वक्तव्या। ग्रहणक्रियाविशेषणं चैतत्। ताभ्यः प्रजाभ्यो बलिं षष्ठांशरूपं करमग्रहीत्। `भागधेयः करो बलिः` इत्यमरः (अ.को.2|8|27)। तथा हि-रविः सहस्रं गुणा यस्मिन्कर्मणि तद्यथा तथा सहस्रगुणं सहस्रधा। उत्स्रष्टुं दातुम्। उत्सर्जनक्रियाविशेषणं चैतत्। रसमम्बु। आदत्ते गृह्णाति। `रसो गन्धे रसे स्वादेतिक्तादौ विषरागयोः। शृङ्गारादौ द्रवे वीर्ये देहधात्वम्बुपारदे॥` इति विश्वः ॥
RV 1.19 अनुष्टुप्
सेना परिच्छदस्तस्य द्वयमेवार्थसाधनम् । शास्रेष्वकुण्ठिता बुद्धिर्मौर्वी धनुषि चातता ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): सेनेति॥ तस्य राज्ञः सेना चतुरङ्गबलम्। परिच्छाद्यतेऽनेनेति परिच्छद उपकरणं बभूव। छत्रचामरादितुल्यमभूदित्यर्थः। `पुंसि संज्ञायां घः प्रायेण` (पा.3।3।118) इति घप्रत्ययः। `छादेर्घोऽव्द्युपसर्गस्य` (पा.6।4।96) इत्युपधाह्रस्वः। अर्थस्य प्रयोजनस्य तु साधनं द्वयमेव। शास्त्त्रेष्वकुण्ठिताऽव्याहता बुद्धिः। `व्यापृता`इत्यपि पाठः। धनुष्यातताऽऽरोपिता। मौर्वी ज्या च। `मौर्वी ज्याशिञ्जिनी गुणः` इत्यमरः। नीतिपुरः सरमेव तस्य शौर्यमभूदित्यर्थः॥
RV 1.20 अनुष्टुप्
तस्य संवृतमन्त्रस्य गूढाकारेङ्गितस्य च । फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तस्येति॥ संवृतमन्त्रस्य गुप्तविचारस्य। `वेदभेदे गुप्तवादे मन्त्रः` इत्यमरः (अ.को.3|3|175)। शोकहर्षादिसूचको भ्रुकुटीमुखरागादिराकारः। इङ्गितं चेष्टितं हृदयगतविकारो वा। `इङ्गितं हृद्गतो भावो बहिराकार आकृतिः` इति सज्जनः। गूढे आकारेङ्गिते यस्य। स्वभावचापलाद्भ्रमपरम्परया मुखरागादिलिङ्गैर्वाऽतृतीयगामिमन्त्रस्य तस्य। प्रारभ्यन्त इति प्रारम्भाः सामाद्युपायप्रयोगाः। `प्राक्`इत्यव्ययेन पूर्वजन्मोच्यते। तत्र भवाः प्राक्तनाः। `सायंचिरं-` (पा.4।3।23)इत्यादिना ट्युल्प्रत्ययः। संस्काराः पूर्वकर्मवासना इव फलेन कार्येण अनुमेया अनुमातुं योग्या आसन्। अत्र याज्ञवल्क्यः(आचार.13।344)-`मन्त्रमूलं यतो राज्यमतो मन्त्रं सुरक्षितम् । कुर्याद्यथा तन्न विदुः कर्मणामा फलोदयात् ॥` इति ॥
RV 1.21 अनुष्टुप्
जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः । अगृध्नुराददे सोऽर्थमसक्तः सुखमन्वभूत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): जुगोपेति॥ अत्रस्तोऽभीतः सन्। `त्रस्नौ भीरुभीरुकभीलुकाः` इत्यमरः (अ.को.3|1|22)। त्रासोपाधिमन्तरेणैव त्रिवर्गसिद्धेः प्रथमसाधनत्वादेवाऽऽत्मानं शरीरं जुगोप रक्षितवान्। अनातुरोऽरुग्ण एव धर्मं सुकृतं भेजे। अर्जितवानित्यर्थः। अगृध्नुरगर्धनशील एवार्थमाददे स्वीकृतवान्। `गृध्नुस्तु गर्धनः । लुब्धोऽभिलाषुकस्तृष्णक्समौलोलुपलोल्लभौ।` इत्यमरः (अ.को.3|1|22)। `त्रसिगृधिधृषिक्षिपेः क्नुः` (पा.3।2।140) इति क्नुप्रत्ययः। असक्त आसक्तिरहित एव सुखमन्वभूत् ॥
RV 1.22 अनुष्टुप्
ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः । गुणा गुणानुबन्धित्वात्तस्य सप्रसवा इव ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): ज्ञान इति॥ ज्ञाने परावृत्तान्तज्ञाने सत्यपि मौनं वाङ्नियमनम्। यथाह कामन्दकः-`नान्योपतापि वचनं मौनं व्रतचरिष्णुता` इति। शक्तौ प्रतीकारसामर्ध्येऽपि क्षमाऽपकारसहनम्। अत्र चाणक्यः-`शक्तानां भूषणं क्षमा` इति। त्यागे वितरणे सत्यपि श्लाघाया विकत्थनस्य विपर्ययोऽभावः। अत्राह मनुः (4।236)-`न दत्त्वा परिकीर्तयेत्` इति। इत्थं तस्य गुणा ज्ञानादयो गुणैर्विरुद्धैर्मौनादिभिः अनुबन्धित्वात्सहचारित्वात्। सह प्रसवो जन्म येषां ते सप्रसवाः सोदरा इवाभूवन्। विरुद्धा अपि गुणास्तस्मिन्नविरोधेनैव स्थिता इत्यर्थः ॥
RV 1.23 अनुष्टुप्
अनाकृष्टस्य विषयैर्विद्यानां पारदृश्वनः । तस्य धर्मरतेरासीद्वृद्धत्वं जरसा विना ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अनाकृष्टस्येति॥ विषयैः शब्दादिभिः। `रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी` इत्यमरः (अ.को.1|5|8)। अनाकृष्टस्यावशीकृतस्य विद्यानां वेदवेदाङ्गादीनां पारदृश्वनः पारमन्तं दृष्टवतः। दृशेः क्वनिप्। धर्मे रतिर्यस्य तस्य राज्ञो जरसा जरया विना। `विस्रसा जरा` इत्यमरः (अ.को.2|6|41)। `षिद्भिदादिभ्योऽङ्` (पा. 3।3।104) इत्यङ्प्रत्ययः। `जराया जरसन्यतरस्याम्` (पा.7।2।101) इति जरसादेशः। वृद्धत्वं वार्धकमासीत्। तस्य यूनोऽपि विषयवैराग्यादिज्ञानगुणसंपत्त्या ज्ञानतो वृद्धत्वमासीदित्यर्थः। नाथस्तु-चतुर्विधं वृद्धत्वमिति कृत्वा `अनाकृष्टस्य` इत्यादिना विशेषणत्रयेण वैराग्यज्ञानशीलवृद्धत्वान्युक्तानीत्यवोचत् ॥
RV 1.24 अनुष्टुप्
प्रजानां विनयाधानाद्रक्षणाद्भरणादपि । स पिता पितरत्त्तसां केवलं जन्महेतवः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): प्रजानामिति॥ प्रजायन्त इति प्रजा जनाः। `उपसर्गे च संज्ञायाम्` (पा.3।2।99)इति डप्रत्ययः। `प्रजा स्यात्संततौ जने` इत्यमरः। तासां विनयस्य शिक्षाया आधानात् करणात्। सन्मार्गप्रवर्तनादिति यावत्। रक्षणाद्भयहेतुभ्यस्त्त्राणात्। आपन्निवारणादिति यावत्। भरणादन्नपादादिभिः पोषणादपि। अपिः समुञ्चये। स राजा पिताऽभूत्। तासां पितरस्तु जन्महेतवो जन्म मात्रकर्तारः केवलमुत्पादका एवाभूवन्। जननमात्र एव पितॄणां व्यापारः। सदा शिक्षारक्षणादिकं तु स एव करोतीति तस्मिन्पितृत्वव्यपदेशः। आहुश्च -`स पिता यस्तु पोषकः` इति ॥
RV 1.25 अनुष्टुप्
स्थित्यै दण्डयतो दण्ड्यान्परिणेतुः प्रसूतये । अप्यर्थकामौ तस्यास्तां धर्म एव मनीषिणः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स्थित्या इति॥ दण्डमर्हन्तीति दण्ड्याः। `दण्डादिभ्यो यत्` (पा. 5।1।36) इति यप्रत्ययः। `अदण्ड्यान्दण्डयन्राजा दण्ड्यन्। अयशो महदाप्नोति नरकं चैव गच्छति॥`(मनु.8।128) इति शास्त्त्रवचनात्। तान् दण्ड्यानेव स्थित्यै लोकप्रतिष्ठायै दण्डयतः शिक्षयतः। प्रसूतये संतानायैव परिणेतुर्दारान्परिगृह्णतः। मनीषिणो विदुषः। दोषज्ञस्येति यावत्। `विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः। धीरो मनीषो` इत्यमरः (अ.को.2|7|5)। तस्य दिलीपस्यार्थकामावपि धर्म एवाऽऽस्तां जातौ। अस्तेर्लङ्। अर्थकामसाधनयोर्दण्डविवाहयोर्लोकस्थापनप्रजोत्पादनरूपधर्मार्थत्वेनानुष्ठानादर्थकामावपि धर्मशेषतामापादयन्स राजा धर्मोत्तरोऽभूदित्यर्थः। आह च गौतमः(9।10)-`न पूर्वाह्णमध्यंदिनापराह्णानफलान्कुर्यात्। यथाशक्ति धर्मार्थकामेभ्यस्तेषु धर्मोत्तरः स्यात् ॥` इति ॥
RV 1.26 अनुष्टुप्
दुदोह गां स यज्ञाय सस्याय मघवा दिवम् । संपद्विनिमयेनोभौ दधतुर्भुवनद्वयम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): दुदोहेति॥ स राजा यज्ञाय यज्ञं कर्तुं गां भुवं दुदोह। करग्रहणेन रिक्तां चकारेत्यर्थः। मघवा देवेन्द्रः सस्याय सस्यं वर्धयितुं दिवं स्वर्गं दुदोह। द्युलोकान्महीलोके वृष्टिमुत्पादयामासेत्यर्थः। `क्रियार्थोपपदस्य-` (पा. 2।3।14) इत्यादेना यज्ञसस्याभ्यां चतुर्थीं। एवमुभौ संपदो विनिमयेन परस्परमादानप्रतिदानाभ्यां भुवनद्वयं दधतुः पुपुषतुः। राजा यज्ञैरिन्द्रलोकमिन्द्रश्चोदकेन भूलोकं पुपोषेत्यर्थः। उक्तं च दण्डनीतौ-`राजा त्वर्थान्समाहृत्य कुर्यादिन्द्रमहोत्सवम्। प्रीणितो मेघवाहस्तु महतीं वृष्टिमावहेत् ॥` इति ॥
RV 1.27 अनुष्टुप्
न किलानुययुस्तस्य राजानो रक्षितुर्यशः । व्यावृत्ता यत्परस्वेभ्यः श्रुतौ तस्करता स्थिता ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): न किलेति॥ राजानोऽन्ये नृपा रक्षितुर्भयेभ्यस्त्त्रातुः। तस्य राज्ञो यशो नानुययुः किल नानुचक्रुः खलु। कुतः? यद्यस्मात्कारणात् तस्करता चौर्यं परस्वेभ्यः परधनेभ्यः स्वविषयभूतेभ्यो व्यावृत्ता सती श्रुतौ वाचकशब्दे स्थिता प्रवृत्ता। अपहार्यान्तराभावात् `तस्कर` शब्द एवापहृत इत्यर्थः। अथवा, -`अत्यन्तासत्यपि ह्यृर्थे ज्ञानं शब्दः करोति हि` इति न्यायेन शब्दे स्थिता स्फुरिता, न तु स्वरूपतोऽस्तीत्यर्थः ॥
RV 1.28 अनुष्टुप्
द्वेष्योऽपि संमतः शिष्टस्तस्यार्तस्य यथौषधम् । त्याज्यो दुष्टः प्रियोऽप्यासीदङ्गुलीवोरगक्षता ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): द्वेष्य इति॥ शिष्टो जनो द्वेष्यः शत्रुरपि। आर्तस्य रोगिण औषधं यथौषधमिव। तस्य संमतोऽनुमत आसीत्। दुष्टो जनः प्रियोऽपि प्रेमास्पदीभूतोऽपि उरगक्षता सर्पदष्टाऽङ्गुलीव। `छिन्द्याद्बाहुमपि दुष्टमात्मः` इति न्यायात्। त्याज्य आसीत्। तस्य शिष्ट एव बन्धुर्दुष्ट एव शत्रुरित्यर्थः ॥
RV 1.29 अनुष्टुप्
तं वेधा विदधे नूनं महाभूतसमाधिना । तथा हि सर्वे तस्यासन्परार्थैकफला गुणा ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ वेधाः स्रष्टा। `स्रष्टा प्रजापतिर्वेधाः` इत्यमरः (अ.को.1|1|17)। तं दिलीपम्। स्माधीयतेऽनेनेति समाधिः कारणसामग्री। महाभूतानां यः समाधिस्तेन महाभूतसमाधिना विदधे ससर्ज। नूनं ध्रुवम्। इत्युत्प्रेक्षा। तथा हि-तस्य राज्ञः सर्वे गुणा रूपरसादिमहाभूतगुणवदेव परार्थः परप्रयोजनमेवैकं मुख्यं फलं येषां ते तथोक्ता आसन्। महाभूतगुणोपमानेन कारणगुणाः कार्यं संक्रामन्तीति न्यायः सूचितः ॥
RV 1.30 अनुष्टुप्
स वेलावप्रवलयां परिखीकृतसागराम् । अनन्यशासनामुर्वीं शशासैकपुरीमिव ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स दिलीपः। वेलाः समुद्रकूलानि। `वेला कूलेऽपि वारिधेः` इति विश्वः। ता एव वप्रवलयाः प्राकारवेष्टनानि यस्यास्ताम्। `स्याञ्चयो वप्रमस्त्त्रियाम्। प्राकारो वरणः सालः प्राचीरं प्रान्ततो वृत्तिः ॥` इत्यमरः (अ.को.2|2|3)। परितः खातं परिखा दुर्गवेष्टनम्। `खातं खेयं तु परिखा` इत्यमरः (अ.को.2|2|3) । `अन्येष्वपि दृश्यते` (पा.3।2।101)इत्यत्र `अपि` शब्दात् खनेर्डप्रत्ययः। अपरिखाः परिखाः संपद्यमानाः कृताः परिखीकृताः सागरा यस्यास्ताम्। अभूततद्भावे च्विः। अविद्यमानमन्यस्य राज्ञः शासनं यस्यास्तामनन्यशाननामुर्वीमेकपुरीमिव शशास। अनायासेन शासितवानित्यर्थः॥
Full Table of Contents Next (Ch. 2) →